________________
वीर
देव देवाण महाणुभावे, सहस्सा दिवि णं विसिडे ॥७॥ से पाया अक्खयसागरे वा, महोदही वाव अणाले वा श्रसाइमुके,
तपारे ।
( १३६२ ) अभिधानराजेन्द्रः ।
"
सकेव देवाहिवई जुईमं ॥ ८ ॥ नास्योत्तरोऽस्तीत्यनुत्तरस्तमिममनुत्तरं धर्मे जिनानाम्ऋषभादितीर्थकृतां सम्बन्धिनमयं - मुनिः- श्रीमान् वर्द्धमानाख्यः काश्यपः गोत्रेण, श्राशुप्रज्ञः केवलज्ञानी - उत्पनदिव्यज्ञानो नेता -प्रणेतेति ताच्छीलिकस्तृन् तद्योगे'न लोकाव्ययनिष्ठे ' ( पा० २-३-६६ ) त्यादिना षष्ठीप्रतिषेधाद्धर्ममित्यत्र कर्मणि द्वितीयैव, यथा चेन्द्रो दिवि - स्वर्गे देवसहस्राणां महानुभावो महाप्रभाववान् 'राम् इति वाक्यालङ्कारे, तथा नेता-प्रणायको विशिष्टो-रूपबलवर्णादिभिः प्रधानः एवं भगवानपि सर्वेभ्यो विशिष्टः प्रणायको महानुभावश्चेति ॥ ७ ॥ श्रपि च - सौ भगवान् प्रज्ञायते ऽनयेति प्रज्ञा तया अक्षयः- न तस्य ज्ञातव्येऽर्थे बुद्धिः प्रतिक्षीयते प्रतिहन्यते वा, तस्य हि बुद्धिः केवलज्ञानाख्या, साच साद्यपर्यवसाना कालतो द्रव्यक्षेत्रभावैरप्यनन्ता, सर्वसाम्येन दृष्टान्ताभावाद्, एकदेशेन त्वाहयथा - ' सागर ' इति श्रस्य चाविशिष्टत्वात् विशेषणमाह - महोदधिरिव - स्वयम्भूरमण इवानन्तपारः यथाऽसौ विस्तीर्णो गम्भीरजलोऽक्षोभ्यश्च एवं तस्यापि भगवतो विस्तीर्णा प्रज्ञा स्वयम्भूरमणानन्तगुणा गम्भीराऽक्षोभ्या च, यथा च अलौ सागरः अनाविलः - अकलुषजलः, एवं भगवानपि तथाविधकर्मलेशाभावादकलुषज्ञान इति, तथाकषाया विद्यन्ते यस्यासौ कषायी न कषायी अकषायी, तथा ज्ञानावरणीयादिकर्मबन्धनाद्वियुक्लो-मुक्तः, भिक्षुरिति कचित्पाठः, तस्यायमर्थः - सत्यपि निःशेषान्तरायक्षये सर्वलोकपूज्यत्वे च तथापि भिक्षामात्र जीवित्वात् भिक्षुरेवासौ, नाक्षीणमहानसादिलब्धिमुपजीवतीति, तथा शक्र इव देवाधिपतिः द्युतिमान् दीप्तिमानिति ॥ ८ ॥ किश्ञ्च - से वीरिए सं पडिपुन्नवीरिए, सुदंसणे वा गगसव्वसे । सुराल वासिमुदागरे से, विरायऽगगुणोववे ॥ ६ ॥ सयं सहस्साण उ जोयणाणं, तिकंडगे पंडगवेजयंते ।
से जोयणे यवणवते सहस्से,
उस्सितो दुसहस्समेगं ॥ १० ॥
स- भगवान् वीर्येण - औरसेन बलेन धृतिसंहननादिभिश्व वीर्यान्तरायस्य निश्शेषतः क्षयात् प्रतिपूर्णवीर्यः, तथा सुदशनो- मेरुर्जम्बूद्वीपनाभिभूतः स यथा नगानां पर्वतानां सर्वेषां श्रेष्ठः - प्रधानः तथा भगवानपि वीर्येणान्यैश्च गुणैः सर्वश्रेष्ठ इति, तथा यथा - सुरालयः -- स्वर्गस्तनिवासिनां
Jain Education International
वीर
मुदाकरो - हर्षजनकः प्रशस्तवर्णरसगन्धस्पर्शप्रभावादिभि - गुणैरुपेतो विराजते - शोभते, एवं भगवानप्यनेकैर्गुणैरुपेतो विराजत इति । यदिवा-यथा त्रिदशालयो मुदाकरोनेकैर्गुणैरुपेतो विराजत इति एवमसावपि मेरुरिति ॥ ६ ॥ पुनरपि दृष्टान्तभूतमेरुवणैनायाह - स मेरुर्यो जनसहस्राणां शतमुच्चैस्त्वेन, तथा त्रीणि कण्डान्यस्येति त्रिकण्डः, तद्यथा-भौमं, जाम्बूनदं, वैडूर्यमिति । पुनरप्यसावेव विशेष्यते' पण्डकवैजयन्त' इति पण्डकवनं शिरसि व्यवस्थितं वैजयन्तीकल्प - पताकाभूतं यस्य स तथा तथाऽसावूर्ध्वमुच्छ्रितो नवनवतिर्योजन सहस्राण्यधोऽपि सहस्रमेकमवगाढ इति ॥ १० ॥
तथा
पुट्ठे मे चिट्ठभूमि डिए, जं सूरिया अणुपरिट्टयंति । से हेमवन्ने बहुनंदणे य
जंसी रतिं वेदयतीमहिंदा ॥ ११ ॥ से पव्व सहमहप्पगासे, विरायती कंचणमवभे । अणुत्तरे गिरिसु य पव्वदुग्गे,
गिरीवरे से जलिए व भोमे ॥ १२ ॥
नभसि स्पृष्टो - लग्नो नभो व्याप्य तिष्ठति तथा भूमिं चावगाह्य स्थित इति ऊर्ध्वाधस्तिर्य ग्लोकसंस्पर्शी यथा यं मेरुं सूर्या- श्रदित्या ज्योतिष्का अनुपरिवर्तयन्तियस्य पार्श्वतो भ्रमन्तीत्यर्थः, तथाऽसौ हेमवर्णो- निष्टप्तजाम्बूनदाभः, तथा बहूनि चत्वारि नन्दनवनानि यस्य स बहुनन्दनवनः, तथाहि भूमौ भद्रशालवनं ततः पञ्चयोजनशतान्यारुह्य मेखलायां नन्दनं, ततो द्विषष्टियोजन सहस्राणि पञ्चशताधिकान्यतिक्रम्य सौमनसं, ततः षट्त्रिंशत्सहस्राण्यारुह्य शिखरे पण्डकवनमिति । तदेवमसौ चतुर्नन्दनवनाद्युपेतोfararanीडास्थानसमन्वितः, यस्मिन् महेन्द्रा अभ्यागत्य त्रिदशालयाद्रमणीयतरगुणेन रतिम्-रमणक्रीडां वेदयन्ति-अनुभवन्तीति ॥ ११॥ अपि च-सः- मेर्वाख्योऽयं पर्वतो मन्दरो मेरुः सुदर्शनः सुरगिरित्यैवमादिभिः शब्दैर्महान् प्रकाशः-प्रसिद्विर्यस्य स शब्दमहाप्रकाशो विराजते - शोभते काञ्चनस्येव मृष्टः -- श्लक्ष्णः शुद्धो वा वर्णो यस्य स तथा एवं न विद्यते उत्तरः- प्रधानो यस्यासावनुत्तरः, तथा गिरिषु च मध्ये पर्वभिः– मेखलादिभिर्देष्ट्रा पर्वतैर्वा दुर्गो-विषमः सामान्यजन्तूनां दुरारोहो गिरिवरः- पर्वतप्रधानः तथाऽसौ मणिभिरौषधीभिश्व देदीप्यमानतया भौम इव-भूदेश इव ज्वलित इति ॥ १२ ॥ ( त्रयोदशमी १३ गाथा 'जम्बूदीव शब्दे चतुर्थभागे १३७८ पृष्ठे गता । )
साम्प्रतं मेरुदृष्टान्तोपक्षेपेण दाष्टन्तिकं दर्शयतिसुदंसणस्सेव जसो गिरिस्स, पच्चई महतो पव्वयस्स । तोवमे समणे नायपुत्ते, जातीजसोदंसणनाणसीले ॥ १४ ॥
For Private & Personal Use Only
www.jainelibrary.org