________________
( २४१५ ) अभिधानराजेन्द्रः |
बुडावास
पालयित्वा द्वादश वर्षाण्यव्यवच्छितिं कुर्वता यदि शिष्यो निष्पादितस्ततस्तं गये स्थापयित्वा स्वयमभ्युद्यतविहारेण विहर्तव्यमिति भगवतामर्हतामुपदेशः । अथ न कोऽपि शिच्यो निष्पन्नस्तर्हि गच्छः परिवर्द्धनीयः, तथा यद्यपि च न निष्पन्नः कोऽपि शिष्यस्तथापि कश्चिदसमर्थो भवत्यभ्युद्यतविहारेण विहतु सोऽपि नाभ्युद्यतविहारं प्रतिपद्यते, तस्य शिष्यनिष्पत्यभावेनाभ्युद्यतविहारप्रतिपत्स्यशक्त्या वा गच्छं परिपालयतो दीर्घाऽऽयुषो वृद्धवासस्य कालः । एनामेव गाथां व्याख्यानयति
सुत्तागमो बारसमा - चरियं देसाय दरिसणं तु गतं । उवकरणदेहइंदिय-तिविहं पुण लाघवं होइ ।। ५३१ ॥ विद्या नाम- सूत्रागमः स द्वादश वर्षाणि यावत् तदुपलक्षणमेतदर्थागमो ऽपि विद्या सोऽपि द्वादश वर्षाणि कृतः, तथा चरितं नाम देशानां दर्शनं तदपि द्वादश वर्षाणि कृतम् । लाघवं पुनस्त्रिविधं भवति । तद्यथा-उपकरणलाघवं देहलाघवम्, इन्द्रियलाघवं च । तत्रोपकरणलाघवम्-उपधेररूपीकरणं यदतिरिक्तमुपकरणं न गृह्णाति गृहीतं वाsरद्विष्टः सन् सूत्रोक्तविधिना परिभुङ्क्ते, देहलाघवं यन्नातिकृशो नातिस्थूलः, शरीरेण, इन्द्रियलाघवम्-यदीन्द्रियाणि तस्य वशे वर्त्तन्ते ।
चउत्थ छट्ठादि तवो, कतो उज्वोच्छित्तीऍ होइ सिद्धिपहो । सुत्तविहीए संजम, बुड्डो ग्रह दीहमाई तु ।। ५३२ ॥ तपश्चतुर्थषष्ठादिकं कृतं तथा अव्यवस्थितौ क्रियमाणायां सिद्धिपथो-मोक्षमार्गे देशितो भवति, तथा सूत्रविधिना संयमः परिपालितः स च जातो वृद्धोऽप्यथ दीर्घमायुः । अन्भुञ्जतमत एंतो, अगीतसिस्सो व गच्छपडिबद्धो । अच्छति जुन्नमहल्लो, कारणतो वा अजुपोऽवि ||५३३ ॥ 'अभ्युद्यतविहारमशक्नुवन् श्रगीताः शिष्या अद्यापि यस्यासौ वा गच्छप्रतिबद्धो - गच्छ परिपालनप्रवृत्तः सन् जीर्णो महान् वृद्धवासे तिष्ठति । श्रजीर्णोऽपि वा - तरुणो ऽपि वा कारणतः क्षीणजङ्घाबलतया रोगादिना वा वृद्धाबासमुपसेवते ।
तदेव कारणजातं गाथाद्वयेनाहजंघाबले व खीणे, गेलन सहाय ताव दुब्बल्ले । अहवाऽवि उत्तमट्ठे, निष्फत्ती चैव तरुणायं ।। ५३४ ॥ खेत्ताणं च अलंभे, कयसंलेहेव तरुणपरिकम्मे । Reir कारणेहिं, बुडावासं वियाग्राहि ।। ५३५ ॥ जावलं वा क्षीणं, ग्लानत्वं वा तस्यान्यस्य वा जातम्, असहायता वा समुत्पन्ना दौर्बल्यं वा शरीरस्योपजातम्, अथवा उत्तमार्थप्रतिपक्षः, अथवा तरुणानामात्मपरलक्षणानां निष्पत्तिः सूत्रतोऽर्थतश्च कर्तव्या । क्षेत्राणां वा संयमस्फीतिहेतू नामलाभः । कृतसंलेखो वा प्रतिपन्नसंलेखनाको वर्तते । यदि वा तरुणस्य - रोगविमुक्तस्य सतः प्रतिकर्म बलविवृद्धिकरणं समारब्धं ततो वृद्धावासः । तथा चाह - एतैः कारणैर्वृद्धावासं विजानीहि ।
तत्र प्रथमद्वारे - अहाबलं परिक्षीणमित्येवंरूपं कियत् क्षेत्रं कियता कालेन गन्तुं शक्नुवन् विहरणाहों भवति ।
Jain Education International
For Private
बुडावास कियद्वा अशक्नुवन् जङ्गाबलपरिक्षीण इत्येतत्प्रतिपादयतिदोणि वि दाऊण दुबे, सुत्तं दाऊण अत्थव च । दोषी दिवड्डमेगं, तु गाउ तंतीसु अणुकंपा ॥ ५३६ ॥ arovar - सूत्रपौरुषी, अर्थपौरुषी चेत्यर्थः । दवा यावद्विक्षावेला भवति तावद्यो द्वे गव्यूते व्रजति एष सपराक्रमो विहर्तुम् । 'सुत्तं दाऊण अत्थवज्रं चे' ति सूत्रं सूत्रपौरुष दस्व अर्थवर्जम् - अर्थपौरुषीमदत्वा यो भिक्षावेलातः अर्वाग् द्वे गव्यूते व्रजति सोऽपि सपराक्रमो विहर्तुम् । शब्दोऽनुक्तसमुच्चयार्थः । स चैतत् सूत्र पौरुषीमर्थपौरुष वा दवा भिक्षावेलात आरतो यो द्वे गव्यूते याति एषोऽपि सपराक्रमो विहर्तुमिति । एवमेते त्रयः प्रकारा गव्यूतद्वयेऽभिहिताः । एते एव त्रयः प्रकारा इव गव्यूते, त्रयश्च प्रकारा गव्यूते द्रष्टव्याः । एतेषु च त्रिष्वपि द्विकद्वयर्द्धगग्यूतरूपेषु तस्यानुकम्पा विश्रामणादिरूपा वक्ष्यमाया कर्तव्या ।
संप्रति चशब्दसूचितं तृतीयं प्रकारमुपदर्शयतिखेत्ते अद्धजेोयण, कालें जाव भिक्खवेलाओ । खेत्ते य कालेय, जाखसु सपरकमं थेरं ॥ ५३७ ॥ सूत्रपौरुषीमर्थपौरुषीं वा कृत्वा कालतः प्रातर्वेलात आरभ्य यावद् भिक्षावेला भवति तावत् यः क्षेत्रतोऽर्द्धयोजनं गव्यूतद्वयप्रमाणं व्रजति तं जानीत, क्षेत्रतः कालतश्च सपराक्रमं स्थविरम् । तदेवं गव्यूतद्वयविषये चशब्दसूचितः तृतीयः प्रकारः । प्रकारत्रयदर्शिता एवं द्वधर्द्धगव्यूते गब्यूतेऽपि च द्रष्टव्याः ।
तथा चैतदर्थख्यापनार्थमेव गव्यूतविषयं तृतीयं प्रकारमाहजो गाउयं समत्थो, सूरादारम्भ भिक्खवेलाओ । विहरउ एसो सपर -- कमो उ नो विहरते ण परं ॥ ५३८ ॥ यः सूरात् -- सूरोङ्गमादारभ्य यावद्भिक्षावेला भवति तावत् व्यूतं गन्तुं समर्थ एषोऽपि सपराक्रम इति विहर्तुम् । ततः परं गव्यूतमिति तावता कालेन गन्तुमशक्नो विहरेत् । इदमुक्तम् -- त्रिष्वपि गव्यूतद्वयादिष्वनुकम्पा कर्तव्येति । तत्र तामेवानुकम्पामाह
वीसामण उवगरणे, भत्ते पाणे व लंबणे चैत्र ! गाउयदिवडदोसुं, अणुकंपेसा तिसुं होइ ॥ ५३६ ॥ अन्तराऽन्तरा यत्र विश्रमणार्थे तिष्ठति तत्र विश्राभ्यते, उपकरणे - उपकरणविषये अनुकम्पा कर्त्तव्या, यत्तस्योपकरणं तदम्ये वहन्ति, यैश्च तस्य शीतं न भवति तादृशानि वस्त्राणि देयानि । तथा भक्तं पानंच तत्प्रायोग्यं शुद्धं न लभ्यते, तदा पञ्चकपरिहाण्या तदुत्पादनीयम् । यत्र च विषमं तत्र बाहुप्रदानादिनाऽवलम्बनं कर्त्तव्यम् । चशब्दात् स तेन कालेनोवालमीयो यस्मिन्नुष्णादिभिर्न परिताप्यते । एषाऽनुकम्पा त्रिषु गव्यूतपर्स - गव्यूत-द्विगव्यूतेषु भवति ज्ञातव्या । अथवा - त्रिष्वनुकम्पेति प्रकारान्तरेण व्याख्यानयति
हवा आहारोवहि, सेजा अणुकंप एस तिविहो उ । पढमालिया विस्सा-मखादि उबही य बोधव्या । ५४० |
Personal Use Only
www.jainelibrary.org