Page #1
--------------------------------------------------------------------------
________________
SONAL
।। नमोत्थु णं समणस्स भगवओ महावीरस्स ।। ।। सिद्धान्तमहोदधि श्रीमद्विजयप्रेमसूरीश्वरगुरुभ्यो नमः ।
अक्षरगमनिकासमलङ्कतम् श्री आचाराङ्ग-सूत्रम्
(प्रथम श्रुतस्कन्धः)
सम्पादकः पू. पं. श्री पद्मसेनविजयजी म. सा.
अक्षरगमनिकाकारः पू.पं. श्री कुलचन्द्रविजयजी म. सा.
लेखकः पू.पं. श्री निपुणचन्द्रविजयजी म. सा.
प्रकाशक श्री जैन संघ, पिन्डवाडा (राजस्थान) शेठ कल्याणजी सौभागचन्द जैन पेढी - ३०७ ०२२
GOVGOVO
2000GUST
Page #2
--------------------------------------------------------------------------
________________
।। नमोत्थु णं समणस्स भगवओ महावीरस्स ।। ।। सिद्धान्तमहोदधि श्रीमद्विजयप्रेमसूरीश्वरगुरुभ्यो नमः ।।
अक्षरगमनिकासमलङ्कृतम् श्री आचाराङ्ग-सूत्रम्
(प्रथम श्रुतस्कन्धः)
सम्पादकः
पू.पं.श्री पासेनविजयजी म. सा.
अक्षरगमनिकाकारः . पू.पं. श्री कुलचन्द्रविजयजी म.सा.
लेखकः पू.पं. श्री निपुणचन्द्रविजयजी म.सा.
प्रकाशक श्री जैन संघ, पिन्डवाडा (राजस्थान) शेठ कल्याणजी सौभागचन्द जैन पेडी - ३०७ ०२२
30%E0%sEOGOD
Amwwwmomom oooooooooooo
Page #3
--------------------------------------------------------------------------
________________
25000300302902300300300302562902302900002900000000000002002902
पुनः प्रकाशन : वि.सं. २०93
प्राप्तिस्थान
श्री जैन संघ, पिंडवाडा (राज.) शेठ कल्याणजी सौभागचन्दजी जैन पेढी
पिंडवाडा - ३०७ ०२२
दिव्यदर्शन ट्रस्ट C/o. कुमारपाळ वि. शाह भरतकुमार चतुरदास शाह ३६, कलिकुंड सोसायटी | ८६८, काळुशीनी पोळ, धोळका - ३८७ ८१० - अहमदाबाद - ३८०००१.
मुद्रक दुंदुभी प्रिन्टर्स फोन : ०७९ - ६५८ ४१ ८६ ।
Page #4
--------------------------------------------------------------------------
________________
प्रस्तावना
(ग्रन्थस्य गरिमा )
देवगुरुप्रसादतोऽयमाचाराङ्गनामा ग्रन्थः सटिप्पणाऽक्षरगमिनकान्वितः अधिकारिणामग्रे उपन्यस्यते । अस्य चोत्पत्त्यादिवार्ता किञ्चित् प्रतन्यते । तथाहि - येऽतीता ये चानागता अर्हन्तो भगवन्तस्ते सर्वेऽपि स्वस्वतीर्थ प्रवर्त्तनादावाचारार्थमुपदिशन्ति । एवमेवाऽऽ सन्नोपकारिणा श्रमण भगवता श्रीमन्महावीरस्वामिनाऽऽविर्भूतकेवलालोकेनाऽपि महसेनवने सदेवमनुजाऽसुराणां पर्षदि प्रथमत आचारार्थ उपदिष्टः । एष एवाऽर्थः श्रीइन्द्रभूतिगौतमप्रमुखैर्गणधरैः सूत्रतो ग्रथितः । अयमपि मूलग्रन्थस्तेषां भगवतां गणधराणां . श्रीसुधर्मस्वामिना प्रणीतो वर्तते इति सर्वसम्मतोऽयं व्यतिकरः ।
अस्य ग्रन्थस्य प्राथम्यं प्राधान्यं च निर्विवादं, मोक्षोपायत्वात्, प्रवचनसारभूतत्वाच्च । यतोऽत्रैव मोक्षोपायभूतं चरणकरणं प्रतिपाद्यते । एष च प्रवचनसारः प्रधानमोक्षहेतुप्रतिपादनात्, अत्र च स्थितस्य सतः शेषाङ्गाध्ययनयोग्यत्वादिति ।
अस्य ग्रन्थस्य च द्वौ मुख्यविभागौ - ( १ ) प्रथमश्रुतस्कन्धो (२) द्वितीयश्रुतस्कन्धश्च । तत्र प्रथमश्रुतस्कन्धो नवाऽध्ययनात्मको द्वितीयश्च पञ्चचूलारूपः । साम्प्रतं प्रथम श्रुतस्कन्धस्य सप्तमं महापरिज्ञाऽध्ययनं व्युच्छिन्नम् । द्वितीयश्रुतस्कन्धस्य च पञ्चमी निशीथाख्या चूलाऽतो ग्रन्थतः पूर्वपुरुषैः पृथक्कृत्य 'निशीथसूत्रमिति' नाम्ना पृथक् प्रसिद्धिं प्रापिता वर्तते । एवं प्रथमश्रुतस्कन्धस्याऽर्थगाम्भीर्यमष्टानामध्ययनानां तदन्तर्गतानामुद्देशकानां द्वितीयश्रुतस्कन्धस्य च चतसृणां चूलिकानां तदन्तर्भूतानामध्ययनानां तेषामेवोद्देशकानां च विषयविभागोऽतिविस्तृत इति नेह प्रतन्यते, जिज्ञासुभिर्विषयानुक्रमत एव विलोकनीयः ।
विषयविभागविलोकनतोऽपि विद्वज्जना नतमस्तका भवन्ति श्रमणानां लोकोत्तरबाह्याऽ भ्यन्तराऽऽचार एवंविषय इति । अत एवैतद्ग्रन्थोपरि नियुक्तिचूर्णिटीकादयो विविधव्याख्याग्रन्थाः सन्ति । तन्मध्ये साम्प्रतं श्रीशीलाङ्काचार्यैर्विहिता टीका मुख्यतयाऽध्ययनाऽध्यापनार्थमुपादीयते । सा च टीका विविधविषयाणामाकरभूता तथाऽपि न सर्वेषां सुखावगाहा विस्तृतविषयत्वात् । अत एव संक्षेपरुचीनां सूत्रार्थमात्रपरिशीलनार्थिनां वाचनाप्रदातॄणां चाऽविलम्बेनैव सूत्रार्थप्रदायिकामक्षरगमनिकां तथा विषमपदानामर्थं स्फुटीकुर्वत् पादटिप्पणकं समावेशयन्नयं ग्रन्थः प्रेक्षाक्तां समुपादेयो भविष्यति । ग्रन्थस्य च समुपादाने हेतुक एव यच्चित्तोद्भूतो द्वितीयाचन्द्रलेखाकल्पो धर्मस्तदैव पूर्णिमाचन्द्रपूर्णतां प्रयाति यदा वीतराग-प्रणीताऽऽचारपथं प्राप्नोति । आचारपथप्राप्तिश्च न ज्ञानाहते । ज्ञाने च ग्रन्थस्य हेतुता सुस्पष्टा ।
अपि च रागद्वेषमोहाद्यभिभूतानां सर्वेषां संसारिजन्तूनां शारीरमानसानेकाऽतिकटुकदुःखोपनिपातपीडितानां चिन्तामणिकल्पोऽयं धर्मसामग्रीसंयुक्तो मनुष्यभवोऽतिदुर्लभः । तत्राऽपि प्राप्य सद्गुरुयोगं, श्रुत्वा हितोपदेशं, पीत्वा वैराग्यामृतपानं, हित्वा सकलक्लेशजालं आचाराङ्ग-सूत्रम्
Page #5
--------------------------------------------------------------------------
________________
संसारं विरला एव ये प्रमादपरिहारेण सकलान्तरङ्गारिराजं मोहमहीधरं समूलघातं हन्तुं सततं पञ्चाचारपालने समुद्यता भवन्ति ।
जिनेन्द्रशासनस्य गरिम्णा गरिष्ठो भूतकालः सुस्पष्ट एव यत्र भूयांसो महासत्त्वा एतद्ग्रन्थोक्तपञ्चाचारस्य निरतिचारं परिपालनत एवानन्दरमालयं सिद्धिसौधं प्रयाताः ।
एवं स्थिते ये केऽपि भव्यात्मानो भवहेतुमाश्रवं रुरुत्सवः, मोक्षहेतु संवरं च सुपुपुक्षवः, सिद्धिपदं च प्रेप्सवस्तैः सर्व एतद्ग्रन्थोक्त आचारधर्म आत्मसात् करणीय एव । __ सद्भाग्येन द्वयधिकद्विसहस्रविक्रमाब्दे राजस्थानविहरणे महोपकारिपूज्यपाद-स्वर्गीयपरमगुरुदेवाचार्य-श्रीमद् विजयप्रेमसूरीश्वरश्रीमुखेन श्रीआचारङ्गसूत्रस्य सर्वप्रथमा वाचना मया लब्धा तदैव आचाराङ्गस्याचारधर्मस्य वार्त्तया मम चित्तं सहर्षमनरीनृत्यत ।
तत्पश्चात् मया चतुः आचाराङ्गसूत्रस्य वाचना पू० श्रमणश्रमणीभ्यो दत्ता एवं यथा यथा परिशीलनं जातं तथा तथा तद्धर्मस्य माधुर्येणाहमतिप्रमोदितवान्, एतदाचारधर्ममात्मसात् कर्तुं च स्फुरणा जाता, किन्त्वयं प्रमत्तजीव एतत्पालने कातर आसीत् । एतच्छिथिलता मम हृदये सततमशल्यायत । एकदा चेतसि स्फुरितम् एतत्सूत्रस्य यदि पुनः पुनः परिशीलनं स्यात् तविश्यमेवैषा शिथिलता पलायेत, आचारप्रासादस्य च सोपानश्रेण्यारोहणे सफलता प्राप्येत । एतदर्थं यदि सूत्राऽर्थगमनिका लघुटीका स्यात्तर्हि सुबोधा स्यात् । तस्मान्मया परमगुरुदेव-संयमत्यागतपोमूर्ति-सुविशालगच्छाधिपति- भवोदधितारकसिद्धान्तमहोदधीनां पू. आ. भ. विजय प्रेमसूरीश्वराणां लघुशिष्य-विद्वद्वर्यमुनिवर्यश्रीकुलचन्द्रविजयः प्रेरितः । __ मत्प्रेरितेन मुनिवर्येण एतत्सूत्रस्याक्षरगमनिकाकार्यारम्भः कृतः । भावमङ्गलप्रसादेन मुनिवर्येण शीघ्रातिशीघ्रं लेखनकार्यं कृत्वा संशोधनार्थं मह्यं प्रेषितम् ।
अनया लघुटीकया येषां सूत्राणामुपरि टीकाकृद्भगवता श्रीशीलाङ्काचार्येण अतिदेशमात्रं निर्दिष्टं तेषां सूत्राणामपि स्पष्टता भवति ।
सकृद द्विर्वा यैरेतट्टीका पठिता तेषामेषाऽक्षरगमनिका आदर्शापेक्षां दूरीकरोति ।
आचारधर्मार्थिभिर्मुमुक्षुभिरियमक्षरगमनिका प्रतिवर्षं सकृदवश्यमेव पठनीया, यत आचारधर्मश्चेतसि स्फारं स्फुरन्ननादिप्रमादस्याऽऽराधनाप्रतिपक्षस्य कालघण्टां वादयेत् । एवं सति मुनिवर्यस्य स्तुत्यप्रयासस्य सार्थकताऽपि अनुभवपथाऽऽतिथ्यमागमिष्यति । __ स्वभावलाभं प्रति सन्मुखं कुर्वतीं आचाराङ्गस्याचारधर्मस्यामृतवाणी प्रपाययितुं मुनिवर्येणैकाद्वितीयसुशोभितसाधनस्य पूर्तिः कृता । वीतरागपरमात्मन एताममृतवाणी कर्णविषयीकृत्य यथाशक्त्याचारधर्मं प्रपाल्य रत्नत्रयीं सुसाध्य मोक्षदायकधर्मस्य पूर्णतां प्राप्नुयाम इत्येका प्रशस्ता अन्तराभिलाषा । कराड (महाराष्ट्र)
गुरुश्रीप्रेम-भुवनभानु-पद्मशिशुः वि. सं. २०४२ फाल्गुनस्य
- आ. वि. मित्रानंदसूरिः कृष्णपक्षस्य दशम्याम् ।
आचाराङ्ग-सूत्रम्
Page #6
--------------------------------------------------------------------------
________________
विषय
विषयानुक्रमः
प्रथमः श्रुतस्कन्धः ।
शस्त्रपरिज्ञारव्यं प्रथममध्ययनं : जीवसंयमविषयकम् । प्रथम उद्देशकः सामान्येन जीवास्तित्वसाधनं, जीववधे बन्धो विरति श्चैवमग्रेऽपिं यावदध्ययनसमाप्तिः
द्वितीय उद्देशकः पृथिवीकायास्तित्वादि ।
तृतीय उद्देशकः अप्कायास्तित्वादि ।
चतुर्थ उद्देशकः तेजस्कायास्तित्वादि । पञ्चम उद्देशकः वनस्पतिकायास्तित्वादि ।
लोकविजयाव्यं द्वितीयमध्ययनं :
लोको यथा बध्यते कर्मणा तथा च प्रहातव्यम् ।
पृष्ठाङ्कः
.....१-२०
षष्ठ उद्देशकः त्रसकायास्तित्वादि ।
सप्तम उद्देशकः वायुकायास्तित्वादि । अध्ययनार्थी
पसंहार षड्जीवनिकायवधनिवृत्तिकारिणां सम्पूर्णमुनिभावः ... १८-२०
तृतीय उद्देशकः कर्मवैचित्र्यमवगम्य मानो न कार्यः । अर्थ सारस्य च निस्सारता वर्ण्यते ।
चतुर्थ उद्देशकः भोगेष्वभिष्वङ्गो न कार्यो यतो । भोगिना मपायान् वक्ष्यति ।
१-४
४-७
७-१०
१०- १३
१३-१६
१६-१८
प्रथम उद्देशकः मातापित्रादिके स्वजनेऽभिष्वङ्गो न कार्यः |... २१-२४ द्वितीय उद्देशक: अदृढत्वं संयमे न कार्यं विषयकषायादौ चादृढत्वं कार्यम् ।
आचाराङ्ग-सूत्रम्
............. २१-३९
२४-२६
२६-२९
.२९-३१
पञ्चम उद्देशकः त्यक्तभोगेनापि साधुना लोकनिश्रया विहर्तव्यम् ।
३१-३५
षष्ठ उद्देशकः संयमदेहयात्रार्थं विहरता ममत्वं न कार्यम् । ... ३५-३९
शीतोष्णीयारव्यं तृतीयमध्ययनं :
संयमस्थितेन जितकषायेण सुखदुःखतितिक्षा विधेया । ३९-४९
Page #7
--------------------------------------------------------------------------
________________
....५५-५७
.............५७-७१
प्रथम उद्देशकः भावनिद्रया सुप्ता असंयताः । ....................३९-४२ द्वितीय उद्देशकः असंयता यथा दुःखमनुभवन्ति तथोच्यते ।...४२-४४ तृतीय उद्देशकः न केवलं दुःखसहनात् पापाकरणाच्च श्रमणः किन्तु रागद्वेषाकरणरूपसंयमानुष्ठानात् ।..........................४४-४७ चतुर्थ उद्देशकः कषायाणां वनमं कार्य, पापस्य च कर्मणो परिहारः, विदुषः संयमः कैवल्यं मोक्षश्च ................४७-४९ सम्यक्त्वारख्यं चतुर्थमध्ययनं : सम्यक्त्वप्रतिपादनम् .......४९-५७ प्रथम उद्देशकः यथावस्थितवस्त्वाविर्भावनरूपः सम्यग्वादः .....४९-५१ द्वितीय उद्देशकः धर्मप्रवादिकपरीक्षा ।
..५१-५४ तृतीय उद्देशकः अनवद्यतपोवर्णनम् । ................... ...५४-५५ चतुर्थ उद्देशकः संयमप्रतिपादनम्। ....................... लोकसाराव्यं पञ्चममध्ययनं : प्रधानमोक्षाङ्गत्वात् चारित्रमेव लोकसारः ।........... प्रथम उद्देशकः हिंसकविषयारम्भक एकचरो न मुनिः ..........५७-५९ द्वितीय उद्देशकः हिंसादिपापस्थानकेभ्यो विरतो मुनिः । .......५९-६१ तृतीय उद्देशकः विरतो मुनिरपरिग्रहो भवतीति निर्विण्णकामभोगश्च ।..
......................६१-६४ चतुर्थ उद्देशकः अव्यक्तस्य प्रत्यपाया भवन्ति । ..................६४-६६ पञ्चम उद्देशकः हृदोपमेन साधुना भाव्यम् । .....................६६-६९ षष्ठ उद्देशकः उन्मार्गवर्जना तथा रागद्वेषौ त्याज्यौ ।........६९-७१ धूताव्यं षष्ठाध्ययनं : स्वजनादिधूननम् । ....................७१-८४ प्रथम उद्देशकः स्वजनविधूनना |.....
....७१-७४ द्वितीय उद्देशकः कर्मणां विधूनना । ................... ..७५-७७ तृतीय उद्देशकः उपकरणशरीराणां विधूनना । ........... .७७-७९ चतुर्थ उद्देशकः गौरवत्रिकस्य विधूनना । ................... ७९-८१ पञ्चम उद्देशकः यथा साधुभिरुपसर्गाः सन्मानानि च विधूतानि तथा प्रतिपादनम् ।
.८२-८४
आचाराङ्ग-सूत्रम्
Page #8
--------------------------------------------------------------------------
________________
महापरिज्ञाव्यं सप्तममध्ययनं व्युच्छिन्नम् । विमोक्षारख्यमष्टममध्ययनं : सम्यग्निर्याणप्रतिपादनम् | ८४-१०५
प्रथम उद्देशकः असमनोज्ञानां परित्यागः कार्यः ................. ८४-८६ द्वितीय उद्देशकः अकल्पिकाधाकर्मादेः परित्यागः कार्यः । .... ८६-८९ तृतीय उद्देशकः गोचरगतस्य यतेः शीतादिनाङ्गकम्पनादिकचेष्टादर्शने गृहस्थस्य शङ्का स्यात्तद्वयु दासाय यथावस्थितार्थकथना विधेया । ....... .................. ८९-९१ चतुर्थ उद्देशकः वैहानसमरणं गार्द्धपृष्ठमरणं च । .............९१-९२ पञ्चम उद्देशकः ग्लानता भक्तपरिज्ञा च । ........................९३-९५ षष्ठ उद्देशकः एकत्वभावना इङ्गितमरणं च । ................. ९५-९८ सप्तम उद्देशकः भिक्षुप्रतिमाः पादपोपगमनं च । ..............९८-१०० अष्टम उद्देशकः आनुपूर्वीविहारिणां भक्तपरिज्ञेङ्गितमरणपादपोपगमनानि यथा भवन्ति तथोच्यन्ते । .................... १०१-१०५ उपधानश्रुताख्यं नवममध्ययन-अष्टस्वध्ययनेषु प्रतिप्रादितोऽर्थ : श्री वर्धमानस्वामिना स्वत एवाचीर्ण
इति...........
................१०५-११५
प्रथम उद्देशकः यादृग् विहारो भगवत आसीत् .१०५-१०८ द्वितीय उद्देशकः यादृग् भगवतो वसतिरासीत् ................ १०८-१११ तृतीय उद्देशकः ये भगवतः परीषहा अभूवन् ।.............. १११-११३ चतुर्थ उद्देशकः क्षुत्पीडायां विशिष्टाभिग्रहावाप्ताहारेण चिकित्सेदिति । ...
.११३-११५
आचाराङ्ग-सूत्रम्
Page #9
--------------------------------------------------------------------------
________________
* 1
1
2 3
5
%
1-00
૭-૫૦
પર પૂજ્ય આચાર્યદેવ શ્રી વિજય ભુવનભાનુસૂરીશ્વરજી મહારાજ
આલેખિત સાહિત્ય ૧. પરમતેજ ભાગ-૧ આવૃત્તિ-૩
રૂ. ૭૦-૦૦ ૨. શ્રી ભગવતીસૂત્ર વિવેચન - ભાગ-૧
૨૨-૦૦ ૩. યોગદષ્ટિ સમુચ્ચય - ભાગ-૨
૩૦-૦૦ ૪. નવપદ પ્રકાશ - અરિહંતપદ
૧૦-૦૦ ૫. નવપદ પ્રકાશ - સિદ્ધપદ
૨૦-૦૦ ૬. નવપદ પ્રકાશ – આચાર્યપદ ૭. સીતાજીના પગલે પગલે – ભાગ-૧
૭-૫૦ ૮. સીતાજીના પગલે પગલે - ભાગ-૨ ૯. મનના મિનારેથી મુક્તિના કિનારે – ભાગ-૧ ૧૫-૦૦ ૧૦. મનના મિનરેથી મુક્તિના કિનારે – ભાગ-૨ ૧૫-૦૦ ૧૧. જોજે ડુબી જાય ના
૪-૦૦ ૧૨. યશોધર ચરિત્ર - ભાગ-૧
૧૨-૦૦ ૧૩. યશોધર ચરિત્ર - ભાગ-૨ હું ૧૪. પ્રિતમ કેરો પંથ નિહાળો
૧૦-૦૦ ૧૫. તિમિર ગયું ને જ્યોતિ પ્રકાશી
૫-૦૦ ૧૭. તાપ હરે તન-મનનાં
૧૦-૦૦ ૧૭. ગણધરવાદ – આવૃત્તિ ૩
૧૦-૦૦ ૧૮. કડવા ફળ છે ક્રોધના
૨૦-૦૦ ૧૯. માનવ જાતિને જૈન ધર્મની બક્ષીસ
૮-૦૦ ૨૦. મે સારવા (વર્તમાતા-૧)
૨૫-૦૦ २१. मानव तुं मानव बन
૨૦-૦૦ २२. मानव जीवन में ध्यान का महत्व
૨૦-૦૦ ૨૩. સમરાદિત્ય ચરિત્ર - ભવ ૧-૨
૩૦-૦૦
૯-૦૦
પ્રાપ્તિસ્થાન
| દિવ્યદર્શના ટ્રસ્ટ
કાર clo. કુમારપાળ વિ. શાહ શરે ૩૩, કલિકુંડ સોસાયટી
ધોળકા - ૩૮૭૮૧૦
ભરતકુમાર ચતુરદાસ શાહ ૮૯૮, કાળુશીની પોળ કાળુપુર, અમદાવાદ-૩૮૦૦૦૧ છે,
380000000000000000 કે
આ જ આ જ જ
2
w
w
Page #10
--------------------------------------------------------------------------
________________
श्री आचाराङ्गसूत्रम् ( अक्षरगमनिका)
प्रणम्य सर्वतीर्थेशान् वीरं गुरूंश्च देशकान् । आचाराङ्गस्य संस्कुर्वेऽक्षरगमनिकां श्रुतात् ॥ प्रथमः श्रुतस्कन्धः
॥ अथ शस्त्रपरिज्ञाख्यं प्रथममध्ययनं ॥
श्री सुधर्मा जम्बूमाचष्टे यथा :
सुयं मे आउसं ! तेणं भगवया एवमक्खायं - इहमेगेसिं णो सन्ना भवई ॥१॥
श्रुतं मया आयुष्मन् ! तेन भगवता एवमाख्यातम् इह - संसारे एकेषां नो संज्ञा - ज्ञानं भवति । 'आमुसंतेण' 'आवसंतेणं' चेति पाठान्तरद्वयमाश्रित्य आमृशता सेवमानेन स्पृशता भगवत्पादारविन्दम् आवसता च तदन्तिके इत्यर्थः । अनेन गुरुकुलवासः प्रथमाचार उपदिष्ट इति ।
निषिद्धसंज्ञामाश्रित्याऽऽह
तं जहा - पुरत्थिमाओ वा दिसाओ आगओ अहमंसि, दाहिणाओ वा दिसाओ आगओ अहमंसि, पच्चत्थिमाओ वा दिसाओ आगओ अहमंसि, उत्तराओ वा दिसाओ आगओ अहमंसि, उड्ढाओ वा दिसाओ आगओ अहमंसि, अहोदिसाओ वा आगओ अहमंसि अण्णयरीओ वा दिसाओ अणुदिसाओ वा आगओ अहमंसि, एवमेगेसिं णो णायं भवति ॥ २ ॥
तद्यथा
पूर्वस्या वा दिशात आगतोऽहमस्मि, दक्षिणस्या वा दिशात आगतोऽहमस्मि, पश्चिमाया वा दिशात आगतोऽहमस्मि, उत्तरस्या वा दिशात आगतोऽहमस्मि, ऊर्ध्वाया वा दिशात आगतोऽहमस्मि, अधो दिशातो वाऽऽगतोऽहमस्मि, अन्यतरस्या वा दिशातः, अनुदिशातो वाऽऽगतोऽहमस्मि । एवमेकेषां नो ज्ञातं भवतीति ।। २ ।।
न केवलमेषैव संज्ञा नास्ति, अपराऽपि नास्तीति सूत्रकृदाह
-
-
अत्थि मे आया उववाइए, नत्थि मे आया उववाइए, के अहं आसी ? के वा इओ चुए इह पेच्चा भविस्सामि ? ॥३॥
-श्री आचाराङ्गसूत्रम् (अक्षरगमनिका ) * १
Page #11
--------------------------------------------------------------------------
________________
अस्ति मे आत्मा औपपातिकः-जन्मान्तस्मामी, नास्ति मे आत्मा औपपातिकः, कोऽहमासम् ? को वा इतश्च्युत इह संसारे प्रेत्य जन्मान्तरे भविष्यामीति ॥३॥
तत्रेह ‘एवमेगेसिं णो णायं भवई' इत्यनेन केषाञ्चिदेव संज्ञानिषेधात् केषाञ्चित्तु भवतीत्युक्तं भवति,
तत्र विशिष्टसंज्ञा भवान्तरगामिन आत्मनः स्पष्टप्रतिपादने सोपयोगिनीति तत्कारणमाह
से जं पुण जाणेजा सह संमइयाए परवागरणेणं अण्णेसिं वा अंतिए सोचा तं जहा - पुरत्थिमाओ वा दिसाओ आगओ अहमंसि जाव अण्णयरी दिसाओ अणुदिसाओ वा आगओ अहमंसि, एवमेगेसिं जं णायं भवति - अस्थि मे आया उववाइए, जो इमाओ दिसाओ वा अणुदिसाओ वा अणुसंचरइ, सबाओ दिसाओ अणुदिसाओ, सोऽहं ॥४॥ ____स यत् पुनर्जानीयात् सह सन्मत्या स्वमत्या वा - अवधि-मनःपर्यायकेवलज्ञान-जातिस्मरण-भेदाच्चतुर्विधया वा, परव्याकरेणन तीर्थकृत्सर्वज्ञकथनेन, अन्येषां वा-तीर्थकरव्यतिरिक्तानाम् अतिशयज्ञानिनां वाऽन्तिके श्रुत्वा तद्यथा - पूर्वस्या वा दिश आगतोऽहमस्मि, यावत् अन्यतरस्या दिशोऽनुदिशो वाऽऽगतोहमस्मि, एवमेकेषां यद् ज्ञातं भवति - अस्ति मे आत्मा औपपातिकः जन्मान्तरगामी योऽमुष्या दिशोऽनुदिशः - मनुष्याश्चतुर्भेदास्तद्यथा - संमूर्छनजाः कर्मभूमिजा अकर्मभूमिजाः अन्तर्वीपजाश्चेति तथा तिर्यंचो दीन्द्रियास्त्रीन्द्रियाश्चतुरिद्रियाः पञ्चेन्द्रियाश्चेति चतुर्धा तथा कायाः पृथिव्यप्तेजोवायुश्चत्वारस्तथाऽग्रमूलस्कन्धपर्वबीजाश्चत्वार एव एते षोडश देवनारकप्रक्षेपादष्टादश भावदिशोऽनुदिशः तत आगतः अनुसंचरति ‘अनुसंसरइ 'अनुसंभरई इति पाठान्तरद्वयमाश्रित्य अनुसंस्मरति वा सोऽहमिति ॥४॥
यो हि ‘सोऽह'मित्यनेनाहङ्कारज्ञानेनात्मोल्लेखेन पूर्वादर्दिश आगतमात्मानमविच्छिन्नसंततिपतितं द्रव्यार्थतया नित्यं पर्यायार्थतया त्वनित्यं जानाति स परमार्थतः आत्मवादीति ।
से आयावादी लोयावादी कम्मावादी किरियावादी ॥५॥
स आत्मवादी लोकवादी लोकापाती वा - लोके आपतितुं शीलमस्येति वा कर्मवादी क्रियावादीति ॥५॥
साम्प्रतं पूर्वोक्तां क्रियामात्मपरिणतिरूपां त्रिकालसंस्पर्शिना मतिज्ञानेन दर्शयितुमाह
२
* श्री आचाराङ्गसूत्रम् (अक्षरगमनिका)
Page #12
--------------------------------------------------------------------------
________________
अकरिस्सं चाऽहं, कारवेसुं चऽहं करओ आवि समुणुन्ने भविस्सामि ॥६॥
अकार्षं चाहं, अचीकरमहं, कुर्वतश्चापि समनुज्ञो भविष्यामि । सूचनात् सूत्रमिति न्यायेन भूत-वर्तमान-भविष्यत्कालाऽपेक्षया कृत- कारिताऽनुमतिभिः नव विकल्पाः संभवन्ति । ते च मनोवाक्- कायैश्चिन्त्यमानाः सप्तविंशतिर्भेदा भवन्तीति ॥६॥
अथ किमेतावत्य एव क्रियाः उतान्या अपि सन्तीति, एता एवेत्याह - एयावंति सव्वावंति लोगंसि कम्मसमारंभा परिजाणियव्वा भवंति ॥७॥ एतावन्तः सर्वेऽपि लोके कर्मसमारम्भाः परिज्ञातव्या भवन्तीति ।।७।। यस्तावदात्मकर्मादिवादी स दिगादिभ्रमणान्मोक्ष्यते, इतरस्य तु विपाकान् दर्शयितुमाह -
अपरिण्णायकम्मे खलु अयं पुरिसे जो इमाओ दिसाओ अणुदिसाओ अणुसंचरइ सम्बाओ दिसाओ सवाओ अणुदिसाओ साहेति ॥८॥
अपरिज्ञातकर्मा खल्वयं पुरुषो य इमा दिशोऽनुदिशोऽनुसञ्चरति, सर्वा दिशः सर्वाश्चानुदिशः सहैति - स्वकृतेन कर्मणा सहानुसञ्चरतीति ।।८।।
स यदाप्नोति तदर्शयति - अणेगरूवाओ जोणीओ संघेइ, विरूवरूवे फासे पडिसंवेदेइ ॥९॥
अनेकरूपा योनीः सन्धयति-संघट्टयति, 'संधावइति पाठान्तरमाश्रित्य सन्धावति . पौनःपुन्येन गच्छति । तत्र विरूपरूपान् . बीभत्साऽमनोज्ञस्वरूपान् स्पर्शान् प्रतिसंवेदयति - अनुभवतीति ॥९॥
ययेवं तत किमित्यत आह - तत्थ खलु भगवता परिण्णा पवेइआ ॥१०॥
तत्र सावधक्रियासु खलु भगवता परिज्ञा ज्ञप्रत्याख्यानरूपा प्रवेदितेति ॥१०॥
अथ किमर्थमसौ सावयक्रियासु प्रवर्तत इत्याह -
इमस्स चेव जीवियस्य परिवंदणमाणणपूयणाए जाईमरणमोयणाए दुक्खपडिघायहेउं ॥११॥
. श्री आचारागसूत्रम् (अक्षरगमनिका) *
३
Page #13
--------------------------------------------------------------------------
________________
अस्य चैव जीवितस्य परिवन्दन - मानन - पूजनाय जातिमरणमोचनाय दुःखप्रतिघातहेतुं चेति ॥११॥
एतावन्त एव च क्रियाविशेषा इति दर्शयितुमाह -
एयावंति सव्वावंति लोगंसि कम्मसमारंभा परिजाणियव्वा भवंति ॥१२॥ एतावन्तः सर्वस्मिन् लोके कर्मसमारम्भा ज्ञपरिज्ञया परिज्ञातव्याः प्रत्याख्यानपरिज्ञया च प्रत्याख्यातव्या भवन्तीति ॥१२॥
एवं सामान्येन जीवास्तित्वं प्रसाध्य तदुपमर्दकारिणां च क्रियाविशेषाणां बन्धहेतुत्वं प्रदर्योपसंहारद्वारेण विरतिं प्रतिपादयन्नाह
जस्सेते लोगंसि कम्मसमारंभा परिण्णाया भवंति से हु मुणी परिण्णायकम्मे ॥१३॥ त्ति बेमि ॥
-
यस्य एते लोके कर्मसमारम्भाः परिज्ञाता भवन्ति स एव मुनिः परिज्ञातकर्मेति ब्रवीमि ॥१३॥
॥ शस्त्रपरिज्ञाध्ययने द्वीतियोद्देशकः ॥
प्रथमोद्देशके सामान्येन जीवास्तित्वं प्रसाधितम्, इदानीं तस्यैवैकेन्द्रियादि पृथिव्याद्यस्तित्वं प्रतिपादयिषयाऽऽह -
अट्टे लोए परिजुणे दुस्संबोहे अविजाणए अस्सि लोएं पव्चहिए तत्थ तत्व पुढो पास आतुरा अस्सि परितावेंति ॥१४॥
आर्तो लोकः परिद्यूनः निस्सारः प्रशस्तभावहीनो यावत् दुःसम्बोधः अविज्ञायकः । अस्मिल्लोके प्रव्यथिते सति तत्र तत्र कृष्यादौ पृथक् २ पश्य आतुरा अस्मिन् पृथिवीकायलोके विषयभूते पृथिवीकायं परितापयन्तीति ||१४||
ननु चैकदेवताविशेषावस्थिता पृथिवीति शक्यं प्रतिपत्तुं न पुनरसंख्येयजीवसङ्घातरूपेत्येतत् परिहर्तुकाम आह
-
संति पाणा पुढो सिया, लज्रमाणा पुढो पास अणगारा मोत्ति एगे पवयमाणा जमिणं विरूवरूवेहिं सत्येहिं पुढविकम्मसमारंभेणं पुढविसत्वं समारंभेमाणा अणेगरूवे पाणे विहिंसइ ॥ १५ ॥
-
`सम्बद्धा इत्यर्थः ।
सन्ति प्राणाः-प्राणिनः पृथक् २ श्रिताः सिता वा एते लज्जमानाः संयमानुष्ठानपराः पृथक् पृथक् पश्य । अथवा तान् शाक्यादीन् लज्जमानान् पश्य ये अनगाराः स्म इत्येके प्रवदमाना यदिदं
४ * श्री आचाराङ्गसूत्रम् ( अक्षरगमनिका)
-
Page #14
--------------------------------------------------------------------------
________________
विरूपरूपैः . शस्त्रैः पृथिवीकर्मसमारम्भेण पृथिवीशस्त्रं समारभमाणा अनेकरुपान् प्राणान् - प्राणिनो विहिंसन्तीति ।।१५।।
एवं शाक्यादीनां पार्थिवजन्तुवैरिणामयतित्वं प्रतिपाय साम्प्रतं सुखाभिलाषितया कृत- . कारितानुमतिभिर्मनोवाकायलक्षणां प्रवृत्तिं दर्शयितुमाह :__तत्थ खलु भगवया परिण्णा पवेइया, इमस्स चेव जीवियस्य परिवंदणमाणणपूयणाए जाइमरणमोयणाए दुक्खपडिधायहेउं से सयमेव पुढविसत्थं समारंभइ अण्णेहि वा पुढविसत्थं समारंभावेइ अण्णे वा पुढविसत्थं समारंभंते समणुजाणाई ॥१६॥ ___ तत्र खलु भगवता परिज्ञा प्रवेदिता । अस्य चैव जीवितस्य परिवंदन-मानन-पूजनाय जातिमरणमोचनाय दुःख-प्रतिघातहेतुं च स स्वयमेव पृथिवीशस्त्रं समारभते अन्यैर्वा पृथिवीशस्त्रं समारम्भयति, अन्यान् वा पृथिवीशस्त्रं समारभमाणान् समनुजानीत इति ।१६।।
तदेवं प्रकृतमतेर्वववति तदर्शयितुमाह -
तं से अहियाए तं से अबोहीए से तं संबुज्झमाणे आयाणीयं समुट्ठाय सोचा खलु भगवओ अणगाराणं वा अंतिए इहमेगिसिं णातं भवति-एस खलु गंथे, एस खलु मोहे, एस खलु मारे,. एस खलु णरए, इच्चत्थं गड्ढिए लोए जमिणं विरूवरूवेहिं सत्थेहिं पुढविकम्मसमारंभेण पुढविसत्थं समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसइ, से बेमि, अप्पेगे अंधमन्भे अप्पेगे अंधमच्छे अप्पेगे पायमल्भे अप्पेगे पायमच्छे अप्पेगे गुप्फमब्भे (२) अप्पेगे जंघमन्भे (२) अप्पेगे जाणुमन्भे (२) अप्पेगे ऊरुमन्भे (२) अप्पेगे कडिमब्भे (२) अप्पेगे णाभिमन्भे (२) अप्पेगे उदरमन्भे (२) अप्पेगे पासमन्भे (२) अप्पेगे पिट्ठिमब्भे (२) अप्पेगे उरमन्भे (२) अप्पेगे हिययमन्भे (२) अप्पेगे थणमन्भे (२) अप्पेगे खंधमन्भे अप्पेगे बाहुमन्भे (२) अप्पेगे हत्थमन्भे (२) अप्पेगे अंगुलिमन्भे (२) अप्पेगे णहमव्मे (२) अप्पेगे गीवमन्भे (२) अप्पेगे हणुमन्भे (२) अप्पेगे हो?मन्भे (२) अप्पेगे दंतमन्भे (२) अप्पेगे जीभमन्भे (२) अप्पेगे तालुमन्भे (२) अप्पेगे गलमन्भे (२) अप्पेगे गंडमन्भे (२) अप्पेगे कण्णमन्भे अप्पेगे णासमन्भे (२) अप्पेगे अच्छिमन्भे (२) अप्पेगे भमुहमन्भे (२) अप्पेगे णिडालमन्भे (२) अप्पेगे सीसमन्भे (२) अप्पेगे संपमारए अप्पेगे उद्दवए, इत्थं सत्थं समारंभमाणस्स इच्छेते आरंभा अपरिण्णाता भवंति ॥१७॥
श्र
श्री आचारसूत्रम् (अवरणमनिका) *
५
Page #15
--------------------------------------------------------------------------
________________
तत्तस्य अहिताय, तत्तस्य अबोधये । स तत् संबुध्यमान आदानीयं-सम्यग्दर्शनादि समुत्थाय-आदाय श्रुत्वा च खलु भगवतोऽनगाराणां इहैकेषां ज्ञातं भवति - एष खलु मोहः, एष खलु मारः, एष खलु नरकः, इत्येवमर्थं गृद्धो लोको यदिदं विरूपरूपैः शस्त्रैः पृथ्वीकायसमारम्भेण पृथिवीशस्त्रं समारभमाणः अन्यान् अनेकरूपान् प्राणान्-प्राणिनो विहिनस्ति ।
स्यात् शङ्का ये हि न पश्यन्ति न श्रृण्वन्ति न जिघ्रन्ति न गच्छन्ति कथं पुनस्ते वेदनामनुभवन्तीति ज्ञातव्यम् ? अमुष्यार्थस्य सिद्धये दृष्टान्तमाह -से बेमीत्यादि ।
सोऽहं ब्रवीमि - अप्येकः अन्धमाभिन्द्यात्, अप्येकः अन्धमाच्छिन्द्यात्, अप्येकः पादमाभिन्द्यात्, अप्येकः पादमाच्छिन्द्यात्, अप्येको गुल्फमाभिन्द्यात् अप्येको गुल्फमाच्छिन्द्यात्, अप्येको जंघामाभिन्द्यात् २, अप्येको जानुमाभिन्धात् २ । अप्येक ऊरुमाभिन्द्यात् २ । अप्येक कटिमाभिन्द्यात् २ । अप्येको नाभिमाभिन्द्यात् २ । अप्येक उदरमाभिन्द्यात् २ । अप्येकः पार्श्वमाभिन्द्यात् २ । अप्येकः पृष्ठमाभिन्द्यात् २ । अप्येक उर आभिन्द्यात् २ । अप्येको हृदयमाभिन्द्यात् २ । अप्येकः स्तनमाभिन्द्यात् २ । अप्येकः स्कन्धमाभिन्द्यात् २ । अप्येको बाहुमाभिन्द्यात् २ । अप्येको हस्तमाभिन्द्यात् २ । अप्येक औष्ठमाभिन्द्यात् २ । अप्येको दन्तमाभिन्द्यात् २ । अप्येको जिह्वामाभिन्द्यात् २ । अप्येकस्तालुमाभिन्द्यात् २ । अप्येको गलमाभिन्द्यात् २ । अप्येकोः गण्डमाभिन्द्यात् २ । अप्येकः कर्णमाभिन्द्यात् २ । अप्येको नासिकामाभिन्द्यात् २ । अप्येकः अक्षि आभिन्द्यात् २ । अप्येको भ्रवमाभिन्द्यात् २ । अप्येको ललाटमाभिन्द्यात २ । अप्येकः शीर्षमाभिन्द्यात २ । एवं शिरःप्रभृतिष्ववयवेषु भिद्यमानेषु वा वेदनोत्पत्तिर्लक्ष्यते, एवमेषामुत्कटमोहाज्ञानभाजां ----- स्त्यानाधुदयादव्यक्तचेतनानामव्यक्तैव वेदना भवतीति ग्राह्यम् । अत्रैव दृष्टान्तान्तरं दर्शयितुमाह- अप्येकः सम्प्रमारयेत्, अप्येकः अपद्रावयेत्, मुर्छाऽऽपादनादव्यक्तत्वान्नासौ तां वेदनां स्फुटमनुभवति, अस्ति चाव्यक्ता वेदना, एवं पृथिवीजीवानामपि । इत्थं शस्त्रं समारभमाणस्य इत्येते अपरिज्ञाता भवन्तीति ॥१७॥
पृथिवीकायिकानां जीवत्वं प्रसाध्य तथा नानाविधशस्त्रसंपाते वेदनां चाविर्भाव्य अधुना तबधे बन्धं दर्शयितुमाह
६
* श्री आचाराङ्गसूत्रम् (अक्षरगमनिका)
Page #16
--------------------------------------------------------------------------
________________
एत्थ सत्थं असमारभमाणस्स इच्चेते आरंभा परिण्णाता भवंति, तं परिण्णाय मेहावी नेव सयं पुढवीसत्थं समारंभेजा, णेवण्णेहिं पुढविसत्थं समारंभावेजा, णेवण्णे पुढविसत्थं समारंभंते समणुजाणेजा, जस्सेते पुढविकम्मसमारंभा परिण्णाता भवंति, से हु मुणी परिणातकम्मे त्ति बेमि ॥१८॥
अत्र शस्त्रमसमारभमाणस्य इत्येते आरम्भाः परिज्ञाता भवन्ति तत् परिज्ञाय मेधावी नैव स्वयं पृथिवीशस्त्रं समारभेत, नैव अन्यैः पृथिवीशस्त्रं समारम्भयेत, नैव अन्यान् पृथिवीशस्त्रं समारभमाणान् समनुजानीयात् । यस्यैते पृथिवीकर्मसमारम्भाः परिज्ञाता भवन्ति स एव मुनिः परिज्ञातकर्मेति ब्रवीमि ॥१८॥
॥ शस्त्रपरिज्ञाध्ययने तृतीयोद्देशकः ॥ इहानन्तरोद्देशके पृथिवीकायजीवाः प्रतिपादिताः । साम्प्रतं क्रमायातस्याप्कायस्य जीवत्वं यथा च संपूर्णो मुनिर्भवति तथा प्रतिपाद्यते :
से बेमि से जहावि अणगारे उजुकडे नियायपडिवण्णे अमायं कुबमाणे वियाहिए ॥१९॥
स यथा अनगारो भवति तथाऽहं ब्रवीमि - ऋजुकृत्- संयमानुष्ठायी नियागप्रतिपन्नः नियागः- अधिको याग: संयमस्तं प्रतिपन्नः । 'निकायं पडिवन्ने' इति पाठान्तरं चाश्रित्य मोक्षं प्रतिपन्नः अमायां कुर्वाणो मुनिर्व्याख्यात इति ॥१९॥
तदेवमसावुद्धृतसकलमायापल्लीवितानः किं कुर्यादित्याहजाए सद्धाए निक्खंतो तमेव अणुपालिजा वियहित्ता विसोत्तियं ॥२०॥
यया श्रद्धया निष्क्रान्तस्तामेव अनुपालयेद् विहाय विस्रोतसिकां - अपकायजीवत्वशङ्कां क्रोधादिरूपां वा । 'वियहित्ता पूव्वसंजोयं' इति पाठान्तरमाश्रित्य - विहाय पूर्वसंयोगं पश्चात्संयोगं चेति ॥२०॥
एतत्सम्यग्दर्शनाद्यनुष्ठानमन्यैरपि महासत्त्वैः कृतपूर्वमिति दर्शयितुमाहपणया वीरा महावीहिं ॥२१॥
प्रणताः अभिमुखीभूताः वीराः - पूर्वमहापुरुषा महाविथिं मोक्षमार्गमिति ॥२१॥
श्री आचाराङ्गसूत्रम् (अक्षरगमनिका) *
७
Page #17
--------------------------------------------------------------------------
________________
किञ्च - लोगं च आणाए अभिसमेचा अकुओभयं ॥२२॥
लोकम् - अप्कायलोकम् आज्ञया अभिसमेत्य-ज्ञात्वा अकुतोभयं - संयममनुपालयेदिति ॥२२॥
अकायलोकमाज्ञया ज्ञात्वा यत्कर्तव्यं यदाह
से बेमि, णेव सयं लोगं अभाइक्खिजा, णेव अत्ताणं अब्भाइक्खिज्जा, जे लोयं अब्भाइक्खइ, से अत्ताणं अन्भाइक्खइ, जे अत्ताणं अब्भाइक्खइ से लोयं अब्भाइक्खइ ॥२२॥
सोऽहं ब्रवीमि नैव स्वयं लोकम् अप्कायलोकम् अभ्याचक्षीत - अपलपेत्, नैव आत्मानमभ्याचक्षीत, यो लोकमभ्याचष्टे स आत्मानमभ्याचष्टे, य आत्मानमभ्याचष्टे स लोकमभ्याचष्टे ॥२३॥
अकायलोकं ज्ञात्वा साधवो न तविषयमारम्भं कुर्वन्ति, शाक्यादयस्त्वन्यवोपस्थिता इति दर्शयितुमाह
लजमाणा पुढो पास; अणगारा मो त्ति एगे पवयमाणा जमिणं विरूवरूबेहि सत्थेहिं उदयकम्मसमारंभेणं उदयसत्थं समारंभमाणे अण्णे अगरबे पाणे विहिंसइ । तत्थ खलु भगवता परिण्णा पवेदिता । इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाइमरणमोयणाए दुक्खपडिघायहेउं से सयमेव उदयसत्थं समारंभति, अण्णेहिं वा उदयसत्वं समारंभावेति, अण्णे उदवसत्वं समारंभंते समणुजाणति । तं से अहियाए, तं से अबोहीए, से तं संबुज्झमाणे आयाणीयं समुट्ठाय सोचा भगवओ अणगाराणं अंतिए इहमेगेसिं णायं भवति-एस खलु गंथे, एस खलु मोहे, एस खलु मारे, एस खलु णरए, इच्चत्थं गड्डिए लोए जमिणं .विरूवरूवेहिं सत्थेहिं उदयकम्मसमारंभेणं उदयसत्थं समारंभमाणे अण्णे अणेगवे पाणे विहिंसइ । से बेमि संति पाणा उदयनिस्सिया जीवा अणेगे ॥२३॥
एते लज्जमानाः- संयमानुष्ठानपराः पृथक् २ पश्य । अथवा तान् लज्जमानान् पश्य ये अनगाराः स्मः-अनगारा वयमित्येके प्रवदन्तो यदिदं विरूपरूपैः शस्त्रैः उदककर्मसमारम्भेण उदकशस्त्रं समारभमाणः अनेकरूपान् प्राणान्-प्राणिनो विहिनस्ति । तत्र खलु भगवता परिज्ञा प्रवेदिता । अस्य चैव जीवितस्य परिवन्दनमाननपूजनार्थं जातिमरणमोचनार्थं दुःखप्रतिघातहेतुं च
८
* श्री आचारागसूत्रम् (अक्षरगमनिका)
Page #18
--------------------------------------------------------------------------
________________
स स्वयमेव उदकशस्त्रं समारभते, अन्यैर्वा उदकशस्त्रं समारम्भयति, अन्यान् उदकशस्त्रं समारभमाणान् समनुजानीते । तत्तस्य अहिताय, तत्तस्य अबोधये । स तत् संबुध्यमान आदानीयं सम्यग्दर्शनादि समुत्थाय आदाय श्रुत्वा च भगवतः अनगाराणामन्तिके इहैकेषां ज्ञातं भवति एष खलु मोहः, एस खलु मारः, एष खलु नरकः, इत्यर्थं गुद्धो लोको यदिदं विरूपरूपैः शस्त्रैः उदककर्मसमारम्भेण उदकशस्त्रं समारभमाण उदकनिश्रितान् अन्यान् अनेकरूपान् प्राणान् प्राणिनो विहिनस्ति । सोऽहं ब्रवीमि सन्ति प्राणाःप्राणिन उदकनिश्रिता जीवा अनेक इति ||२४||
-
शाक्यादयस्तूदकश्रितानेव द्वीन्द्रियादीन् जीवानिच्छन्ति नोदकमित्येतदेव दर्शयति - इहं च खलु भो ! अणगाराणं उदयजीवा वियाहिया ॥ २५ ॥
इह जैनेन्द्रप्रवचने खलु भो ! अनगाराणाम् उदकजीवा व्याख्याता इति ॥ २५ ॥
-
अतो यद्बाह्यशस्त्रसम्पर्कात् अचित्तं भवति तत् साधुपरिभोगाय कल्पते, किं पुनस्तच्छस्त्रमित्यत आह
सत्थं चेत्थ अणुवीइ पास पुढो सत्थं पवेइयं ॥ २६ ॥
शस्त्रं चैतस्मिन् अनुविचिन्त्य पश्य पृथक् २ शस्त्रं प्रवेदितम् । 'पुढोऽपासं प्रवेदितमिति पाठान्तरमाश्रित्य - एवं शस्त्रेण परिणामितमुदकग्रहणमपाशं निर्दोषं प्रवेदितमिति ।
एवं तावत् साधूनामचित्तपयसा परिभोगः प्रतिपादितः । ये पुनः शाक्यादयोऽकायोपभोगप्रवृत्तास्ते नियमत एवाप्कायं विहिंसन्ति, तदाश्रितांश्चान्यानिति तत्र न केवलं प्राणातिपातापत्तिरेव तेषां किमन्यदित्यत आह
अदुवा अदिन्नादाणं ॥ २७॥
अथवा अदत्तादानम् अप्कायजीवादत्तत्वादिति ॥२७॥ साम्प्रतमेतद्दोषद्वयं स्वसिद्धान्ताभ्युपगमद्वारेण परः परिहारायाहकप्पइ णे कप्पइ णे पाउं, अदुवा विभूसाए ॥२८॥
कल्पते नः कल्पते नः पातुं, अथवा विभूषायै इति ||२८||
एवं ते परिफल्गुवचसः परिव्राजकादयो निजसिद्धान्तोपन्यासेन मुग्धमतीन्विमोह्य किं कुर्वन्तीत्याह
श्री. आचाराङ्गसूत्रम् (अक्षरगमनिका ) * ९
Page #19
--------------------------------------------------------------------------
________________
पुढो सत्थेहिं विट्टन्ति ॥२९॥
पृथक् पृथक् शस्त्रैर्विकुट्टन्ति-जीविताद् व्यपरोपयन्तीति ।
अधुनैषामागमासारत्वप्रतिपादनायाह-एत्थवि तेसिं नो निकरणाए ॥ ३०॥
एतस्मिन् स्वागमानुसारेणाभ्युपगमे सति आस्तां युक्तयस्तेषाम् आगमोऽपि न निकरणाय - निश्चयाय समर्थो भवतीति ॥ ३० ॥
तदेवं निर्बाधं जीवत्वं प्रतिपाद्य तत्प्रवृत्तिविनिवृत्तिविकल्पफलप्रदर्शनद्वारेणोपसंजिहीर्षुः सकलमुद्देशार्थमाह
एत्थ सत्थं समारंभमाणस्स इच्चेए आरंभा अपरिण्णाया भवंति, एत्थ सत्थं असमारंभमाणस्स इच्चेते आरंभा परिण्णाया भवंति, तं परिण्णाय मेहावी व सयं उदयसत्थं समारम्भेज्जा, नेवण्णेहिं उदयसत्थं समारंभावेज्जा, उदयसत्थं समारंभंतेऽवि अण्णे ण समणुजाणेज्जा, जस्सेते उदयसत्थसमारंभा परिण्णाया भवंति से हु मुणी परिण्णातकम्मे त्ति बेमि ॥३१॥
एतस्मिन् शस्त्रं समारभमाणस्य इत्येते आरम्भा अपरिज्ञाता भवन्ति, एतस्मिन् शस्त्रम् असमारभमाणस्य इत्येते आरम्भाः परिज्ञाता भवन्ति, तत् परिज्ञाय मेधावी नैव स्वयम् उदकशस्त्रं समारभेत, नैवान्यैरुदकशस्त्रं समारम्भयेत्, उदकशस्त्रं समारभमाणान् अपि अन्यान् न समनुजानीयात् यस्यैते उदकशस्त्र-समारम्भाः परिज्ञाता भवन्ति स खलु मुनिः परिज्ञातकर्मेति ब्रवीमि ॥३१॥
॥ अध्ययनं - १ उद्देशकः ४ ॥
इहानन्तरोद्देशके मुनित्वप्रतिपत्तये अप्कायः प्रतिपादितः तदधुना तदर्थमेव क्रमायाततेजस्कायप्रतिपादनायायमुद्देशकः समारभ्यते ।
से बेमि णेव सयं लोगं अब्भाइक्खेजा णेव अत्ताणं अब्भाइक्खेज्जा, जे लोयं अभाइक्ख से अत्ताणं अब्भाइक्खइ, जे अत्ताणं अब्भाइक्खइ से लोयं अब्भाइक्खइ ॥ ३२॥
सोऽहं ब्रवीमि - नैव स्वयम् अग्निलोकम् अभ्याचक्षीत, नैव आत्मानम् अभ्याचक्षीत, यः अग्निलोकम् अभ्याचष्टे स आत्मानम् अभ्याचष्टे, आत्मानम् अभ्याचष्टे सोऽग्निलोकम् अभ्याचष्ट इति ||३२||
* श्री आचाराङ्गसूत्रम् (अक्षरगमनिका)
१०
Page #20
--------------------------------------------------------------------------
________________
एवम् अग्निलोकः सामान्यात्मवन्नाभ्याख्यातव्य इति प्रदर्शितम् अधुनाऽग्निजीवप्रतिपत्तौ सत्यां तद्विषयसमारम्भकटुकफलपरिहारोपन्यासाय सूत्रमाह
जे दीहलो सत्थस्स खेयण्णे से असत्थस्स खेयण्णे, जे असत्थस्स खेयण्णे से दीहलो सत्थस्स खेयण्णे ॥३३॥
यो दीर्घलोकशस्त्रस्य
पृथिव्यादिशस्त्रस्य अग्नेः खेदज्ञः
ज्ञायकः
सोऽशस्त्रस्य संयमस्य खेदज्ञः, यः अशस्त्रस्य संयमस्य खेदज्ञः स दीर्घलोकशस्त्रस्य - अग्नेः खेदज्ञ इति । ॥३३॥
-
कैः पुनरिदमेवमुपलब्धमित्याह
वीरेहिं एवं अभिभूय दिट्ठ संजएहिं सया जत्तेहिं सया अप्पमत्तेहिं ॥३४॥
संयतैः सदा यतैः सदा अप्रमत्तैर्वीरैः- तीर्थकृद्गणधरैः एतद् अग्निशस्त्रं ज्ञानावरणीयादीनि अभिभूय दृष्टमिति ||३४||
तम् निश्चिनोति यथा
-
-
ये प्रमादवशया अग्निशस्त्रं न परिहरन्ति तानुद्दिश्य विपाकदर्शनायाह
जे पत्ते गुणट्ठीए से हु दंडेति पवुच्चइ ॥३५॥
यः प्रमत्तो रन्धनाद्यग्निगुणार्थी स खलु प्राणिनां दण्डहेतुत्वाद् दण्ड इति प्रोच्यत इति ||३५|
यतश्चैवं ततः किं कर्तव्यमित्यत आह
तं परिणाय मेहावी इयाणि णो जमहं पुव्वमकासी पमाएणं ॥ ३६ ॥
-
-
अग्निकायसमारम्भं दण्डफलं परिज्ञाय मेधावी तत्परिहारं इदानीं न करोमि यदहं पूर्वमकार्षं प्रमादेनेति ||३६||
अन्ये त्वन्यथावादिनोऽन्यथाकारिण इति दर्शयितुमाह
लज्जमाणा पुढो पास, अणगारा मोत्ति एगे पवदमाणा जमिणं विरूवरूवेहिं सत्थेहिं अगणिकम्मसमारम्भेणं अगणिसत्थं समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसंति । तत्थ खलु भगवता परिण्णा पवेदिता, इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाइमरणमोयणाए दुक्खपडिघायहेउं से सयमेव अगणिसत्थं समारंभइ अण्णेहिं वा अगणिसत्थं समारंभावेइ, अण्णे वा अगणिसत्थं समारंभमाणे समणुजाणइ, तं से अहियाए, तं से अबोहियाए, से तं संबुज्झमाणे, आयाणीयं समुट्ठाय सोच्चा भगवओ अणगाराणं इहमेगेसि णायं
श्री. आचाराङ्गसूत्रम् (अक्षरगमनिका) *
११
Page #21
--------------------------------------------------------------------------
________________
भवति - एस खलु गंथे, एस खलु मोहे, एस खलु मारे, एस खलु णरए, इचत्थं गढिए लोए जमिणं विरूवरूवेहिं सत्येहिं अगणिकम्मसमारंभमाणे अण्णे अगरूवे पाणे विहिंसइ ॥ ३७ ॥
एते लज्जमानाः संयमानुष्ठानपराः पृथक् २ पश्य । अथवा तान् लज्जमानान् पश्य ये अनगाराः स्म इत्येके प्रवदमाना यदिदं विरूपरूपैः शस्त्रैः अग्निकर्मसमारम्भेण अग्निशस्त्रं समारभमाणोऽन्यान् अनेकरूपान प्राणान् प्राणिनो विहिनस्ति ।
-
तत्र खलु भगवता परिज्ञा प्रवेदिता, अस्य चैव जीवितस्य परिवन्दन-मानन-पूजनाय जातिमरणमोचनाय दुःखप्रतिघातहेतुं च स स्वयमेव अग्निशस्त्रं समारभते, अन्यैर्वा अग्निशस्त्रं समारम्भयति, अन्यान् वा अग्निशस्त्रं समारम्भमाणान् समनुजानीते, तत् तस्य अहिताय, तत् तस्य अबोधये, स तत् संबुध्यमानः आदानीयं सम्यग्दर्शनादि समुत्थाय आदाय श्रुत्वा भगवतः अनगाराणां वाऽन्तिके, इहैकेषां ज्ञातं भवति एष खलु ग्रन्थः, एष खलु मोह:, एस खलु मारः, एष खलु नरकः, इत्येवमर्थं गृद्धो लोको यदिदं विरूपरूपैः शस्त्रैः अग्निकर्मसमारभमाणः अन्यान् अनेकरूपान् प्राणान् प्राणिनो विहिनस्ति ॥३७॥
कथं पुनरग्निसमारम्भप्रवृत्तो नानाविधान् प्राणिनो विहिनस्तीति दर्शयितुमाह
से बेमि-संति पाणा पुढवीनिस्सिया, तणणिस्सिया, पत्तणिस्सिया, कट्ठनिस्सिया, गोमयणिस्सिया, कयवरणिस्सिया, संति संपातिमा पाणा, आहच्च संपयंति, अगणि च खलु पुट्ठा एगे संघायमावज्जंति, जे तत्थ संघायमावज्रंति ते तत्थ परियावज्रंति जे तत्थ परियावज्जंति ते तत्थ उद्दायंति ॥ ३८॥
-
-
सोऽहं ब्रवीमि सन्ति प्राणाः प्राणिनः पृथिवीनिश्रिताः, तृणनिश्रिताः, पत्रनिश्रिताः, काष्ठनिश्रिताः, गोमयनिश्रिताः, कचवरनिश्रिताः, सन्ति सम्पातिनः प्राणिनस्त आहत्य - उपेत्य सम्पतन्ति, अग्निं च खलु स्पृष्टा एके संघातमापद्यन्ते, ये तत्र संघातं - गात्रसंकोचम् आपद्यन्ते, ते तत्र पर्यापद्यन्ते, मूर्च्छामापद्यन्ते, ये तत्र पर्यापद्यन्ते ते तत्र अपद्रावन्ति प्राणान् मुञ्चन्तीत्यर्थः ॥३८॥
१२
तदेवं प्रभूतसत्त्वोपमर्दनकरमग्न्यारम्भं विज्ञाय मनोवाक्कायैः कृतकारितानुमतिभिश्च तत्परिहारः कार्य इति दर्शयितुमाह
-
* श्री आचाराङ्गसूत्रम् (अक्षरगमनिका)
Page #22
--------------------------------------------------------------------------
________________
एत्थ सत्थं समारंभमाणस्स इच्चेते आरंभा अपरिणाया भवंति, एत्थ सत्थं असमारंभमाणस्स इच्छेते आरंभा परिणाया भवंति, तं परिणाय मेहावी व सयं अगणिसत्थं समारंभेज्जा, नेवऽण्णेहिं अगणिसत्थं समारंभावेजा, अगणिसत्थं समारंभमाणे अण्णे न समणुजाणेजा, जस्सेते अगणिकम्मसमारंभा परिण्णाया भवंति, से हु मुणी परिण्णायकम्मे त्ति बेमि ॥३९॥ ___ अत्र शस्त्रं समारभमाणस्य इत्येते आरम्भा अपरिज्ञाता भवन्ति, अत्र शस्त्रं असमारभमाणस्य इत्येते आरम्भाः परिज्ञाता भवन्ति, तत् परिज्ञाय मेधावी नैव स्वयम् अग्निशस्त्रं समारभेत, नैव अन्यैः अग्निशस्त्रं समारम्भयेत, अग्निशस्त्रं समारभमाणान् अन्यान् न समनुजानीयात्, यस्यैते अग्निकर्मसमारभ्भाः परिज्ञाता भवन्ति स खलु मुनिः परिज्ञातकर्मेति ब्रवीमि ।।३९।।
॥ अध्ययनं-१ उद्देशकः ५ ॥ इहानन्तरोद्देशके तेजःकायः प्रतिपादितः, तदनन्तरं वायुकायस्याऽवसरः । स च न चक्षुःप्रत्यक्ष इति दुःश्रद्धानः । मा च शैक्षस्तमश्रद्दधानो विप्रतिपद्यतेति तेन क्रममुल्लङ्घय समस्तलोकप्रत्यक्षो वनस्पतिकायः प्रतिपाद्यते
तं णो करिस्सामि समुट्ठाए, मत्ता मइमं अभयं विदित्ता, तं जे णो करए एसोवरए, एत्थोवरए, एस अणगारेत्ति पवुच्चइ ॥४०॥
यं पूर्वमकार्षं प्रमादेन तं - वनस्पतिकायसमारम्भं नो करिष्यामि समुत्थाय - आदाय प्रव्रज्याम् । एवमात्मनि मत्वा - निश्चित्य हे मतिमन् ! अभयम् - संयमं च विदित्वा तं - वनस्पत्यारम्भं यो न कुर्यात् एष उपरतः - निवृत्तः । अत्र मौनीन्द्रप्रवचने य उपरत एषः अनगार इति प्रोच्यते ॥४०॥
शब्दादिविषयाः प्रायो वनस्पतिसमारम्भाद् निष्पद्यन्ते तेषु च वर्तमाना नरकादिचतुर्विधगत्यन्तःपातिनो बोद्धव्याः तदन्तःपातिन एव च शब्दादिविषयाभिष्वङ्गिनो भवन्तीति दर्शयत्राह
जे गुणे से आवट्टे जे आवट्टे से गुणे ॥४१॥
यः शब्दादिगुणेषु रज्यते द्वेष्टि च स संसाराऽऽवर्ते परिभ्रमति । य आवर्ते परिभ्रमति स शब्दादिगुणेषु वर्तत इति ॥४१।।
एते शब्दादिगुणाः कुत्र ? भण्यते उड्ढे अहं तिरियं पाइणं पासमाणे स्वाइं पासति, सुणमाणे सद्दाई
-
श्री आचारागसूत्रम् (अक्षरगमनिका) *
१३
Page #23
--------------------------------------------------------------------------
________________
सुणोति, उड्ढं अहं पाइणं मुच्छमाणे रूवेसु मुच्छति, सेसेसु आवि ॥ ४२ ॥
ऊर्ध्वं वैमानिकानां अवाङ् - अधो-भवनपतीनां तिर्यग् प्राचीनादिषु दिक्षु विदिक्षु च व्यन्तर-ज्योतिष्कमनुष्यतिरश्चां पश्यन् रूपाणि पश्यति, श्रृण्वन् शब्दान् श्रृणोति । ऊर्ध्वमवाङ् प्राचीनादिषु मूर्च्छन् रुपेषु मूर्च्छति शब्देषु चापि ततोऽस्य बन्ध इति शेषः ||४२||
7
एवं विषयलोकमाख्याय विवक्षितमाह -
एस लोए वियाहिए एत्थ अगुत्ते अणाणा ॥ ४३ ॥
एष विषयलोको व्याख्यातः अत्राऽगुप्तः अनाज्ञायामिति ||४३||
एवं गुणश्च यत् कुर्यात्तदाह
पुणो पुणो गुणासाए वंकसमायारे ॥४४॥
पुनः पुनः शब्दादिगुणाऽऽस्वादको विषयलम्पटो वक्रसमाचारः असंयमानुष्ठायी भवतीति ॥४४॥
एवं चासौ नितरां जितः शब्दादिविषयसमास्वादनात् इदमाचरति
पत्तेऽगारमावसे ॥४५॥
प्रमत्तः अगारं - गृहम् आवसति ||४५||
अन्यतीर्थिकाः पुनः सर्वदा सर्वथाऽन्यथावादिनोऽन्यथाकारिण इति दर्शयितुमाह
जमाणा पुढो पास, अणगारा मोति एगे पवदमाणा जमिणं विरूरूवेहिं सत्थेहिं वणस्सइकम्मसमारंभेणं वणस्सइसत्थं समारंभमाणा अण्णे अणेगरूवे पाणे विहिंसंति, तत्थ खलु भगवया परिण्णा पवेदिता, इमस्स चेव जीवियस्स परिवंदणमाणण पूयणाए जाइमरणमोयणाए दुक्खपडिघायहेऊं से सयमेव वणस्सइसत्थं समारंभइ, अण्णेहिं वा वणस्सइसत्थं समारंभावेइ, अण्णे वा वणस्सइसत्थं समारंभमाणे समणुजाणइ, तं से अहियाए, तं से अबोहीए, से तं संबुज्झमाणे, आयाणीयं समुट्ठाए सोच्चा भगवओ अणगाराणं वा अंतिए इहमेगिसिं णायं भवति - एस खलु गंथे, एस खलु मोहे; एस खलु मारे, एस खलु णरये, इच्चत्थं गड्ढिए लोए, जमिणं विरूवरूवेहिं सत्थेहिं वणस्सइकम्मसमारंभेणं वणस्सइसत्थं समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसंति ॥४६॥
१४
* श्री आचाराङ्गसूत्रम् (अक्षरगमनिका)
Page #24
--------------------------------------------------------------------------
________________
लज्जमानाः पृथक् पश्य अनगाराः स्म इत्येके प्रवदन्तो यदिदं विरूपरूपैः शस्त्रैर्वनस्पतिकायसमारम्भेण वनस्पतिशस्त्रं समारभमाणा अन्यान् अनेकरूपान् प्राणिनो विहिंसन्ति, तत्र खलु भगवता परिज्ञा प्रवेदिता, अस्य चैव जीवितस्य परिवन्दन-मानन-पूजनाय जातिमरणमोचनाय दुःखप्रतिघातहेतुं च स स्वयमेव वनस्पतिशस्त्रं समारभते अन्यैर्वा वनस्पतिशस्त्रं समारम्भयति, अन्यान् वा वनस्पतिशस्त्रं समारभमाणान् समनुजानीते, तत्तस्य अहिताय, तत्तस्य अबोधये, स तत् संबुध्यमान आदानीयं सम्यग्दर्शनादि समुत्थाय-आदाय श्रुत्वा भगवतः अनगाराणां वाऽन्तिके इहैकेषां ज्ञातं भवति एष, खलु मोहः, एष खलु मारः, एष खलु नरकः, इत्येवमर्थं गृद्धो लोको यदिदं विरूपरूपैः शस्त्रैवनस्पतिकर्मसमारम्भेण वनस्पतिशस्त्रं समारभभाणः अन्यान् अनेकरूपान् प्राणिनो विहिनस्ति ॥४६।।
सामतं वनस्पतिजीवास्तित्वे लिङ्गमाह
से बेमि, इमंपि जाइधम्मयं, एयंपि जाइधम्मयं, इमंपि वुढिधम्मयं, एयंपि बुड्ढिधम्मयं, इमंपि चित्तमंतयं, एयंपि चित्तमंतयं, इमंपि छिण्णं मिलाइ, एयंपि छिणं मिलाइ, इमंपि आहारगं, एयंपि आहारगं, इमंपि अणिच्चयं, एयंपि अणिच्चयं, इमंपि असासयं, एयपि असासयं, इमंपि चओवचइयं, एयंपि चओवचइयं, इमंपि विपरिणामधम्मयं, एयंपि विपरिणामधम्मयं ॥४७॥
सोऽहं ब्रवीमि - इदमपि मनुष्यशरीरमपि जातिधर्म-जननस्वभावम् एतदपि - वनस्पतिशरीरमपि जातिधर्मम्, इदमपि वृद्धिधर्मम् एतदपि वृद्धिधर्मम्, इदमपि चित्तमत्, एतदपि चित्तमत्, इदमपि छिन्नं म्लायति एतदपि छिन्नं म्लायति, इदमपि आहारकम् एतदपि आहारकम्, इदमपि अनित्यकम् एतदपि अनित्यकम्, इदमपि अशाश्वतम् एतदपि अशाश्वतम्, इदमपि चयापचयिकम् एतदपि चयापचयिकम्, इदमपि विपरिणामधर्मकम् एतदपि विपरिणामधर्मकमिति ॥४७।। ___एवं वनस्पतेश्चैतन्यं प्रदर्श्य तदारम्भे बन्धं तत्परिहाररूपविरत्यासेवनेन मुनित्वं प्रतिपादयन्नुपसजिहीर्षुराह
एत्थ सत्थं समारंभमाणस्स इच्चेते आरंभा अपरिण्णाता भवति, एत्थ सत्थं असमारंभमाणस्स इच्छेते आरंभा परिणाया भवंति, तं परिणाय
___ -- श्री आचारागसूत्रम् (अक्षरगमनिका) *
१५
Page #25
--------------------------------------------------------------------------
________________
मेहावी नेव सयं वणस्सइसत्थं समारंभेजा, णेवण्णेहिं वणस्सइसत्थं समारंभावेजा, णेवण्णे वणस्सइसत्थं समारंभंते समणुजाणेजा, जस्सेते वणस्सइसत्थसमारंभा परिणाया भवंति, से हु मुणी परिण्णायकम्मे त्ति बेमि ॥४८॥ .
अत्र शस्त्रं समारभमाणस्य इत्येते आरम्भा अपरिज्ञाता भवन्ति, अत्र शस्त्रमसमारभमाणस्य इत्येते आरम्भा परिज्ञाता भवन्ति, तत परिज्ञाय मेधावी नैव स्वयं वनस्पतिशस्त्रं समारभेत, नैव अन्यैर्वा वनस्पतिशस्त्रं समारम्भयेत् नैव अन्यान् वनस्पतिशस्त्रं समारभमाणान् समनुजानीयात् । यस्यैते वनस्पतिशस्त्रसमारम्भाः परिज्ञाता भवन्ति स खलु मुनिः परिज्ञातकर्मेति ब्रवीमि ॥४८॥
॥ अध्ययनं-१ : उद्देशकः ६ ॥ इहानन्तरोद्देशके वनस्पतिकायः प्रतिपादितः, तदनन्तरं च त्रसकाय आगमे परिपठित इति तत्स्वरूपं प्रतिपादनाय षष्ठोद्देशकः समारभ्यते
से बेमि संतिमे तसा पाणा, तं जहा अंडया पोयया जराउआ रसया संसेयया संमुच्छिमा उब्भियया उववाइया, एस संसारेत्ति पवुच्चइ ॥४९॥
सोऽहं ब्रवीमि - सन्ति इमे त्रसाः प्राणिनः, तद्यथा - अण्डजाः पोतजाः जरायुजा रसजाः संस्वेदजाः सम्मूर्छिमा उद्भिजा औपपातिकाश्च, एष त्रसकायस्य संसारः - अष्टविधोत्पत्तिप्रकार इति प्रोच्यते ॥४९।।
कस्य पुनरष्टविधभूतग्रामे उत्पत्तिर्भवतीत्याह - मंदस्सावियाणओ ॥५०॥
मंदस्य - बालस्य अविजानतः - हिताहितविज्ञानशून्यस्य अनन्तरोक्तः संसारो भवतीति ॥५०॥ यद्येवं ततः किमित्याह -
निज्झाइत्ता पडिलेहित्ता पत्तेयं परिनिव्वाणं सव्वेसिं पाणाणं, सम्वेसि भूयाणं, सवेसिं जीवाणं, सबेसि सत्ताणं अस्सायं अपरिनिव्वाणं महन्भयं दुक्खं त्ति बेमि, तसंति पाणा पदिसो दिसासु य ॥५१॥
निर्ध्याय - विचिन्त्य प्रत्युपेक्ष्य - दृष्ट्वा च प्रत्येकं त्रसकायं ब्रवीमि सर्वेषां प्राणिनां सर्वेषां भूतानां सर्वेषां जीवानां सर्वेषां सत्त्वानां च सुखं
१६
* श्री आचारागसूत्रम् (अक्षरगमनिका)
Page #26
--------------------------------------------------------------------------
________________
परिनिर्वाणं - समन्तात् प्रियम् असातं च अपरिनिर्वाणं - समन्तादप्रियम्, महाभयं दुःखमिति ब्रवीमि त्रस्यन्ति - उद्विजन्ति प्राणिनः सर्वतः प्रदिक्षु-विदिक्षु दिक्षु चेति ब्रवीमि ॥५१॥
कुतः पुनस्त्रस्यन्ति ? यत आरम्भवद्भिस्ते व्यापायन्ते इत्यत आहतत्थ तत्थ पुढो पास आतुरा परितावंति, संति पाणा पुढो सिया ॥५२॥
तत्र तत्र पृथक् २ प्रयोजने उत्पन्ने सति पश्य आतुरास्त्रसान् परितापयन्ति, सन्ति च कृम्यादयः प्राणिनः पृथक् त्रसान् श्रितास्तानपि परितापयन्ति । एतच्च ज्ञात्वा निरवद्यानुष्ठायिना भवितव्यमित्यभिप्रायः ॥५२।।
अन्ये पुनरन्यथावादिनोऽन्यथाकारिण इति दर्शयन्नाह -
लज्जमाणा पुढो पास, अणगारा मोत्ति एगे पवयमाणा जमिणं विरूवरूवेहिं सत्थेहिं तसकायसमारंभेण तसकायसत्थं समारंभमाणा अण्णे अणेगरूवे पाणे विहिंसंति, तत्व खलु भगवया परिण्णा पवेइया, इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाइमरणमोयणाए दुक्खपडिघायहेउं से सयमेव तसकायसत्थं समारंभति, अण्णेहि वा तसकायसत्थं समारंभावेइ, अण्णे वा तसकायसत्थं समारंभमाणे समणुजाणइ तं से अहियाए, तं से अबोहीए से तं संबुज्झमाणे आयाणीयं समुट्ठाय सोचा खलु भगवओ अणगाराणं अंतिए इहमेगेसिं णायं भवति-एस खलु गंथे, एस खलु मोहे, एस खलु मारे, एस खलु णरए, इचत्थं गड्ढिए लोए जमिणं विरूवरूवेहिं सत्थेहिं तसकायसमारंभेण तसकायसत्थं समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसति ॥५३॥
पूर्ववत् व्याख्येयम् नवरं त्रसकायालापकेनेति ॥५३॥ यानि कानिचित् प्रयोजनान्युद्दिश्य त्रसवधः क्रियते तानि दर्शयितुमाह
से बेमि अप्पेगे अचाए हणंति, अप्पेगे अजिणाए वहंति, अप्पेगे मंसाए वहंति, अप्पेगे सोणियाए वहंति, एवं हिययाए पित्ताए वसाए पिच्छाए पुच्छाए वालाए सिंगाए विसाणाए दंताए दाढाए णहाए हारुणीए अट्ठीए अद्विमिंजाए अट्ठाए अणट्ठाए, अप्पेगे हिंसिंसु मेत्ति वा वहंति, अप्पेगे हिंसंति मेत्ति वा वहंति, अप्पेगे हिंसिस्संति मेत्ति वा वहति ॥५४॥ , तदहं ब्रवीमि अप्येके अर्चायै नन्ति, अप्येके अजिनाय- चर्मणि
___.. श्री आचारागसूत्रम् (अक्षरगमनिका) *
....श्रीमान
१७
..........
Page #27
--------------------------------------------------------------------------
________________
घ्नन्ति, अप्येके मांसाय घ्नन्ति, अप्येके शोणिताय घ्नन्ति एवं हृदयाय, पित्ताय वसायै, पिच्छाय पुच्छाय वालाय शृङ्गाय विषाणाय दन्ताय दंष्ट्रायै नखाय स्नाय्वे अस्थने अस्थिमञ्जयै अर्थाय प्रयोजनाय, अनर्थाय निष्प्रयोजनं, अप्येके हिंसितवान् मे स्वजनादिकमिति वा घ्नन्ति, अप्येके हिंसन्ति मे स्वजनादिकमिति वा घ्नन्ति, अप्येके हिंसिष्यन्ति मे स्वजनादिकमिति घ्नन्तीति ॥५४॥
एवमनेकप्रयोजनोपन्यासेन हननं त्रसविषयं प्रदर्श्य उद्देशकार्थमुपसञ्जिहीर्षुराह
एत्थं सत्थं समारभमाणस्स इच्चेते आरंभा अपरिण्णाया भवंति, एत्थ सत्थं असमारभमाणस्स इच्चेते आरंभा परिण्णाया भवति, तं परिण्णाय मेहावी णेव सयं तसकायसत्थं समारंभेजा, णेवऽण्णेहिं तसकायसत्थं समारंभावेजा, णेवऽण्णे तसकायसत्थं समारंभंते समणुजाणेज्जा, जस्सेते तसकायसत्थसमारंभा परिण्णाया भवंति से हु मुणी परिण्णायकम्मे त्ति बेमि ॥ ५५ ॥
पूर्ववत् व्याख्येयमिति नवरं त्रसकायालापकेनेति ।। ५५ ।।
॥ अध्ययनं -१ : उद्देशकः ७ ॥
अथ प्रतिज्ञातवायुकायप्रतिपादनायारभ्यते -
पहू एजस्स दुगुंछणा ॥५६॥
प्रभुः- समर्थ एजस्य जनशीलस्य कम्पनशीलस्य वायोः जुगुप्सायां - निवृत्तौ । एतदुक्तं भवति साधुर्वायुकाय- समारम्भनिवृत्ती समर्थो भवतीत्यर्थः ॥ ५६॥
-
-
कथं वायुकायसमारम्भनिवृतौ - समर्थो भवतीत्याह
आयंकदंसी अहियंति णच्चा, जे अज्झत्थं जाणइ से बहिआ जाणइ, जे बहिया जाणइ से अज्झत्थं जाणइ, एयं तुलमन्नेसिं ॥५७॥
भवातन्कदर्शी वायुकायसमारम्भे अहितमिति ज्ञात्वा, अन्यच्च यः अध्यात्म-आत्मनि सुखदुःखादि जानाति स बहिः वायुकायादावपि जानाति, यो बहिर्जानाति सः अध्यात्मं जानाति । ज्ञात्वा च किं कुर्यादित्य 'यथा मम सुखदुःखे इष्टानिष्टे तथा सर्व जीवानामिति' एतां तुलाम् अन्वेषयेद् - कुर्यादित्यर्थः ॥५७॥
१८ * श्री आचाराङ्गसूत्रम् (अक्षरगमनिका )
Page #28
--------------------------------------------------------------------------
________________
अतः साधवो जन्तुसंघातरक्षणायैव प्रवर्तन्ते, कथमिति दर्शयति - इह संगिया दवियां णावकखंति जीविउं ॥५८॥
इह - मौनीन्द्रप्रवचने शान्तिगताः सम्यग्दर्शनादिव्यवस्थिता द्रविकाः . कर्मकाठिन्यद्रवणात् संयमिनो नावकाङ्क्षन्ति जीवितुं वायुजीवोपमर्दनेनेत्यर्थः भावार्थस्त्वयम् - जैनप्रवचन एव परप्राणव्यरोपणनिष्पन्नसुखजीविकानिरभिलाषाः साधवो नान्यत्र एवंविधक्रियाज्ञानाभावादिति ॥५८।।
अन्ये पुनरन्यथावादिनोऽन्यथाकारिण इति दर्शयन्नाह
लजमाणे पुढो पास, अणगारा मोत्ति एगे पवयमाणा जमिणं विरूवरूवेहि सत्येहिं वाउकम्मसमारंभेणं वाउसत्थं समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसंति । तत्थ खलु भगवया परिण्णा पवेइया । इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाइमरणमोयणाए दुक्खपडिघायहेउं से सयमेव वाउसत्थं समारंभति, अण्णेहिं वा वाउसत्थं समारंभावेइ, अण्णे वाउसत्थं समारंभंते समणुजाणति, तं से अहियाए, तं से अबोहिए, से तं संबुज्झमाणे आयाणीए समुठाए सोचा भगवओ अणगाराणं अंतिए इहमेगेसिं णायं भवति-एस खलु गंथे, एस खलु मोहे, एस खलु मारे, एस खलु णिरए, इच्चत्थं गढिए लोए जमिणं विरूवरूवेहिं सत्येहिं वाउकम्मसमारंभेणं वाउसत्थं समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसति ॥५९॥
पूर्ववत् व्याख्येयं नवरं वायुकायाभिलापेनेति ॥५९।। कथं पुनर्वायुसमारम्भप्रवृत्ता नानाविधान् प्राणिनो विहिंसन्तीति दर्शयितुमाह
से बेमि संति संपाइमा पाणा आहच्च संपयंति य फरिसं च खलु पुट्ठा एगे संघायमावजंति, जे तत्थ संघायमावजंति ते तत्थ परियावजंति, जे तत्थ परियावजंति ते तत्थ उद्दायंति, एत्थ सत्थं समारभमाणस्स इच्चेते आरंभा अपरिण्णाया भवंति, एत्थ सत्थं असमारभमाणस्स इच्चेते आरंभा परिण्णाया भवंति, तं परिणाय मेहावी व सयं वाउसत्थं समारंभेजा, णेवण्णेहिं वाउसत्थं समारंभावेजा, णेवऽण्णे वाउसत्थं समारंभंते समणुजाणेजा, जस्सेते वाउसत्थसमारंभा परिण्णाया भवंति, से हु मुणी परिण्णायकम्मेत्ति बेमि ॥६०॥
सोऽहं ब्रवीमि - सन्ति संपातिनः प्राणिन आहत्य संपतन्ति च स्पर्श च खलु स्पृष्टा एके संघातं - गात्रसंकोचनम् आपद्यन्ते । ये तत्र संघातमापद्यन्ते
---- श्री आचारागसूत्रम् (अक्षरगमनिका) *
१९
Page #29
--------------------------------------------------------------------------
________________
ते तत्र पर्यापद्यन्ते - मूळमापद्यन्ते, ये तत्र पर्यापद्यन्ते ते तत्र अपद्रावन्ति प्राणान् मुञ्चतीत्यर्थः । अत्र शस्त्रं समारभमाणस्य इत्येते आरम्भा अपरिज्ञाता भवन्ति, अत्र शस्त्रं असमारभमाणस्य इत्येते आरम्भाः परिज्ञाता भवन्ति, तत् परिज्ञाय मेधावी नैव स्वयं वायूशस्त्रं समारभेत, नैव अन्यैर्वायुशस्त्रं समारम्भयेत्, नैव अन्यान् वायुशस्त्रं समारभमाणान् समनुजानीयात् । यस्यैते वायुशस्त्रसमारम्भाः परिज्ञाता भवन्ति स खलु मुनिः परिज्ञातकर्मेति ब्रवीमि ॥६०॥ ___ सम्प्रति षड्जीवनिकायविषयवधकारिणामपायदिदयिषया तन्निवृत्तिकारिणां च सम्पूर्णमुनिभावप्रदर्शनाय सूत्राणि प्रकथ्यन्ते -
एत्थंपि जाणे उवादीयमाणा, जे आयारे ण रमंति, आरंभमाणा विणयं वयंति, छंदोवणीया अज्झोववण्णा, आरंभसत्ता पकरंति संगं ॥६१॥
एतस्मिन्नपि - वायुकाये, अपिशब्दात् पृथिव्यादिषु च जानीहि आरम्भमाणान् कर्मणा उपादीयमानान् ये ज्ञानाचारादिषु न रमन्ते । के ते ? आरम्भमाणा अपि विनयं - कर्माष्टकविनयात् संयमं वदन्ति शाक्यादयः । किं पुनः कारणं ? छन्दसा उन्मार्गम् उपनीता विषयेषु च अध्युपपन्नाः, अत एव आरम्भसक्ताः प्रकुर्वन्ति सङ्गम् अष्टविधं कर्म विषयसङ्गं वेति ॥६१।।
अथ यो निवृत्तस्तदारभ्भात् स किंविशिष्टो भवतीत्यत आह
से वसुमं समण्णागयपण्णाणेणं अप्पाणेणं अकरणिजं पावं कम्मं णो अण्णेसिं तं परिण्णाय मेहावी णेव सयं छज्जीवनिकायसत्थं समारंभेजा, णेवऽण्णेहिं छज्जीवनिकायसत्थं समारंभावेजा, णेवऽण्णे छज्जीवनिकायसत्थं समारंभंते समणुजाणेजा, जस्सेते छज्जीवीनिकायसत्थसमारंभा परिण्णाया भवंति से हु मुणी परिण्णायकम्मे त्ति बेमि ॥२॥
स भाववसुमान् - संयमवान् सर्वसमन्वागतप्रज्ञानेन आत्मना अकरणीयं पापं कर्म न अन्वेषयेत् - कुर्यात, तत् परिज्ञाय मेधावी नैव स्वयं षड्जीवनिकायशस्त्रं समारभेत, नैवाऽन्यैः षड्जीवनिकायशस्त्रं समारभयेत्, नैवाऽन्यान् षड्जीवनिकायशस्त्रं समारभमाणान् समनुजानीयात् । यस्यैते षड्जीवनिकायसमारम्भाः परिज्ञाता भवन्ति स खलु मुनिः परिज्ञातकर्मेति ब्रवीमि ।।६२।।
॥ इति सप्तमोद्देशकः ॥१-७॥ इति प्रथममध्ययनम् ॥१॥
२०
* श्री आचारागसूत्रम् (अक्षरगमनिका)
Page #30
--------------------------------------------------------------------------
________________
॥ २ : लोकविजय-अध्ययनं : उद्देशकः- १ ॥ अथ लोकविजयाख्यं द्वितीयमध्ययनम्
इहानन्तराध्ययनप्रतिपादितषट्कायरक्षापरिणामवतः सर्वोपाधिशुद्धस्याऽऽरोपित- पञ्चमहाव्रतभारस्य साघोर्यथा रागादिकषायलोकस्य शब्दादिविषयलोकस्य वा विजयो भवति तथाऽनेनाऽध्ययनेन प्रतिपायत इत्यनेन संबन्धेनऽऽयातस्यास्याध्ययनस्यादिसूत्रम्
जे गुणे से मुलट्ठाणे, जे मूलढाणे से गुणे । इति से गुणट्ठी महया परियावेणं पुणो पुणो वसे पमत्ते-माया मे, पिया मे, भाया मे भगिणी मे, भज्जा मे, पुत्ता मे, धूआ मे, ण्हुसा मे, सहिसयणसंगंथसंथुआ मे, विवित्तुक्गरणपरिवट्टणभोयणच्छायणं मे । इचत्थं गढिए लोए अहो य राओ य परितप्पमाणे कालाकालसमुट्ठाई संजोगट्ठी अट्ठालोभी आलुपे सहसाकारे विणिविट्ठचित्ते, एत्थ सत्थे पुणो पुणो, अप्पं च खलु आउयं इहमेगेसिं माणवाणं तं जहा ॥६३॥ ___ यः शब्दादिविषयगुणेषु वर्तते स संसारस्य मूलस्थाने - क्रोधादिकषायेषु वर्तते, यश्च मूलस्थाने वर्तते स गुणेषु वर्तते । इति स गुणार्थी महता परितापेन पुनः पुनर्वसेत् प्रमत्तः माता मे, पिता मे, भार्या मे, पुत्रा मे, दुहिता मे, स्नुषा मे, सखिस्वजनसंग्रन्थसंस्तुता मे, विविक्तं - प्रभुतं हस्त्यश्वाधुपकरणं परिवर्तनं - द्वित्रिगुणं भोजनाच्छादनं मे । इत्येवमर्थं गृद्धो लोको वसेत् प्रमत्तः । अहश्च रात्रिं च परितप्यमानो मम्मणवत् कालाऽकालसमुत्थायी, संयोगार्थी, अर्थाऽऽलोभी, आलुम्पः - गलकर्तनचौर्यादिकर्ता, सहसाकारो, विनिविष्टचित्तो, 'विणिविट्ठचिठे' पाठान्तरमाश्रित्य विनिविष्टचेष्टो वा अत्र - मातापित्रादौ शब्दादिविषय-संयोगे वा पृथ्व्यादिजीवानां यत् शस्त्रं तत्र पुनः पुनः प्रवर्तते । “एत्थ सत्ते पुणो पुणो' इति पाठान्तरमाश्रित्य अत्र मातापितृशब्दादि संयोगे सक्तः - गृद्धः सन् पौनःपुण्येन षड्जीवकायोपमर्दने प्रवर्तत इति । एतच्च युज्येत यद्यजरामरत्वं दीर्घायुष्कं वा स्यात्, तच्चोभयमपि नास्तीत्याह - अल्पं च खलु आयुष्यकमिहैकेषां मानवानां तद्यथा - ॥६३।।
ये दीर्घाऽऽयुष्का भवन्ति तेऽपि जराभिभूता मृतकतुल्या भवन्ति, तद्यथा
तं जहा - सोयपरिणाणेहिं परिहायमाणेहिं, चक्खुपरिणाणेहिं परिहायमाणेहिं, घाणपरिणाणेहिं परिहायमाणेहिं रसणापरिण्णाण्णेहिं
श्री आचारागसूत्रम् (अक्षरगमनिका) *
२१
Page #31
--------------------------------------------------------------------------
________________
परिहायमाणेहिं फासपरिणाणेहिं परिहायमाणेहिं अभिक्कंतं च खलुं वयं संपेहाए तओ से एगदा मूढभावं जणयंति ॥६४॥
तद्यथा - श्रोत्रपरिज्ञानैः परिहीयमानैः, चक्षुःपरिज्ञानैः परिहीयमानैः, घ्राणपरिज्ञानैः परिहीयमानैः, रसनापरिज्ञानैः परिहीयमानैः, स्पर्शपरिज्ञानैः परिहीयमानैः, अभिक्रान्तं च खलु वयः सम्प्रेक्ष्य तत इन्द्रियविज्ञानापचयाद्वयोऽतिक्रमणाद्वा स एकदाऽऽत्मनो मूढभावं जनयति यदि वा तानि परिहीयमाणानि श्रोत्रादिविज्ञानानि तस्य मूढभावं जनयन्तीति ॥६४॥
स एवं वार्धक्ये मूढस्वभावः सन् प्रायेण लोकनिन्दितो भवतीत्याह
जेहिं वा सद्धिं संवसति ते वि णं एगदा णियगा पुलिं परिवयंति सोऽवि ते णियए पच्छा परिवएजा, णालं ते तव ताणाए वा सरणाए वा, तुमंपि तेसिं णालं ताणाए वा सरणाए वा, से ण हासाय ण किड्डाए ण रतीए ण विभूसाए ॥६५॥ ___ यैर्वा साई संवसति तेऽपि एकदा निजकाः पूर्वं परिवदन्ति - निन्दन्ति, सोऽपि तान निजकान पश्चात् परिवदेत-निन्देत् नालं ते तव त्राणाय - आपद्रक्षार्थं वा शरणाय निर्भयस्थित्यर्थं वा, त्वमपि तेषां नालं त्राणाय वा शरणाय वा । स च वृद्धो न हासाय, न क्रीडायै न रत्यै, न विभूषाय अर्हतीति ॥६५॥
गतमप्रशस्तं मूलस्थानं, साम्प्रतं प्रशस्तमुच्यते . ..
इच्चेवं समुट्ठिए अहोविहाराए अंतरं च खलु इमं संपेहाए धीरे मुहुत्तमवि यो समाय-ओ अचेति जोव्वणं व ॥६६॥
त्वेर्व मत्वा समुत्थितः अहोविहाराय - आश्चर्यभूताय संयमानुष्ठानाय 'अन्तरम् - अवसरंगाचे आर्यक्षेत्रसत्कुलादिकं खलु इमं - तपःसंयमावसरं
सम्प्रेक्ष्यं धीरो, मुहूर्तमपि न प्रमाद्येत वयः अत्येति - अतीव याति यौवनमिव 'योतीति ॥६६॥ .. rem..... * त्या अहौविहारायोत्थानं श्रेय इति । ये पुनः संसाराभिष्वङ्गिणोऽसंयमजीवितमेव बहुमापो से किभूता भवन्तीत्याह
जीविए इह जे पमत्ता से हंता छेत्ता भेत्ता लुपित्ता विलुपित्ता उद्दवित्ता उत्तासइत्ता, अकडं करिस्सामित्ति मण्णमाणे, जेहिं वा सद्धि संवसइ ते वा णं
२२
* श्री आचारागसूत्रम् (अक्षरगमनिका)
Page #32
--------------------------------------------------------------------------
________________
एगया नियगा तं पुलिं पोसेंति, सो वा ते नियगे पच्छा पोसिज्जा, नालं ते तव ताणाए वा सरणाए वा, तुमंपि तेसिं नालं ताणाए वा सरणाए वा ॥६७॥
असंयमजीविते इह . अप्रशस्तगुणमूलस्थाने विषयकषायेषु ये प्रमत्तास्ते वयोऽतिक्रमणं नावगच्छन्ति, असंयमजीविते प्रमत्ताश्च विविधाः सत्त्वोपघातकारिणी क्रियाः समारभन्त इत्याह - स हन्ता, अत्र च बहुवचनप्रकमेऽपि जात्यपेक्षयैकवचननिर्देश इति, छेत्ता भेत्ता, लुम्पयिता, विलुम्पयिता, अपद्रावयिता, उत्त्रासकः, अकृतं करिष्यामीति मन्यमानो यैः सार्द्ध. संवसति ते वा एकदा तं पूर्वं पोषयन्ति, स वा तान् निजकान् पश्चात् पोषयेत, नालं ते तव त्राणाय वा शरणाय वा त्वमपि तेषां नालं त्राणाय वा शरणाय वेति ।।६७।।
एवं तावत् स्वजनो न त्राणाय स्वजनादपि धनं प्रियतरं तदपि न त्राणाय भवतीत्याह -
उवाइयसेसेण वा संनिहिसंनिचओ किजइ, इहमेगेसिं असंजयाण भोयणाए, तओ से एयगा रोगसमुप्पाया समुप्पजंति, जेहिं वा सद्धिं संवसइ ते वा णं एयगा नियगा तं पुब्बिं परिहरति, सो वा ते नियगे पच्छा परिहरिज्जा, नालं ते तव ताणाए वा सरणाए वा, तुमपि तेसिं नालं ताणाए वा सरणाए वा ॥६८॥
उपादितशेषेण उपभुक्तशेषेण वा सन्निधिसन्निचयः क्रियते, इहैकेषां असंयतानां भोगाय भोजनाय वा ततस्तस्य एकदा रोगसमुत्पादाः - ज्वरादि-प्रादुर्भावाः समुत्पद्यन्ते, यैर्वा सार्द्ध संवसति ते वा एकदा निजकास्तं पूर्वं परिहरन्ति, स वा तान् निजकान् पश्चात् परिहरेत् सेडुकवत्, नालं ते तव त्राणाय वा शरणाय वा. नापाजाल त्राणाय वा शरणाय वेति ।।६८।।
किमालम्ब्य रोगवेदनाः सोढव्या इत्याहजाणित्तु दुक्खं पत्तेयं सायं ॥६९॥ ज्ञात्वा दुःखं प्रत्येकं प्राणिनां सातं-सुखं वेति ।
यावच्च जराजीणं न निजाः परिवदन्ति, यावचानुकम्पया न पोषयन्ति, रागामासन परिहरन्ति तावदात्मार्थोऽनुष्ठेय इत्येतद्दर्शयति
अणभिक्कतं च खलु वयं संपेहाए ॥७०॥
श्री आचारागसूत्रम् (अक्षरगमनिका) *
२३
Page #33
--------------------------------------------------------------------------
________________
अनभिक्रान्तं च खलु वयः सम्प्रेक्ष्य “आयळं संमं -समणुवासेज्जासि" इत्युत्तरेण सूत्रेण सम्वन्धः, आत्महितं कुर्यादित्यर्थः ॥७०॥
किमनतिक्रान्तवयसैवात्महितमनुष्ठेयमुतान्येनापीति ? परेणापि लब्धावसरेणात्महित-. मनुष्ठेयमित्येतद्दर्शयति -
खणं जाणाहि पंडिए ॥७१॥
क्षणं - चारित्रावसरं जानीहि पण्डित ! ज्ञात्वा चाऽऽत्महितं कुर्यादित्युत्तरेण सूत्रेण सम्बन्धः ॥७१॥
किञ्च
जाव सोयपरिण्णाणा अपरिहीणा, नेत्तपरिण्णाणा अपरिहीणा, घाणपरिणाणा अपरिहीणा, जीहपरिण्णाणा अपरिहीणा, फरिसपरिण्णाणा अपरिहीणा इचेएहिं विरूवरूवेहिं पण्णाणेहिं अपरिहीणेहिं, आयटं संमं समणुवासिज्जासि त्ति बेमि ॥७२॥
___ यावत् श्रोत्रपरिज्ञानानि अपरिहीनानि, नेत्रपरिज्ञानानि अपरिहीनानि, घ्राणपरिज्ञानानि अपरिहीनानि, जिह्वापरिज्ञानानि अपरिहीनानि, स्पर्शपरिज्ञानानि अपरिहीनानि, इत्येतैः विरूपरूपैः प्रज्ञानैः अपरिहीनैः आत्मार्थं यदिवा आयतार्थं - अपर्यवसनाद् मोक्षार्थं यद्वा आयत्तार्थं - आयत्तत्वाद् मोक्षार्थं सम्यक् समनुवासयेत् - आत्मनि कुर्याः यदिवा रत्नत्रय्याऽऽत्मानं वासयेद् भावयेत् रञ्जयेदिति यावत् ॥७२।।
अध्ययनं २ : उद्देशकः २ ॥ . संयमे वर्तमानस्य कदाचिदरतिः स्यात् तद्व्युदासार्थमाह- . . अरइं आउट्टे से मेहावी खणंसि मुक्के ॥७३॥ ....... अरतिं आवर्तेत - अपवर्तेत स मेधावी एवं क्षणे क्षणेन वा मुक्तो .. भरतवदिति ॥७३॥ .. ... ये पुनरनुपदेशवर्तिनः कण्डरीकायास्ते चतुर्गतिकसंसारान्तवर्तिनो दुःखसागरमधिवसन्तीत्याह -
- अणाणाय पुट्ठावि एगे नियटृति, मंदा मोहेण पाउडा, अपरिग्गहा भविस्सामो समुट्ठाय लढे कामे अभिगाहइ, अणाणाए मुणिणो पडिलेहंति, इत्थ मोहे पुणो पुणो सन्ना नो हब्बोए नो पाराए ॥७॥
२४
* श्री आचाराङ्गसूत्रम् (अक्षरगमनिका)
Page #34
--------------------------------------------------------------------------
________________
अनाज्ञया
अनुपदेशेन स्त्र्यादिपरीषहोपसर्गेः स्पृष्टा एके निवर्तन्तेऽपि मन्दा मोहेन प्रावृत्ताः । अपरिग्रहा भविष्यामः अन्त्यव्रतोपादानात् शेषाण्यपि ग्राह्याणि स्वैरिण्या बुद्ध्या, इति समुत्थाय लब्धान् कामान् अभिगाहन्ते, अनाज्ञया मुनयः वेषविडम्बिनः कामोपायान् प्रत्युपेक्षन्ते, अत्र भावमोहे पुनः पुनः सन्नाः निमग्ना न हि अर्वाचे - आरातीयतीरदेश्याय गृहवाससौख्यायेत्यर्थः, न च पाराय-संयमाय, वान्तभोगाभिलाषितया यथोक्तसंयमाभावेन तत्क्रियाया विफलत्वात् । उभयभ्रष्टो न गृहस्थो नापि प्रव्रजित इत्यर्थः ॥७४॥
-
-
ये पुनप्रशस्तरतिनिवृत्ताः प्रशस्तरतिमधिशयानास्ते किंभूता भवन्तीत्याह
विमुत्ता खलु ते जना ये जना पारगामिणो, लोभमलोभेण दुगुंछमाणे लद्धे कामे नाभिगाइ ॥ ७५ ॥
विमुच्यमाना विमुक्ताः खलु ते जना ये जनाः पारगामिनः संयमानुष्ठायिनः कथमित्याह लोभमलोभेन जुगुप्समानो - निन्दन् परिहरन् वा लब्धान् कामान् नाभिगाहत इति ॥ ७५ ॥
तदेवं कुतश्चिनिमित्तात् सहापि लोभादिना निष्क्रम्य पुनर्लोभादिपरित्यागः कार्यः, अन्यस्तु लोभं विनापि प्रव्रज्यां प्रतिपद्यत इति दर्शयति -
विणावि लोभं निक्खम्म एस अकम्मे जाणइ पासइ पडिलेहाए नावकखइ, एस अणगारिति पञ्चइ अहो य सओ परितप्यमाणे कालाकालसमुट्ठाई संजोगट्ठी अट्ठालोभी आलूंपे सहक्कारे विणिविट्ठचित्ते, इत्थ सत्थे पुणो पुणो से आयबले, से नाइबले से सयणबले, से मित्तबले से पिच्चबले, से देवबले, से रायबले, से चोरबले, से अतिहिबले से किविणबले, से समणबले इचेएहिं विरूवरूवेहिं कज्जेहिं दंडसमायाणं संपेहाए भया कज्जइ, पावमुक्खुत्ति मन्नमाणे अदुवा आसंसा ॥ ७६ ॥ -
भरतराजवत् विनापि लोभं निष्क्रम्य एषः अकर्मा जानाति पश्यति, 'विणइत्तु लोभं' पाठान्तरमाश्रित्य विनीय लोभमित्यर्थ । अन्यच्च प्रत्युपेक्षणया - पर्यालोचनया विषयादि नावकाङ्क्षति एषः अनगार इति प्रोच्यते । गृद्धो लोकस्तु अहश्च रात्रिं च परितप्यमानः कालाकालसमुत्थायी संयोगार्थीअर्थाऽऽलोभी आलुम्पः सहसाकारो विनिविष्टचित्तो विनिविष्टचेष्टो वा, अत्र शस्त्रे पुनः पुनः प्रवर्तते । तद् आत्मबलं मे भावीतिकृत्वा इत्यस्य
श्री आचासङ्गसूत्रम् (अक्षरगमनिका ) * २५
Page #35
--------------------------------------------------------------------------
________________
सर्वत्रानुवृत्तिः तद् ज्ञातिबलं तद् मित्रबलं तत् प्रेत्यबलं तद् देवबलं तद् राजबलं, तत् चोरबलं, तद् अतिथिबलं, तत् कृपणबलं, तत् श्रमणबलं मे भावीतिकृत्वैतैर्विरूपरूपैः कार्यैर्दण्डसमादानं सत्त्वोपघातं क्रियते । अन्यथा तदात्मबलादिकं मे न भावीति संप्रेक्षया आलोचनया भयात् क्रियते । पापमोक्ष इत्यपि मन्यमानः अथवाऽऽशंसया अप्राप्तप्रापणाभिलाषयापि सत्त्वोपघातकारिणीक्रियासु प्रवर्तत इति ॥ ७६ ॥
तदेवं ज्ञात्वा किं कर्तव्यमित्याह -
तं परिणाय मेहावी नेव सयं एएहिं कज्जेहिं दंडं समारंभिज्जा, णेव अन्नं एएहिं कजेहिं दंडं समारंभाविज्जा, एएहिं कज्जेहिं दंडं समारंभंतंपि अन्नं न समणुजाणिज्जा, एस मग्गे आरिएहिं पवेइए, जहेत्थ कुसले नोवलिंपिज्जासित्ति बेमि ॥७७॥ ॥ इति द्वितीय उद्देशकः ॥ २-२ ॥
तत् परिज्ञाय मेधावी नैव स्वयं एतैः कार्यैर्दण्डं समारभेत, नैव अन्यम् एतैः कार्येर्दण्डं समारम्भयेत्, एतैः कार्यैर्दण्डं समारभमाणम् अन्यं न समनुजानीत एष मार्ग आर्यैः तीर्थकृद्भिः प्रवेदितः, यथाऽत्र आत्मबलोपधानादिकेषु कार्येषु समुपस्थितेषु सत्सु दण्डसमादानं परिहरन् तजनितकर्मणा त्वं कुशलो नोपलिम्पयेरिति ब्रवीमि ॥७७॥
॥ अध्ययनं - २ उद्देशकः-३ ॥
-
भणितः कषायविषयात्मको भावलेपः अत्रापि कषाया वर्ण्यन्ते
से असई उच्चागोए असई नीआगोए, नो हीणे नो अइरित्ते नोऽपीहए, इय संखाय को गोयावाइ को माणावाइ ? कंसि वा एगे गिज्झा, तम्हा नो हरिसे नो कुप्पे, भूएहिं जाण पडिलेह सायं ॥ ७८ ॥
२६
-
स असकृद् उच्चैर्गोत्रे उत्पन्नः असकृद् नीचैर्गोत्रे उत्पन्नः, तदेवं न मानो विधेयो नापि दीनता, उच्चावच्चयोर्गोत्रयोर्बन्धाऽध्यवसायस्थानकण्डकानि तुल्यानीति, उच्चैर्गोत्रकण्डकार्थतयाऽसुभृत् न हीनो नातिरिक्तः । नागार्जुनीयास्तु पठन्ति एगमेगे खलु जीवे अइअद्धाए असई उच्चागोए असई नीआगोए - कंडगट्ट्याए नो हीनो नो अइरित्त उक्तार्थ एव, एवं सति किमपि मदस्थानं न ईहेताऽपि न स्पृहयेदपि । एवमसकदुच्चावच्चस्थानोत्पादादिकं संख्याय - ज्ञात्वा को गोत्रवादी भवेत् ? तथोच्चैर्गोत्रनिमित्तं
* श्री आचाराङ्गसूत्रम् ( अक्षरगमनिका )
Page #36
--------------------------------------------------------------------------
________________
को मानवादी भवेत् ? कस्मिन् उच्चैर्गोत्रादिकेऽनवस्थितस्थानके वा एको गृद्धयेत् ? तस्मान्न हृष्येन कुप्येत्, भूतेषु प्रत्युपेक्ष्य जानीहि सातम् असातमपि ॥७८॥
सर्वोऽपि प्राणी साताभिलाष्यसातं च जुगुप्सते, अथवा भूतेषु शुभाशुभरूपं कर्म्म प्रत्युपेक्ष्य यत्तेषामप्रियं तन्न विदध्यात् इत्ययमुपदेशः -
समिए एयाणुपस्सी तं जहा, अन्धत्तं बहिरत्तं मूयत्तं काणत्तं कुंटत्तं खुजत्तं वडभत्तं सामत्तं सबलत्तं सह पमाएणं अणेगरूवाओ जोणीओ संधायइ विरूवरूवे फासे परिसंवेयइ ॥ ७९ ॥
नागार्जुनीयास्तु पठन्ति - पुरिसे णं खलु दुक्खुव्वेअ सुहेस "
पुरुषः संसारिजीवो दुखात् उद्वेगवान् सुखस्य चैषक एव । अतः प्रतिप्राणि आत्मौपम्येनाऽऽचरता तदुपमर्दकानि हिंसादिस्थानान परिहृत्याऽऽत्मा च पञ्चमहाव्रतेष्वास्थेयः, तत्परिपालनार्थं चोत्तरगुणा अप्यनुशीलनीयाः तदर्थमुपदिश्यते
समितिभिः समितः एतदनुदर्शी, तद्यथा - अन्धत्वं बधिरत्वं मूकत्वं काणत्वं कुण्टत्वं कुब्जत्वं वडभत्वं श्यामत्वं, शबलत्वं च कर्मवशगो भूरिशः परिसंवेदयते । किञ्च सह प्रमादेन अनेकरूपा योनीः संदधाति - संधावति वा, तासु च विरूपरूपान् दुःखस्पर्शान् परिसंवेदयते ॥ ७९ ॥
-
तदेवमुचैर्गोत्रोत्थापितमानोपहतचेता नीचैर्गोत्रविहितदीनभावो वाऽन्धबधिरमूकत्वादिप्राप्तः अनवगततत्त्वो मूढत्तत्रैबोञ्चैर्गोत्रादिके विपर्यासमुपैति आह च
से अबुज्झमाणे हओवहए जाइमरणं अणुपरियट्टमाणे, जीवियं पुढो पियं इहमेगेसिं माणवाणं खित्तवत्थुममायमाणाणं, आरतं विरत्तं मणिकुंडलं सह हिरण्णेण इत्थियाओ परिगिज्झति तत्थेव रत्ता, न इत्थ तवो वा दमो वा नियमो वादिस्सइ, संपुष्णं बाले जीविउकामे लालप्पमाणे मूढे विप्यरियासमुबेइ ॥८०॥
स कर्मविपाकादिकम् अनवबुध्यमानो हतोपहतो जातिमरणम् अनुपरिवर्तमानो विपर्यासमुपैति जीवितम् असंयमजीवितं वा प्रत्येकं प्रियम्, इहैकेषां मानवानां क्षेत्र- वास्तु- ममायमानानां तत्क्षेत्रादिकं प्रेयः, किंच आरक्तं विरक्तं मणिकुण्डलं सह हिरण्येन स्त्रीः परिगृह्य तत्रैव रक्ताः सक्ता वदन्ति च “ नात्र तपो वा दमो वा नियमो वा फलवान् दृश्यते" । सम्पूर्णं
-
. बालो जीवितुकामो लालप्यमानो मूढो विपर्यासमुपैति ||८०||
श्री आचाराङ्गसूत्रम् (अक्षरगमनिका ) * २७
Page #37
--------------------------------------------------------------------------
________________
ये पुनरुन्मज्जत्शुभकर्मापादिताध्यवसायपुरस्कृतमोक्षास्ते किंभूता भवन्तीत्याह
इणमेव नावकखंति, जे जणा धुवचारिणो । जाइमरणं परिण्णाय, चरे संकमणे दढे, नत्थि कालस्स णागमो, सब्वे पाणा पियाउया सुहसाया दुक्खपडिकूला अप्पियवहा पियजीविणो जीविउकामा, सव्वेसिं जीवियं पियं, तं परिगिज्झ दुपयं चउप्पयं अभिजुंजिया णं संसिंचिया णं तिविहेण जाऽवि से तत्थ मत्ता भवइ अप्पा वा बहुया वा, से तत्थ गड्ढिए चिट्ठइ, भोअणाए, तओ से एगया विविहं परिसिट्ठ संभूयं महोवगरणं भवइ, तंपि से एगया दायाया वा विभयन्ति, अदत्तहारो वा से अवहरति, रायाणो वा से विलुंपंति, नस्सइ वा से, विणस्सइ वा से, अगारदाहेण वा से डज्झइ, इय से परस्सऽट्ठाए कूराई कम्माई बाले पकुव्यमाणे तेण दुक्खेण संमूढे विप्परियासमुवेइ, मुणिणा हु एयं पवेइयं, अणोहंतरा एए नो य ओहं तरित्तए, अतीरंगमा एए नो य तीरं गमित्तए, अपारंगमा एए नो य पारं गमित्तए, आयाणिज्जं च आयाय तंमि ठाणे न चिट्ठइ, वितहं पप्पsखेयन्ने तंमि ठाणंमि चिट्ठइ ॥८१॥
इदमेव - पूर्वोक्तं सम्पूर्णजीवितं क्षेत्राङ्गनापरिभोगादिकं वा नावकाङ्क्षन्ति ये ना ध्रुवचारिणो ध्रुवः - मोक्षो धूतं वा चारित्रं तच्चारिणो धूतचारिणो वा । जातिमरणं परिज्ञाय चरेत् सङ्क्रमणं - चारित्रं दृढः सन् यदि वा अशङ्कमनाः सन् संजमं चरेत् यतो नास्ति कालस्य - मृत्योः अनागमः सर्वे पाणिनः प्रियायुष्काः, 'सव्वेपाणा पियायया” इति पाठान्तरमाश्रित्य प्रियायताःआयतः आत्माऽनाद्यनन्तत्वात् स प्रियो येषां ते तथा सुखास्वादा दुःखप्रतिकुला अप्रियवधाः प्रियजीविनः प्रियमायुष्यकमसंयमजीवितं वा येषां ते तथा, जीवितुकामाः, सर्वेषां जीवितं असंयमजीवितं प्रियं, तदसंयमजीवितं परिगृह्य आश्रित्य द्विपदं चतुष्पदम् अभियुज्य - व्यापार्य अर्थनिचयं संसिंच्य संवर्ध्य त्रिविधेन - योगत्रिककरणत्रिकेन याऽपि तस्य
-
-
-
ततस्तस्य
आरम्भिण; तत्र द्विपदाद्यारम्भे मात्रा अर्थमात्रा भवति अल्पा वा बहुका वा, स अर्थवान् तत्र गृद्धस्तिष्ठति भोजनाय भोगाय वा भविष्य । गृद्धस्य एकदा विविधं परिशिष्टं सम्भूतं परिभोगाङ्गत्वात् महोपकरणं भवति, तदपि स्वोपभोगायोपार्जितमपि तस्य दायादा वा विभजन्ते अदत्तहारो - दस्युर्वा तस्य गृद्धस्य अपहरति, राजानो
गृद्धस्य एकदा
वा तस्य विलुम्पन्ति, नश्यति वा तस्य, तस्य दह्यते, एवं स परस्य
विनश्यति वा तस्य, अगारदाहेन वा अर्थाय क्रूराणि कर्माणि बालः
२८
-
-
-
-
* श्री आचाराङ्गसूत्रम् ( अक्षरगमनिका )
-
Page #38
--------------------------------------------------------------------------
________________
प्रकुर्वाणस्तेन-कर्मविपाकापादितेन दुःखेन सम्मूढो विपर्यासमुपैति, मुनिना तीर्थकृता खलु एतत् प्रवेदितं, अनोघन्तरा एते - कुतीर्थकाः पार्श्वस्थादयो वा, न च ओघं - संसारम् अष्टप्रकारं कर्म वा तरितुं समर्थाः, अतीरंगमा एते न च तीरं मोहनीयक्षयं घातिचतुष्टयापगमं वा गन्तुं समर्थाः, अपारंगमा एते न च पारं - मोहनीयातिरिक्तशेषघातिक्षयं भवोपग्राह्यभावं वा गन्तुं समर्थाः, आदानीयं च श्रुतं भोगाङ्गकर्म वाऽऽदाय तस्मिन् श्रुतोक् संयमस्थाने न तिष्ठति, वितथमुपदेशं प्राप्यऽखेदज्ञः खेदज्ञो वा तस्मिन् साम्प्रतेक्ष्युपदिष्टेऽसंयमस्थाने तिष्ठति । अथवा वितथम् आदानीयंभोगाङ्गव्यतिरिक्तं संयमस्थानं प्राप्य / खेदज्ञः तस्मिन् सर्वज्ञाज्ञारूपे स्थाने तिष्ठतीति ॥८१॥
-
-
अयं चोपदेशोऽनवगततत्वस्य विनेयस्य यथोपदेशं प्रवर्तमानस्य दीयते, यस्त्ववगतहेयोपादेयविशेषः स यथावसरं यथाविधेयं स्वत एव विधत्ते इत्याह च
उद्देसो पासगस्स नत्थि, बाले पुण निहे कामसमणुन्ने असमियदुक्खे दुक्खी दुक्खाणमेव आवट्टं अणुपरियदृइ त्ति बेमि ॥ ८२ ॥
-
नास्ति, बालः पुनः निहः
उपदेश उद्देशो वा नारकादिव्यपदेशो वा पश्यकस्य सर्वज्ञस्य तदुपदेशवर्तिनो वा परीषहोपसर्गैर्निहन्यत इति यदि वा स्निहः-स्नेहवान् रागीति यावत् कामसमनोज्ञः कामाः सम्यग् मनोज्ञा यस्य स यद्वा कामैः सह मनोज्ञः यदिवा कामान् सम्यगनु-पश्चात् स्नेहानुबन्धाज्जानाति सेवत इति कामसमनुज्ञः, एवभूतश्च किंभूतो भविष्यतीत्याह अशमितदुःखो दुःखी दुःखानामेव आवर्तम् अनुपरिवर्तते ।। इति ब्रवीमि ॥ ८२ ॥
॥ अध्ययनं - २ उद्देशकः -४ ॥
दुःखी दुक्खाणमेव आवट्टे अणुपरियटइ इति अनन्तरोक्तं तानि चामूनि दुःखानि 'तओ से' इत्यादिनोच्यन्ते
तओ से एगया रोगसमुप्पाया समुप्पज्जंति, जेहिं वा सद्धिं संवसइ ते व णं एगया नियया पुव्विं परिवयंति, सो वा ते नियगे पच्छा परिवइज्जा, नालं ते तव ताणाए वा, सरणाए वा, तुमंपि तेसिं नालं ताणाए वा, सरणाए वा, जाणित्तु दुक्खं पत्ते सायं, भोगा मे व अणुसोयन्ति इहमेगेसिं माणवाणं ॥ ८३ ॥
ततस्तस्य एकदा रोगसमुत्पादाः समुत्पद्यन्ते, यैर्वा सार्द्धं संवसति ते
श्री आचाराङ्गसूत्रम् (अक्षरगमनिका) * २९
Page #39
--------------------------------------------------------------------------
________________
एव एकदा निजकाः पूर्वं परिवदन्ति परिभवन्ति निन्दन्ति वा स वा तान् निजकान् पश्चात् परिवदेत् - निन्देत् नालं ते तव त्राणाय वा शरणाय वा, त्वमपि तेषां नालं त्राणाय वा शरणाय वा ज्ञात्वा दुःखं प्रत्येकं सातं सुखं वा । न केवलं स्वजना दुःखकारणं, किन्तु भोगा अपि तदाह - भोगा मे वा इति अनुशोचयन्ति । ईदृक्षश्चाध्यवसायो न सर्वेषां सनत्कुमारादीनाम्, अपितु इहैकेषां मानवानां ब्रह्मदत्तादीनां भवति ॥ ८३ ॥
अपि च - भोगानां प्रधानं कारणमर्थोऽतस्तत्स्वरूपमेव निर्दिदिक्षुराह
तिविहेण जाऽवि से तत्थ मत्ता भवइ अप्पा वा बहुगा वा, से तत्थ गढिए चिट्ठइ भोयणाए, तओ से एगया विपरिसिट्ठ संभूयं महोबगरणं भवइ, तंपि से एगया दायाया विभयंति, अदत्तहारो वा से हरति, रायाणो वा से विलुंपति नस्सइ वा से, विणस्सइ वा से, अगारदाहेण वा से डज्झइ, इय से परस्स अट्ठाए कूराणि कम्माणि बाले पकुव्वमाणे तेण दुक्खेण मूढे विप्परयासमुवे ॥८४॥
त्रिविधेन सचिताचित्तमिश्रभेदेन याऽपि तस्य
आरम्भिणः तत्र
आरम्भे मात्रा अर्थमात्रा भवति अल्पा वा बहुका वा स आरम्भी तत्र गृद्धस्तिष्ठति भोजनाय भोगाय वा भविष्यतीति मन्यमानः, ततः तस्यैकदा विपरिशिष्टं सम्भूतं महोपकरणं भवति तदपि स्वोपभोगायोपार्जितमपि तस्यैकदा दायादा विभजन्ते अदत्तहारो दस्युर्वा तस्य हरति, राजानो वा तस्य विलुम्पन्ति, नश्यति वा तस्य, विनश्यति वा तस्य, अगारदाहेन वा तस्य दह्यते, एवं स परस्मै अर्थाय क्रूराणि कर्माणि बालः प्रकुर्वाणस्तेन दुःखेन मूढो विपर्यासमुपैति ॥ ८५॥
-
-
-
-
-
* श्री आचाराङ्गसूत्रम् (अक्षरगमनिका )
-
तदेवं दुःखविपाकान् भोगान् प्रतिपाद्य यत् कर्तव्यं तदुपदिशतीत्याह
आसं च छन्दं च विगिंच धीरे !, तुमं चेव तं सल्लमाहट्टु जेण सिया तेण नो सिया, इणमेव नावबुज्झति जे जणा मोहपाउडा, थीभि लोए पव्वहिए, ते भो ! वयंति एयाई आययणाई से दुक्खाए मोहाए माराए नरगाए नरगतिरिक्खाए, सययं मूढे धम्मं नाभिजाणइ, उआहु वीरे, अप्पमाओ महामोहे, अलं कुसलस्स पमाएणं, संतिमरणं संपेहाए भेउरधम्मं संपेहाए नालं पास अलं ते एहिं ॥ ८५ ॥
Page #40
--------------------------------------------------------------------------
________________
आशां च छन्दम् - इच्छां च वेविक्ष्व त्यज धीर ! त्वमेव तत् भोगादिलक्षणं शल्यम् आहृत्य - स्वीकृत्य परमशुभमादत्से न तु पुनरुपभोगं यतो भोगोपभोगो येनाऽर्थादिना स्यात्तेन नापि स्यात्, विचित्रत्वात् कर्मपरिणतेः । अथवा येन केनचित् हेतुना कर्मबन्धः स्यात्तत्र न वर्तेत । यदिवा येनैव राज्यभोगादिना कर्मबन्धो येन वा निर्ग्रन्थत्वादिना मोक्षः स्यात्तेनैव तथाभूतपरिणामवशात् न स्यात् इदमेव नावबुध्यन्ते ये जना मोहप्रावृत्ताः । स्त्रीभिर्लोकः प्रव्यथिता मोहनीयस्य च तद्भेदकामानां च स्त्रियः प्रबलकारणमिति, ते - स्त्रीभिः प्रव्यथिता भो ! वदन्ति - एतानि - स्त्र्यादीनि आयतनानि उपभोगास्पदभूतानि । एतत् तेषां प्रव्यथनम् इत्थमुपदेशदानं वा दुःखाय मोहाय मरणाय नरकाय नरकतिरश्चे जायते । सततं मूढो धर्मं नाभिजानाति, उदाह वीरः तीर्थकृत् अप्रमादः कर्तव्यो महामोहे अङ्गनाऽभिष्वङ्गे महामोहकारणत्वात्, अलं कुशलस्य प्रमादेन, शान्तिः - मोक्षः, मरणं च संसार एतयोः समाहारः अथवा शान्त्या मरणं शान्तिमरणं तच्च संप्रेक्ष्य, किंच नालम् एतत् पश्य अलं भावैर्विषयैरुपभोगैरिति ॥ ८५ ॥
भिदुरधर्म्यं शरीरं संप्रेक्ष्य । भोगास्तृप्त तव एभिः प्रमादमयैर्दुःखकारणस्व
—1
-
-
-
-
तदेवं भोगलिप्सूनां तत्प्राप्तावप्राप्तौ च दुःखमेवेति दर्शयति
एयं परस मुणी ! महत्भयं नाइवाइज कंचणं एस वीरे पसंसिए जे न निव्विज्जइ आयाणाए, न मे देइ न कुपिज्जा थोवं लद्धुं न खिसए, पडिसेहिओ परिणमिज्जा, एयं मोणं समणुवासिज्जासि त्ति बेमि ॥ ८६ ॥
-
एतत्-कामदशावस्थात्मकं पश्य मुने ! महद्भयं नातिपातयेत् कञ्चन, एष - आशाछन्दविवेचको वीरः प्रशंसितः, यो न निर्विद्यते-खिद्यते आदानाय संयमानुष्ठानाय, भिक्षाटनादि कुर्वन् क्वचिदलाभादौ न मे ददातीति न कुप्येत्, स्तोकं लब्ध्वा न निन्देत् प्रतिषिद्धः परिणमेत्- अपगच्छेत् । एतत् मौनं प्रवज्याऽनिर्वेदरुपं अदानाकोपनं स्तोकाऽजुगुप्सनं प्रतिषिद्धनिवर्तनं च मुनिभावं समनुवासयेः - सम्यग् अनुपालयेति ब्रवीमि ||८६||
॥ अध्ययनं - २ उद्देशकः -५ ॥
त्यक्तभोगेन संयमदेहपालनार्थं लोकनिश्रया विहर्तव्यम्, लोकश्चाऽऽत्मीयपरिवारार्थमारम्भे प्रवृत्तस्तत्र साधुना वृत्तिरन्वेषणीयेति दर्शयति-
श्री आचाराङ्गसूत्रम् (अक्षरगमनिका) * ३१
Page #41
--------------------------------------------------------------------------
________________
जमिणं विरूवरूवेहिं सत्थेहिं लोगस्स कम्मसमारंभा कजंति, तं जहा अप्पणो से पुत्ताणं, धूयाणं, सुण्हाणं, नाइणं, धाइणं, राइणं, दासाणं, दासीणं, कम्मकराणं, कम्मकरीणं, आएसाए, पुढोपहेणाए, सामासाए, पायरासाए, संनिहिसंनिचओ कज्जइ, इहमेगेसिं माणवाणं भोयणाए ॥८७॥
- यैर्यद् वा इदं - सुखदुःखप्राप्तिपरिहारत्वमुदिश्य विरूपरूपैः शस्त्रैः लोकाय लोकेन वा कर्मसमारम्भाः - कृषिवाणिज्यादिरुपसंरम्भसमारम्भारम्भाः क्रियन्ते, तद्यथा-आत्मने-शरीराय, तस्य पुत्रेभ्यः, दुहितृभ्यः, स्नुषाभ्यः, ज्ञातिभ्यः, धात्रीभ्यः, राजभ्यः, दासेभ्यः, दासीभ्यः, कर्मकरेभ्यः, कर्मकरीभ्यः, आदेशाय-प्राघूर्णकाय, पृथक् पृथक् पुत्रादिभ्यः प्रहेणकार्थं - खाद्योपायनार्थं, श्यामाशाय - रजनीभोजनाय, प्रातराशाय सन्निधिसन्निचयः क्रियते इहैकेषां मानवानां भोजनाय । अतस्तस्मिन् लोके साधुर्वृत्तिमन्वेषयेदिति ॥८॥
किंभूतेन साधुना कथं वृत्तिरन्वेषणीयेत्याह -
समुट्ठिए अणगारे आरिए आरियपन्ने आरियदंसी अयं संधित्ति अदक्खु, से नाइए नाइयावए न समणुजाणइ, सव्वामगंधं परिन्नाय निरामगंधो परिव्वए ॥८८॥
समुत्थितः अनगार आर्यः - चारित्रार्हः आर्यप्रज्ञ आर्यदर्शी अयं संधिः - सर्वाः प्रत्युपेक्षणादिक्रिया अन्योन्याऽबाधयाऽऽत्मीय-कर्तव्यकाले करोतीत्यर्थः, अयं संधिमदक्खु इति पाठान्तरमाश्रित्य अयं-साधुः सन्धि - कर्तव्यासरं अद्राक्षीत्, स नाददीत अकल्प्यं, सइंगालं सधूमं वा नाऽद्याद् वा नाऽऽदापयेत् नाऽऽदयेद् वा । आददानं अदन्तं वा न समनुजानीयात् । सर्वामगन्धम्आमम्-अपरिशुद्धम् एतेन विशुद्धकोटिरुपात्ता, गन्धः- पूतिरित्यनेनाऽविशुद्धकोटिग्रहणं, तत्सर्वं परिज्ञाय निरामगन्धः परिव्रजेदिति ॥८८॥
अनन्तरोक्तसूत्रे “निरामगन्धो परिव्रजेदित्युक्तं तत्र व्याख्यान्तरेण आमग्रहणेन हननकोटिनयं गन्धग्रहणेन च पचनकोटित्रिकमुपात्तं क्रयणकोटित्रिकं तु पुनः स्वरुपेणैवोच्यते
अदिस्समाणे कयविक्कयेसु, से ण किणे, न किणावए, किणंतं न समणुजाणइ, से भिक्खू कालन्ने, बालन्ने, मायन्ने, खेयन्ने, खणयन्ने, विणयन्ने स-समय-पर-समयन्ने, भावन्ने, परिग्गहं अममायमाणे कालाणुट्ठाइ अपडिण्णे ॥८९॥
३२
* श्री आचाराङ्गसूत्रम् (अक्षरगमनिका)
Page #42
--------------------------------------------------------------------------
________________
अदृश्यमान आकिञ्चन्यात् यदिवा अदिश्यमानः क्रीतकृताऽपरिभोगात् क्रयविक्रययोः स न क्रीणीयात् न क्रापयेत् क्रीणन्तं न समनुजानीयात् स भिक्षुः कालज्ञो बलज्ञः छान्दसत्वाद्दीर्घत्वं मात्राज्ञः खेदज्ञः क्षेत्रज्ञो वा क्षणज्ञो विनयज्ञः स्वसमयपरसमयज्ञो भावज्ञः परिग्रहम् अममायमानःमनसाऽप्यनाददानः कालानुष्ठायी अप्रतिज्ञः . कषायप्रधानप्रतिज्ञारहितः अनिदानो वेति ॥८९।।
अनेषणीयग्रहणभोगोपभोगप्रतिज्ञा च रागद्वेषाभ्यां भवत्यतस्तां छित्त्वा परिव्रजतीत्याह -
दुहओ छेत्ता नियाइ, वत्थं, पडिग्गहं, कंबलं, पायपुंछणं, उग्गहणं च कडासणं एएसु चेव जाणिज्जा ॥१०॥
द्विधा रागेण द्वेषेण वा या प्रतिज्ञा तां छित्त्वा नियाति-नियतं याति, वस्त्रं पतद्ग्रहं कम्बलं पादपुञ्छनं, अवग्रहः-वसतिश्च कटाऽऽसनम् एतेषु - स्वारम्भप्रवृत्तेषु गृहस्थेषु चैव जानीयात्-निर्दोषचर्यया परिव्रजेदिति भावः ।।९०॥ ___ एतेषु च स्वारम्भप्रकृतेषु गृहस्थेषु परिव्रजन यावल्लाभं गृहणीयादुत कश्चिनियमोऽप्यस्ति ? अस्तीत्याह
लद्धे आहारे अणगारो मायं जाणिज्जा, से जहेयं भगवया पवेइयं, लाभुत्ति । न मजिजा, अलाभुत्ति न सोइज्जा, बहुपि लद्धं न निहे, परिग्गहाओ अप्पाणं अवसकिज्जा ॥९१॥ ___लब्धे आहारे मात्रां- परिमाणं जानीयात् यथैतत्-परिमाणं भगवता प्रवेदितं, किञ्च- लाभ इति न माद्येत्, अलाभ इति न शोचेत्, बह्वपि लब्ध्वा न निदध्यात् - आहारसन्निधिं न कुर्यात् अपरमपि वस्त्रपात्रादिकं संयमोपकरणातिरिक्तं न बिभृयादित्याह-परिग्रहात् आत्मानम् अवष्वष्केद्अपसर्पयेदिति ॥९१॥
आह च -
अन्नहा णं पासए परिहरिज्जा, एस मग्गे आयरिएहिं पवेइए, जहित्थ कुसले नोवलिंपिज्जासि त्ति बेमि ॥१२॥
अन्यथा - आचार्यसत्कमिदमुपकरणं न ममेत्यनेन प्रकारेण पश्यकः सन् परिग्रहं परिहरेत् - त्यजेत् । धर्मोपकरणं न परिग्रहायेति एष मार्ग आर्यैः प्रवेदित इति तथा विधेयं यथाऽत्र कुशल ! नोपलिम्पयेरिति ब्रवीमि ।।९२।।
श्री आचाराङ्गसूत्रम् (अक्षरगमनिका) *
३३
Page #43
--------------------------------------------------------------------------
________________
परिग्रहमूलं च शब्दादिपञ्चगुणानुगामिनः कामाः, तेषां चोच्छेदः असुकरो यत आह कामा दुरतिक्कमा, जीवियं दुप्पडिबूहगं, कामकामी खलु अयं पुरिसे, से सोयइ जूरइ तिप्पइ परितप्पइ ॥९३॥
कामा दुरतिक्रमाः, जीवितं संयमजीवितं वा दुष्प्रतिबृंहकं कामानुषक्तजनाऽन्तर्वर्तिना दुःखेन वृद्धिं नीयते, दुःखेन निष्कलङ्कसंयमः प्रतिपाल्यत इति, कामकामी कामाभिलाषी खलु अयं पुरुषः अविरतचेताः शोचति शोकमनुभवति शोचते वा प्रलपति वा, जूर्यते हृदयेन खिद्यते, तेपते मर्यादातो भ्रश्यति तथा शारीरमानसैर्दुःखैः परितप्यते पश्चातापं वा करोति ॥९३॥
-
कः पुनरेवं न शोचत इत्याह
आययचक्खू लोगविपस्सी लोगस्स अहो भागं जाणइ, उड्ढं भागं जाणइ, तिरियं भागं जाणइ, गड्ढिए लोए अणुपरियट्टमाणे, संधिं विइत्ता इह मच्चिएहिं, एस वीरे पसंसिए जे बद्धे पडिमोयए, जहा अंतो तहा बाहिं, जहा बाहिं तहा अंतो, अंतो अंतो पूइदेहंतराणि पासइ, पुढोवि सवंताई पंडिए पडिलेहाए ॥ ९४॥
-
ऐहिकामुष्मिकापायदर्शित्वात् आयतचक्षुः लोकविदर्शी लोकस्य अधोभागं जानाति, ऊर्ध्वभागं जानाति, तिर्यग्भागं जानाति, किंच - गृद्धो लोकोऽनुपरिवर्तमान इत्यपि जानाति, यदि वा गृद्धान् लोके -संसारे पश्येत्युपदेशः । मर्त्येषु एव-मनुष्येष्वेव सन्धिं ज्ञानादिकं भावसन्धि सम्पूर्णं विदित्वा यो विषयकषायादीन् परित्यजति एष वीरः प्रशंसितो यश्च बद्धान् प्रतिमोचयति, यथा अन्तः- भावबन्धनमष्टप्रकारकर्मनिगडनं विषयाभिष्वङ्गं वा तथा बहिर्बन्धुबन्धनं मोचयति । बहिर्यथा तथाऽन्तरपि । अन्तोऽन्तः पूतिदेहान्तराणि इह मांसमिह रुधिरमिह मेदो मज्जा चेत्येवमादि पश्यति पृथक पृथक् अपि स्रवन्ति, अपि शब्दात् कुष्ठाद्यवस्थायां यौगपद्येनापि स्रवन्तीति पण्डितः प्रत्युपेक्षेत | ॥९४॥ |
तदेवं पूतिदेहान्तराणि पश्यन् पृथगपि स्रवन्ति इति एवं प्रत्युपेक्ष्य किं कुर्यादित्याह -
से मइमं परिन्नाय मा यहु लालं पच्चासी, मा तेसु तिरिच्छमप्पाण-मावायए, कासंकासे खलु अयं पुरिसे, बहुमाई कडेण मूढे, पुणो तं करेइ लोहं, वेरं वड़्ढेइ अप्पणो, जमिणं परिकहिज्जइ इमस्स चेव पडिबूहणयाए, अमरायइ महासड्ढी अट्टमेयं तु पेहाए अपरिण्णा कंदइ ॥ ९५ ॥
-
३४
* श्री आचाराङ्गसूत्रम् (अक्षरगमनिका )
Page #44
--------------------------------------------------------------------------
________________
स मतिमान् देहस्वरूपं कामस्वरूपं च परिज्ञाय मा च लालां निर्गतामपि बालः पुनरश्नाति एवं त्वं त्यक्तान् भोगान् मा प्रत्यशान, प्रत्याशी-प्रत्यशनशीलः सन् मा तेषु-ज्ञानादिषु तिरश्चिनं-प्रतिकूलम् आत्मानमापादयेः, यतः कासंकासः - इदमहमकार्षम् इदं करिष्ये इत्येवं किंकर्तव्यतामूढः प्राकृतशैल्या कासंकासः दधिघटिकाद्रमकवत् अथवा कस्यते-हिंस्यतेऽस्मिन्निति कासः-संसारस्तदभिमुखं कषति यातीति कासंकषः । खलु अयं पुरुषो बहुमायी कृतेन मूढः मम्मणवणिक्वत् पुनस्तत् परवञ्चनबुद्ध्या लोभाद्यनुष्ठानं करोति, अथवा लोभं करोति तथा वैरं वर्धते आत्मनः । यदिदं प्राणघातादिनाऽऽत्मनो वैरं वर्धते तद् अस्य-विशरारोः शरीरस्यैव परिबृंहणार्थ- पुष्ट्यर्थं जीवः प्राणिघातादिकाः क्रियाः करोतीति, यदिवा यदिदं उपदेशप्रायं पौनःपुन्येन मया परिकथ्यते तदस्य-संयमस्यैव परिबंहणार्थ-स्फात्यर्थमिति । किञ्च-स कासंकासः अमरायते-अजरामरदत् क्रियासु प्रवर्तते यतो महाश्रद्धी भोगेषु तदपायेषु वा महतीश्रद्धावान् । अत एव आर्तः । आर्तमेतं तु प्रेक्ष्य कामार्थयोर्मनो न विधेयमिति । पुनः अमरायमाणो भोगश्रद्धावान् कामस्वरुपं तद्विपाकं वाऽपरिज्ञाय क्रन्दत इति ।।९५।।
तदेवम् अनेकधा कामविपाकमुपदर्य उपसंहरति -
से तं जाणह जमहं बेमि, तेइच्छं पंडिए पवयणमाणे से हंता छित्ता भित्ता लुंपइत्ता विलुपइत्ता उद्दवइत्ता, अकडं करिस्सामित्ति मन्नमाणे, जस्सवि य णं करेइ, अलं बालस्स संगेणं, जे वा से कारइ बाले, न एवं अणगारस्स जायइ त्ति बेमि ॥१६॥
___ तत्-तस्मात् तम्-उपदेशं कामपरित्यागविषयं जानीत यमहं ब्रवीमिचिकित्सां - कामचिकित्सां व्याधिचिकित्सां वा पण्डितः - पण्डिताभिमानी प्रवदन् स हन्ता-जीवोपमर्दकः छेत्ता भेत्ता लुम्पयिता विलुम्पयिता अपद्रावयिता अकृतं-यदपरेण न कृतं कामचिकित्सनं व्याधिचिकित्सनं वा तदहं करिष्यामीति मन्यमानः, यस्यापि चाऽन्यस्य करोति, अलं-पर्याप्तं तस्य बालस्य सङ्गेन, यो वैतत् कारयति बालस्तस्यापि सङ्गेनाऽलम्, न एवं कामचिकित्सोपदेशदानं करणं वा अनगारस्य जायते- कल्पते इति ब्रवीमि ।।९६।।
॥ अध्ययनं-२ उद्देशकः-६ ॥ नैवमनगारस्य जायते - कल्पत इत्युक्तम् एतदेव प्रतिपिपादयिषुराह -
श्री आचाराङ्गसूत्रम् (अक्षरगमनिका) *
३५
Page #45
--------------------------------------------------------------------------
________________
से तं संबुज्झमाणे आयाणीयं समुट्ठाय तम्हा पावकम्मं नेव कुजा, न कारवेजा ॥९७॥
सः - अनगारः तत्-प्राण्युपघातकारि चिकित्सोपदेशदानमनुष्ठानं वा एतद्वा - ज्ञानाद्यपवर्गककारणं संबुध्यमानः आदानीयं - ज्ञानादित्रयं समुत्थाय - आदाय किं कुर्यादित्याह- यस्मात् संयमः सर्वसावधनिवृत्तिरूपः तस्मात् पापकर्म-प्राणातिपाताद्यष्टादशप्रकारं नैव . कुर्यात् एवकाराच्च न समनुजानीयात् न कारयेदिति ॥९७||
स्यादेतत्-किमेकं प्राणातिपातादिकं पापं कुर्वतोऽपरमपि ढौकते आहोस्विनेत्याह -
सिया तत्थ एगयरं विप्परामुसइ छसु अन्नयरंमि, कप्पइ सुहट्ठी लालप्पमाणे, सएण दुक्खेण मुढे विप्परियासमुवेइ, सएण विप्पमाएण पुढो वयं पकुब्बइ, जंसिमे पाणा पवहिया, पडिलेहाए नो निकरणयाए, एस परिन्ना पवुच्चइ, कम्मोवसंती ॥९८॥
स्यात्तत्र-पापारम्भे एकतरं - पृथिवीकायादिसमारम्भं प्राणातिपाताद्याश्रवं वा विपरामृशति-समारभते स षट्स्वन्यतरस्मिन् कल्पते- योग्यो भवति, सर्वस्मिन्नेव प्रवर्तते इति भावः अकार्य प्रवृत्तत्वात्, यदिवाऽसौ अष्टप्रकारं कर्मादाय षट्सु पृथिव्यादिषु अन्यतरस्मिन् कल्पते- प्रभवते सर्वस्मिन् पृथिव्यादौ पौनःपुन्येनोत्पद्यते यतः स सुखार्थी वाचा लालप्यमानः, कायेन कृष्यादिक्रियाः कुर्वन्, मनसा च तत् तच्चिन्तयन् स्वकीयेन दुःखेन मूढो विपर्यासमुपैति । स्वकीयेन च प्रमादेन पृथग् व्रतं - विभिन्नं व्रतं प्रकरोति, यदि वा पृथुवयं- पृथु-विस्तीर्णं वयन्ति-पर्यटन्ति प्राणिनो यस्मिन् स वयः - संसारस्तं करोति, यद्वा वयः - एकेन्द्रियाद्यवस्थाविशेषस्तं करोति, यस्मिन् चतुर्गतिकसंसारे एकेन्द्रियाद्यवस्थाविशेषे वा इमे प्राणाः - अभेदोपचारात् प्राणिनः प्रव्यथिताः, तत्-प्रव्यथनं प्रत्युपेक्ष्य नो निकरणाय . शारीरमानसदुःखोत्पादनाय आरम्भं कुर्यात् । एषा- सावधनिवृत्तिः परिज्ञा प्रोच्यते । एवं प्राणिनिकारपरिहारे कर्मोपशान्तिः- कर्मक्षयो भवतीती ।।९८॥ ___ अस्य च कर्मक्षयविघ्नस्य प्राणिदुःखोत्पादनस्य मूलं ममता परिग्रहो मूति यावत्
तत्त्यागायाह -
जे ममाइयमई जहाइ स चयइ ममाइयं, से हु दिट्ठपहे मुणी जस्स नत्थि ममाइयं, तं परिन्नाय मेहावी विइत्ता लोगं वंता लोगसन्नं से मइमं परिक्कमिजासि त्ति बेमि ॥ नारइं सहइ वीरे वीरे न सहइ रतिं ॥
३६
* श्री आचाराङ्गसूत्रम् (अक्षरगमनिका)
Page #46
--------------------------------------------------------------------------
________________
जम्हा अविमणे वीरे, तम्हा वीरे न रज्जइ ॥१॥ ॥९९॥
यो ममायितं मम माता, मम पिता, मम धनमिति ममायितं तत्र मतिः ममायितपतिस्तां जहाति त्यजति स ममायितं - परिग्रहं त्यजति । अत एव स खलु दृष्ट-पथः- दृष्टमोक्षमार्गे मुनिर्यस्य नास्ति ममायतं परिग्रहः । ‘दिट्ठभए' इति पाठान्तरमाश्रित्य दृष्टभयः परिग्रहत्यागात् ज्ञातभयत्वमिति । किंच तं परिग्रहं परिज्ञाय मेधावी विदित्वा लोकं-परिग्रहाग्रहयोगविपाकिनं वान्त्वा च लोकसंज्ञां दशप्रकारां स मतिमान् संयमानुष्ठाने पराक्रमेति ब्रवीमि । नारतिं संयमे सहते वीरः । वीरो न सहते असंयमे विषयेषु परिग्रहे वा रतिम् । यस्मात् अविमनस्को वीरः, तस्मात् वीरो न रज्यते शब्दादिविषयग्राम इति ||१|| |९९॥
यत एवं ततः किमित्याह -
सद्दे फासे अहियासमाणे, निव्विंद नंदि इह जीवियस्स । मुणी मोणं समायाय, धुणे कम्मसरीरगं ॥ २॥ पंतं लुहं सेवंति, वीरा संमत्तदंसिणो । एस ओहंतरे मुणी, तिने मुत्ते विरए वियाहिए ॥ ३ ॥ त्ति बेमि ॥ १०० ॥
-
शब्दान् स्पर्शान् आद्यन्तग्रहणाद्रूपादीनपि अध्यासमानः सम्यक् सहमानः निर्विन्दस्व- जुगुप्सस्व नन्दिम् ऐश्वर्यविभवात्मिकां मनसस्तुष्टिं इहमनुष्यलोके जीवितस्य असंयमजीवितस्य । मुनिः मौनं मुनिभावं संयमं समादाय धुनिहि- पृथक्कुरु कर्मशरीरकं- औदारिकशरीरं वा तदुपरि ममत्वाऽविधानेन । आदाय संयमं प्रान्तं रूक्षं सेवन्ते वीराः सम्यक्त्वदर्शिनः समत्वदर्शिनो वा । अनेकादेशे चैकादेश इति कृत्वा एष. प्रान्तरूक्षसेवी भवौघं तरतीति ओघन्तरो मुनिः, अथवा क्रियमाणं कृतमितिकृत्वा तीर्णो मुक्तो विरतो विख्यात इति ब्रवीमि ||१००||
यश्च मुक्तत्वविरतत्वाभ्यां न विख्यातः स किंभूतो भवतीत्याह
-
-
-
दुव्वसुमुणी अणाणाए, तुच्छए गिलाइ वत्तए, एस वीरे पसंसिए, अच्छे लोयसंजोगं, एस नाए पवुच्चइ ॥ १०१ ॥ -
दुर्वसुः मुक्तिगमनाऽयोग्यो मुनिर्भवति अनाज्ञया । अत एव तुच्छको ज्ञानादिरहितत्वात् शुद्धमार्गप्ररूपणावसरे ग्लायति वक्तुम् । एष तु सुवसुः मुक्तिगमनयोग्यो मुनिर्ज्ञानादिसमन्वितो वीरः प्रशंसितः । किञ्च एषः
श्री आचाराङ्गसूत्रम् (अक्षरगमनिका ) * ३७
Page #47
--------------------------------------------------------------------------
________________
अत्येति-अतिक्रामति
लोकसंयोगं-असंयतलोकेन धनहिरण्यमातृपित्रादिना रागद्वेषादिना तत्कार्येण वाऽष्टप्रकारेण कर्मणा वा संयोगम् । एष लोगसंयोगातिक्रमः न्यायः- युक्तियुक्तत्वात् मोक्षमार्गः प्रोच्यते मोक्षप्रापकत्वाद् यदिवा एष त्यक्तलोकसंयोगः परम् आत्मानं च सदुपदेशात् मोक्षं नयतीति नायः छान्दसत्वादिति ॥१०१॥
स्यादेतत् - किंभूतोऽसावुपदेश इत्यत आह
-
जं दुक्खं पवेइयं इह माणवाणं तस्स दुक्खस्स कुसला परिन्नमुदाहरति, इइ कम्मं परिन्नाय सव्वसो जे अणण्णदंसी से अणण्णारामे, जे अणण्णारामे से अणण्णदंसी, जहा पुण्णस्स कत्थइ तहा तुच्छस्स कत्थइ, जहा तुच्छस्स कत्थइ तहा पुण्णस्स कत्थइ ॥१०२॥
यद् दुःखं प्रवेदितं तीर्थकृद्भिः इह-अस्मिन् संसारे मानवानां तस्य दुःखस्य कुशलाः स्वभाव - हेतु - फलरूपां परिज्ञाम् उदाहरन्ति- कथयन्ति । किञ्च - तद्दुःखं कर्मकृतमिति कर्म परिज्ञाय सर्वशः कर्माश्रवद्वारेषु न वर्तेत, अथवा सर्वशः परिज्ञाय कथयति, यदिवा सर्वशः आक्षेपण्या धर्मकथयेति । सा च किदृक् कथेत्याह यः अनन्यदर्शी - सम्यग्दृष्टिः सः अनन्यारामः मोक्षमार्गरतः । यः अनंन्यारामः सः अनन्यदर्शी । एवं सम्यक्त्वस्वरूपं कथयंश्चारक्तद्विष्टः कथयतीति दर्शयति- यथा पुण्यवतः कथ्यते तथा तुच्छस्य कथ्यते, यथा तुच्छस्य कथ्यते तथा पुण्यवतः कथ्यते निरीहत्वात् प्रत्युपकारनिरपेक्षः सन् यो यथा बुध्यते तस्य तथैव कथयतीति भावः ॥१०२॥
-
राज्ञश्च कथयता तदभिप्रायमनुवर्तमानेन कथनीयम्, अन्यथा कदाचिदसौ प्रद्वेषमुपगच्छेद् द्विष्टश्चैतद्विदध्यादिति आह च -
-
अवि य हणे अणाइयमाणे, इत्थंपि जाण सेयंति नत्थि, केयं पुरिसे कं च नए ! एस वीरे पसंसिए, जे बद्धे पडिमोयए, उड्ढं अहं तिरियं दिसासु, से सव्वओ सव्वपरिन्नाचारी, न लिप्पइ छणपएण वीरे से मेहावि अणुग्धायणखेयन्ने जे य बन्धमुक्खमन्नेसी कुसले पुण नो बद्धे नो मुक्के ॥१०३॥
पुरुषमविदित्वा
अपि च हन्यात् अनाद्रियमाणः । अत्रापि धर्मकथा - करणेऽपि श्रेयो नास्तीति जानीहि । स्यादेतत् कथं तर्हि धर्मकथा कार्येत्युच्यते - कोऽयं पुरुषः ? कं च देवताविशेषं नतः ? एवमालोच्य
३८ * श्री आचाराङ्गसूत्रम् ( अक्षरगमनिका )
-
Page #48
--------------------------------------------------------------------------
________________
• एष श्रोतृविवेचको वीरः प्रशंसितः, यो बद्धानां प्रतिमोचकः । कुतो व्यवस्थितान् जन्तून मोचयतीत्याह . ऊर्ध्वं ज्योतिष्कादीन् अधो भवनपत्यादीन्, तिर्यक्षु च दिक्षु मनुष्यादीनिति । किञ्च स सर्वतः सर्वपरिज्ञाचारी- सर्वचारित्री न लिप्यते क्षणपदेन- हिंसाऽऽस्पदेन वीरः । किञ्च - स मेधावी अणोद्घातनखेदज्ञः - कर्मोद्घातननिपुणः । यश्च बन्धप्रमोक्षान्वेषी स कुशलः - केवली छद्मस्थो वा पुनर्नो बद्धो गृहस्थ इव न च मुक्तो भवस्थत्वादिति ॥१०३।।
___ एवंभूतश्च कुशलः केवली छद्मस्थो वा यदाचीर्णवानाचरति वा तदपरेणावि मुमुक्षुणा विधेयमिति दर्शयति -
से जंच आरंभे जं च नारभे, अणारद्धं च न आरभे, छणं छणं परिणाय लोगसन्नं च सब्बसो ॥१०४॥
स यच्च संयमानुष्ठानमारभते यच्च संसारकारणं नाऽऽरभते, तदारब्धव्यमनारब्धव्यं च, अनारब्धं- अनाचीर्णं च नाऽऽरभेत, क्षणं क्षणं - प्रत्येकं हिंसास्थानं परिज्ञाय परिहरेत् यदिवा प्रत्येकम् अवसरं परिज्ञाय तदनुरुपमाचरेदिति । किंञ्च- लोकसंज्ञां - विषयसुखेच्छां परिग्रहसंज्ञां वा सर्वशः परिहरेदिति ॥१०४॥
एवंविधस्य सत्पथव्यवस्थितस्य यद्भवति तद्दर्शयति -
उद्देसो पासगस्स नत्थि, बाले पुणे निहे कामसमणुन्ने, असमियदुक्खे दुक्खी दुक्खाणमेव आवर्ल्ड अणुपरियट्टइ त्ति बेमि ॥१०५॥
उद्देशः-नारकादिव्यपदेशः पश्यकस्य-परमार्थदृशो नास्ति । बालः पुनः निहः स्निहो वा पूर्ववत् कामसमनोज्ञः अशमितदुःखो दुःखी दुःखानामेवाऽऽवर्तमनुपरिवर्तत इति ब्रवीमि ॥१०४।।
॥ ३ : शीतोष्णीयाध्ययनं- उद्देशकः-१ ॥ अनन्तरसूत्रे दुःखी दुःखानामेवावर्तमनुपरिवर्तत इत्युक्तं, तदिहापि भावसुप्ता अज्ञानिनो दुःखीनो दुःखानामेवावर्तमनुपरिवर्तन्त इत्याह -
सुत्ता अमुणी सया मुणिणो जागरंति ॥१०६॥ अज्ञानमोहनिद्रया सुप्ता अमुनयः मिथ्यादृष्टयः, सदा मुनयः
श्री आचारागसूत्रम् (अक्षरगमनिका) *
३९
Page #49
--------------------------------------------------------------------------
________________
सद्बोधोपेता असंयमनिद्राऽपगमात् जाग्रति-हिताहितप्राप्तिपरिहारं कुर्वत इति ।।१०६।। .. ये तु सुप्तास्तेऽज्ञानोदयाद् भवन्ति, अज्ञानं च महादुःखं, दुःखं च जन्तूनामहितायेति दर्शयति -
लोयंसि जाण अहियाय दुक्खं, समयं लोगस्स जाणित्ता, इत्थ सत्थोवरए, जस्सिमे सद्दा य रूवा य रसा य गंधा य फासा य अभिसमन्नागया भवंति ॥१०७॥
लोके- षड्जीवनिकाये जानीहि अहिताय दुःखं, समयम्- आचारं महामोहमोहितमतेर्लोकस्य, यदिवा समतां जन्तुसमूहे लोके ज्ञात्वा, अत्रषट्कायलोके शस्त्रोपरतो भवेदथवा धर्मजागरेण जागृहि वा । य उपरत स मुनिः, आह च- यस्य मुनेः इमे शब्दाश्च रूपाश्च रसाश्च गन्धाश्च स्पर्शाश्च अभिसमन्वागताः इष्टानिष्टेषु रागद्वेषाऽकरणतया ज्ञाता भवन्ति स लोकं जानातीति ॥१०७॥
एवं शब्दादीनिह-लोके परत्र च दुःखस्वभावानवगम्य यः परित्येजेदसौ कं गुणमवाप्नुयादित्याह -
से आयवं नाणवं वेयवं धंमवं बंभवं पन्नाणेहिं परियाणइ लोयं, मुणीति वुच्चे, धम्मविऊ, उज्जू, आवट्टसोए संगमभिजाणइ ॥१०८॥
स आत्मवान् ज्ञानवान् वेदवान् - आगमवान् धर्मवान् ब्रह्मवान्योगिशर्मवान् अष्टादशधा वा ब्रह्मवान् से “आयवी नाणवी" इत्यादि पाठान्तरमाश्रित्य स आत्मविद् ज्ञानविद् वेदविद् धर्मविद् ब्रह्मवित् प्रज्ञानैः परिजानाति लोकं मुनिरिति उच्येत । किञ्च- स धर्मविद् ऋजुः आवर्तश्रोतसोः - आवर्तः संसारः श्रोतः - विषयाभिलाषस्तयोः संगं- रागद्वेषाभ्यां सम्बन्धम् अभिजानाति । तत्संगं चानर्थरूपं ज्ञात्वा परिहरतीति ॥ १०७।।
सुप्तजाग्रतां दोषगुणज्ञाता कं गुणमवाप्नुयादित्याह -
सीउसिणचाई से निग्गंथे अरइरइसहे, फरुसयं नो वेएइ, जागरे वेरोवरए वीरे एवं दुक्खा पमुक्खसि, जरामचुवसोवणिए नरे सययं मूढे धम्म नाभिजाणइ ॥१०९॥ ____ शीतोष्णत्यागी-शीतोष्णरूपौ परीषहावतिसहमानः स निर्ग्रन्थः अरतिरतिसहः परुषतां - परीषहोपसर्गाणां कर्कशतां नो वेत्ति, पीडाकारित्वेन
४०
* श्री आचारागसूत्रम् (अक्षरगमनिका)
Page #50
--------------------------------------------------------------------------
________________
न तान् गृह्णातीत्यर्थः । किञ्च जागरः असंयमनिद्रापगमात् वैराच्चोपरतश्चेति जागरवैरोपरतो वीरस्त्वमेवात्मानं परं च दुःखात् प्रमोक्ष्यसि । एतद्विपरीतश्च जरामृत्युवशोपनीतो नरः सततं मूढो धर्मं नाभिजानातीति ।।१०९।।
यतश्चैवम् अतः सर्वं जरामृत्युवशोपनीतं दृष्ट्वा किं कुर्यादित्याह
पासिय आउरपाणे अप्पमत्तो, परिव्वए मंता य मइमं, पास आरंभजं दुक्खमिणं ति णच्चा, माइ पमाइ पुण एइ गब्भं, उवेहमाणो सद्दरूवेसु उज्जू माराभिसंकी मरणा पमुच्चइ, अप्पमत्तो कामेहिं, उवरओ पावकम्मेहिं, वीरे आयगुत्ते खेयन्ने, जे पज्जवज्जायसत्यस्स खेयण्णे, से असत्थस्स, खेयण्णे जे असत्थस्स खेयण्णे से पज्जवज्जायसत्थस्स खेयण्णे, अकम्मस्स ववहारो न विज्जइ, कम्मुणा उवाही जायइ, कम्मं च पडिलेहाए ॥११०॥
..
भावजागर आतुरप्राणिनः शारीरमानसैर्दुःखैः किंकर्तव्यमूढान् दृष्ट्वा अप्रमत्तः परिव्रजेत् । अपि च- जाग्रतसुप्तगुणदोषान् मत्वा च मतिमन् ! पश्य भाव-सुप्तातुरान् तेषां आरम्भजं दुःखमिदमिति ज्ञात्वा निरारम्भो भूत्वाऽऽत्महिते जागृहि । मायी प्रमादी पुनरेति तिर्यक्षु गर्भम् । उपेक्षमाणो रागद्वेषौ शब्दरूपादिषु ऋजुः अनगारो माराभिशङ्की तत् करोति येन मरणात् प्रमुच्यते । अप्रमत्तः कामप्रमादे, उपरतः पापकर्मभ्यः, वीरो गुप्तात्मा खेदज्ञः, यः पर्यवजातशस्त्रस्य-शब्दादिविषयाणां पर्यवा विशेषास्तदुपादानाय यत् शस्त्रं प्राण्युपघातकार्यनुष्ठानं तस्य खेदज्ञः, यदि वा शब्दादिपर्यायेभ्यस्तज्जनितरागद्वेषपर्यायेभ्यो वा जातं यज्ज्ञानावरणीयादि कर्म तस्य यच्छस्त्रं तपः तस्य खेदज्ञः स अशस्त्रस्य संयमस्य खेदज्ञः, यः अशस्त्रस्य खेदज्ञः स पर्यवजातशस्त्रस्य खेदज्ञः । आश्रवनिरोधात् अकर्मणो व्यवहारो-नारकतिर्यग्नरामरादिरूपो न विद्यते I कर्मणा उपाधिर्जायते - मन्दमतिस्तीक्ष्णो वेत्यादि । कर्म च प्रत्युपेक्ष्य अकर्मतोपाये यतितव्यमिति ॥१०९॥
किंच -
-
-
कम्ममूलं च जं छणं, पडिलेहिय सव्वं समायाय दोहिं अंतेहिं अदिस्समाणे तं परिन्नाय मेहावी विइत्ता लोगं वंता लोगसन्नं से मेहावी परिक्कमिजासि त्ति बेमि ॥१११॥
कर्ममूलं च यत् क्षणं - हिंसनं तत् प्रत्युपेक्ष्य परित्यजेत् । 'कम्माहुय जं
श्री आचाराङ्गसूत्रम् (अक्षरगमनिका) * ४१
Page #51
--------------------------------------------------------------------------
________________
.
.
छणं' पाठान्तरमाश्रित्य कर्मोपादाय . तत्क्षणमेव तदुपादानहेतोनिवृत्तिं विदध्यादित्यर्थः । प्रत्युपेक्ष्य सर्वं - कर्म मोक्षं च समादाय-ज्ञात्वा द्वाभ्याम् अन्ताभ्यां- रागद्वेषाभ्यां सह अदृश्यमानः अनपदिश्यमानो वा तत्- कर्म तदुपादानं वा परिज्ञाय परिहरेत् मेधावी । विदित्वा रागादिमोहितं लोकं विषयकषायलोकं वा . वान्त्वा विषयपिपासाख्यां धनाद्याग्रहग्रहरूपां वा लोकसंज्ञां स मेधावी पराक्रमेतेति ब्रवीमि ||१११।।
॥ अध्ययन-३ : उद्देशकः-२ ॥ अथ लोकसंज्ञाप्रधानस्य भावसुप्तस्याऽसातलक्षणं फलमुच्यते
जाइं च बुषिंढ च इहऽज्ज ! पासे, भूएहिं जाणे पडिलेह सायं ॥ तम्हाऽतिविज्जे परमंति णचा, संमत्तदंसी न करेइ पावं ॥१॥
जाति- प्रसूतिं च बालकुमारयौवनवृद्धावस्थापर्यन्तां च वृद्धिं तत्फलं च दुःखम् इह अद्य आर्य ! वा पश्य दृष्टवा अवबुध्यस्व । किञ्च भूतैः - चतुर्दशभूतग्रामैः सममात्मनः सातं प्रत्युपेक्ष्य जानीहि, यथा त्वं सुख-प्रियस्तथाऽन्येऽपि । तस्मात् अतिविद्यः परमं- मोक्षं ज्ञानादिकं वा तन्मार्गमिति ज्ञात्वा सम्यक्त्वदर्शी समत्वदर्शी वा न करोति पापमिति ।
पापस्य च मूलं स्नेहपाशास्तदपनोदार्थमाह -
उम्मुंच पास इह मच्चिएहिं, आरंभजीवी उभयाणुपस्सी ॥ कामेसु गिद्धा निचयं करंति, संसिच्चमाणा पुरिति गम्भं ॥२॥
उन्मुञ्च पाशं इह मत्र्यैः सार्धं, स हि मर्त्य आरम्भजीवी उभयानुदर्शी शारीरमानसैहिकामुष्मिकदुःखानुदर्शी । किञ्च- कामेषु गृद्धाः कर्मनिचयं कुर्वन्ति, संसिच्यमानाः कर्मणा पुनर्यान्ति गर्भमिति ॥२॥
तदेवमनिभृतात्मा किंभूतो भवतीत्याह -
अवि से हासमासज, हंता नंदीति मन्नइ ॥ अलं बालस्स संगेण, वेरं वड्ढेइ अप्पणो ॥३॥
स हासमासाद्य हत्वाऽपि प्राणिनो नन्दिरिति मन्यते । अलं वालस्य सङ्गेन, यो वैरं वर्द्धयति आत्मनः ॥३॥
यतश्चैवमतः किमित्याह -
४२
* श्री आचाराङ्गसूत्रम् (अक्षरगमनिका)
Page #52
--------------------------------------------------------------------------
________________
तम्हातिविज्जो परमंति णच्चा, आयंकदंसी न करेइ पावं ॥ अग्गं च मूलं च
विगिंच धीरे, पलिच्छिंदिया णं निक्कमदंसी ॥४॥
वा संयमं परममिति ज्ञात्वा,
1
तस्माद् अतिविद्यो मोक्षं तत्कारणं आतङ्कदर्शी न करोति पापम् मोहनीयव्यतिरिक्तं मिथ्यात्वव्यतिरिक्तं वा कर्म मूलं च मोहनीयं मिथ्यात्वं वा कर्म त्यज धीरः । क्रिञ्च रागादीनि कर्माणि वा तपः संयमाभ्यां परिच्छिद्य निष्कर्मदर्शी भवति ।
अग्र-भवोपग्राहिकर्मचतुष्टयम् घातिचतुष्टयं
यश निष्कर्म्मदर्शी भवति सोऽपरं किमाप्नुयादित्याह -
एस मरणा पमुच्चइ, से हु दिट्ठभए मुणी, लोगंसि परमदंसी विवित्तजीवी उवसंते समिए सहिए सया जए कालकंखी परिव्वए, बहुं च खलु पावं कम्मं पगडं ॥ ११२ ॥
-
एष मरणात् प्रमुच्यते । स दृष्टभय एव मुनिः लोके परमदर्शी- परमःमोक्षस्तत्कारणं वा संयमस्तद्दर्शी, विविक्तजीवी, उपशान्तः, समितो, ज्ञानादिभिः सहितः, सदा यतः कालाकाङ्क्षी परिव्रजेत् यतो बहु च खलु पापं कर्म प्रकृतं बद्धं प्रकटं वा तत्कार्यप्रदर्शनादिति ॥। ११२ ।।
यदि नामैवं ततस्तदपनयनार्थं किं कर्तव्यमित्याह -
सच्चमि धिदं कुव्वहा, एत्थोवरए मेहावी सव्वं पावं कम्मं जोसइ ॥ ११२ ॥
सत्ये - सद्भ्यो हिते संयमे धृतिं कुरुध्वम्, अत्रोपरतो मेधावी सर्वं पापं कर्म झोषयति-क्षपयतीति ॥११३॥
उक्तोऽप्रमादः, तत्प्रत्यनीकस्तु प्रमादः तेन किंगुणो भवतीत्याह
अणेगचित्ते खलु अयं पुरिसे, से केयणं अरिहए पूरिण्णए, से अण्णवहाए अणपरियावा अण्णपरिग्गहाए, जणवयवहाए जणवयपरियावाए
जणवयपरिग्गहाए ॥११४॥
अनेकचित्तः- कृषिवाणिज्यादिगतचित्त एवाऽयं पुरुषः । स केतनंलोभेच्छारूपां चालनीं समुद्रं वा पूरयितुम् अर्हति । एवंभूतः सः अन्यवधाय अन्यपरितापाय अन्यपरिग्रहाय जनपदवधाय जनपदपरितापाय
जनपदपरिवादाय वा जनपदपरिग्रहाय प्रभवति ।। ११४।।
अनन्तरोक्ताः प्रमादिनस्तथाभूता एवासते उतान्यथा ? अन्यथाऽपीति दर्शयति -
श्री आचाराङ्गसूत्रम् (अक्षरगमनिका ) * ४३
Page #53
--------------------------------------------------------------------------
________________
आसेवित्ता एतं(व) अटै इच्चेवेगे समुट्ठिया, तम्हा तं बिइयं नो सेवे, निस्सारं पासिय नाणी, उववायं चवणं णचा अणणं चर माहणे से न छणे न छणावए छणंतं नाणुजाणइ, निबिंद नंदि, अरए पयासु, अणोमदंसी निसणे पावेहिं कम्मेहिं ॥११५॥
आसेव्य एवम् -' अनन्तरोक्तम् अर्थ-वधपरिग्रहतापादिकम् इत्येव .. लोभेच्छाप्रतिपूरणायैव एके भरतादयः समुत्थिताः सिद्धाश्च । यस्मात् कृतप्रतिज्ञस्तस्मात् - विषयसुखमसंयम वा द्वितीयं - पुनः नासेवेत ज्ञानी निस्सारं दृष्टवा । उपपातं च्यवनं च ज्ञात्वा अनन्यं - ज्ञानादित्रिकं चर माहण ! स न क्षणुयात्-हन्याह् न क्षाणयेत् क्षणुवन्तं नानुजानीयात् । निर्विन्दस्व विषयजनितां नन्दिम् अरक्तः प्रजासु - स्त्रीषु । अनवमदर्शी - रत्नत्रयीदर्शी निषण्णः - निर्विण्णः पापेभ्यः कर्मभ्य इति ।।११५॥
किंच
कोहाइमाणं हणिया य वीरे, लोमस्स पासे निरयं महंतं ॥ तम्हा य वीरे विरए वहाओ, छिदिज सोयं लहुभूयगामी ॥१॥ गंथं परिण्णाय इहऽज्ज ! धीरे, सोयं परिणाय चरिज दंते ॥ उम्मच लद्धं इह माणवेहि, नो पाणिणं पाणे समारभिजासि ॥२॥ त्ति बेमि
क्रोधादिमानं हन्यात् च वीरः लोभस्य स्थितिं विपाकं च पश्य नरकं महान्तम् । तस्मात् च वीरो विरतो वधात, छिन्द्यात् शोकं श्रोतो वा विषयाभिष्वङ्गरूपं लघुभूतगामी-लघुभूतो मोक्षः संयमो वा तद्गामी ॥१॥ ग्रन्थं परिज्ञाय इह अद्य आर्य ! वा धीरः सन् श्रोतः विषयाभिष्वङ्गं परिज्ञाय चरेद् दान्तः । श्रुतिश्रद्धासंयमवीर्यरूपम् उन्मज्जनं लब्ध्वा इह मानुष्येषु, न प्राणिनां प्राणान् समारभेथा इति ब्रवीमि ॥ ॥ इति द्वितीय उद्देशकः ।।
॥ अध्ययनं-३ : उद्देशकः-३ ॥ प्राणिनां प्राणान् न समारभेथा इत्यनन्तरोक्तम् । इह तु तदेव चारित्रं सन्धिरित्युच्यते ।
संधिं लोयस्स जाणित्ता, आयओ बहिया पास, तम्हा न हंता, न वि घायए, जमिणं अन्नमन्नवितिगिच्छाए पडिलेहाए न करेइ पावं कम्मं, किं तत्थ मुणी कारणं सिया ? ॥११६॥
सन्धि - कर्मविवरूपं चारित्रावसरं । लोकस्य लोके वा ज्ञात्वा न प्रमादः श्रेयान् । आत्मनो यत् सुखप्रियत्वमसुखाप्रियत्वं तत् बहिः पश्य । तस्मात् न
४४
* श्री आचाराङ्गसत्रम (अक्षरगमनिका)
Page #54
--------------------------------------------------------------------------
________________
हन्ता स्यात्, न विघातयेत् । यदिदं अन्योन्यविचिकित्सया - परस्पराऽऽशङ्कातो लज्जातो वा प्रत्यपेक्ष्य न करोति पापं कर्म, किं तत्र-पापकर्माऽकरणे मुनिः - मुनित्वं कारणं स्यात् ? अर्थान्न स्यादिति ।।११६।।
कवं तर्हि नैश्चयिको मुनिभाव इत्यत आह -
समयं तत्थुवेहाए अप्पाणं विप्पसायए-अणन्नपरमं नाणी, नो पमाए कयाइ वि । आयगुत्ते सया वीरे, जायामायाइ जावए ॥१॥ विरागं रूवेहिं गच्छिज्जा महया खुहुएहि य, आगई गई परिण्णाय दोहिवि अंतेहिं अदिस्समाणेहिं से न छिज्जइ, न भिजइ, न डज्झइ, न हमइ कंचणं सव्वलोए ॥११७॥
__ समतां समयं वा - आगमं वा तत्र-पापकर्माऽकरणे उत्प्रेक्ष्य - पर्यालोच्य आत्मानं विप्रसादयेत् । अनन्यपरमं- सर्वप्रधानात् संयमं ज्ञानी न प्रमादयेत् कदाचित् । आत्मगुप्तः सदा वीरः यात्रामात्रया - संयमयात्रायां या आहारमात्रा तया यापयेद् 'अचाहारो न सहे' इत्यादि वचनात् ।
सैवाऽऽत्मगुप्तता कथं स्यादिति चेदाह -
विरागं रूपेषु गच्छेत् महता - दिव्यभावेन व्यवस्थितेषु क्षुल्लकेषु वा - मनुष्यरूपेषु वा, यदि वा दिव्यादि प्रत्येकं महत् क्षुल्लकं च रूपं तत्र विरागं गच्छेदिति । नागार्जुनीयास्तु पठन्ति 'विसयंमि पंचगंमीवि, दुविहंमि तियं तियं । भावओ सुठु जाणित्ता, से न लिप्पइ दोसुवि' विषये पञ्चकेऽपि इष्टानिष्टतया द्विविधे, हीनमध्यमोत्कृष्टभेदात् त्रिकं त्रिकं । भावतः सुष्टु ज्ञात्वा स मुनिः न लिप्यते द्वाभ्यां रागद्वेषाभ्यां तदकरणात् । स्यादेतत् -
किमालम्ब्यैतत्कर्तव्यमित्याह - आगतिं गतिं च परिज्ञाय द्वाभ्यां रागद्वेषाभ्याम् अन्ताभ्याम् अन्तहेतुत्वात् अदृश्यमानाभ्यां अनपदिश्यमानाभ्यां वा सिद्ध्यति एव, तथा च स न छिद्यते, न भिद्यते, न दयते, न हन्यते केनचित् सर्वलोक इति ॥११७॥
___ अपरे साम्प्रतक्षिणः कुतो क्यमागताः क्व यास्यामः ? किं वा तत्र नः सम्पत्स्यते ? नैवं भावयन्त्यतः संसार-भ्रमणपात्रतामनुभवन्तीति दर्शयितुमाह - . अवरेण पुचि न सरंति एगे, किमस्स तीयं किं वाऽऽगमिस्सं । भासंति एगे इह माणवाओ, जमस्स तीयं तमागमिस्सं ॥१॥
-
श्री आचाराङ्गसूत्रम् (अक्षरगमनिका) *
४५ .
Page #55
--------------------------------------------------------------------------
________________
नाईयमट्ठे न य आगमिस्सं, अट्टं नियच्छन्ति तहागया उ । विहुकप्पे एयाणुपस्सी, निज्झोसइत्ता खवगे महेसी ॥२॥
अपरेण जन्मादिना सह पूर्वमतिक्रान्तं जन्मादि न स्मरन्ति नाऽऽकाङ्क्षन्ति वा एके, किमस्याऽतीतं ? किं वाऽऽगमिष्यत् ? भाषन्ते एके इह मानवाः यदस्यातीतं तदागमिष्यत् । अपरे तु पठन्ति अवरेण पुव्विं किह से अतीतं, किह आगमिस्सं न सरंति एगे । भासन्ति एगे इह माणवाओ, जह से अईअं तह आगमिस्सं ॥१॥ उक्तार्थमेव ॥ नातीतमर्थम् अनागतरूपतयैव न चाऽऽगमिष्यन्तमर्थम् अतिक्रान्तरूपतयैव नियच्छन्ति अवधारयन्ति तथागताः - सर्वज्ञास्तु विचित्रत्वात् परिणतेः । साधुः एतदनुदर्शी - पूर्वापरानुदर्शी. निझोषयिता
विधूतकल्पः क्षपयिष्यति कर्म क्षपको महर्षिरिति ।
-
-
-
कर्मक्षपणोद्यतस्य यत्स्यात्तद्दर्शयति -
का अरइ के आणंदे ?, इत्थंपि अग्गहे चरे, सव्वं हासं परिचज्ज आलीणगुत्तो परिव्वए, पुरिसा ! तुममेव तुमं मित्तं, किं बहिया मित्तमिच्छसि ?
॥११८॥
का अरतिः क आनन्दः । अत्रापि अरतावानन्दे अग्रहः अगृध्नुः सन् चरेत् । सर्वं हास्यं परित्यज्य आलीनगुप्तः - इन्द्रियनिरोधादिके आलीनः स च गुप्तो मनोवाक्कायकर्मभिः कूर्मवद् वा संवृतगात्रः परिव्रजेत् । पुरुष ! त्वमेव तव मित्रम् किमिति बहिर्मित्रमिच्छसि ? ॥ ११८ ॥
-
यो हि निवाणनिर्वर्तकव्रतमाचरति स आत्मनो मित्रम्, स चैवम्भूतः कुतोऽवगन्तव्यः ? किं फलश्चेत्याह -
जं जाणिज्जा उच्चालइयं तं जाणिज्जा दूरालइयं, जं जाणिज्जा दूरालइयं तं जाणिज्जा उच्चालइयं, पुरिसा ! अत्ताणमेवं अभिणिणिज्य एवं दुक्खा पमुचसि, पुरिसा ! सच्चमेव समभिजाणाहि, सच्चस्स आणाए से उवट्ठिए मेहावी मारं तरइ, सहिओ धम्ममायाय सेयं समणुपस्सइ ॥ ११९॥
यं जानीयात् कर्मणां विषयसङ्गानां च उच्चालयितारम् - अपनेतारं तं जानीयात् दूरालयिकं - मोक्षमार्गव्यवस्थितम्, यं जानीयात् दूरालयिकं तं जानीयात् उच्चालयितारम् । पुरुष ! धर्मध्यानाद् बहिर्विषयाभिष्वङ्गाय
४६ * श्री आचाराङ्गसूत्रम् ( अक्षरगमनिका )
Page #56
--------------------------------------------------------------------------
________________
निःसरन्तम् आत्मानमेवम् अभिनिगृह्य - अवरुध्यैव एवम् अवधारणे दुःखात् प्रमोक्ष्यसि । पुरुष ! सत्यमेव - संयमम् आगमं वा समभिजानीहि यतः सत्यस्य आज्ञया स उपस्थितः सन् मेधावी मारं संसारं तरति । किञ्च-ज्ञानादिना हितेन वा सहितो धर्ममादाय श्रेयः समनुपश्यतीति ।।११९।।
उक्तोऽप्रमत्तः तद्गुणाश्च तद्विपर्ययमाह -
दुहओ जीविअस्स परिवंदणमाणणपूयणाए जंसि एगे पमायंति ॥१२०॥
द्विधा - रागद्वेषप्रकारद्वयेनाऽऽत्मपरनिमित्तमैहिकामुष्मिकार्थं वा हतो द्विर्हतो दुर्हतो वा जीवितस्य परिवन्दन - मानन-पूजनाय कर्मोपचिनोति । किं यस्मिन् परिवन्दनादिनिमित्ते एके प्रमाद्यन्ति न ते आत्मने हिता इति ।। १२० ।।
च
एतद्विपरीतं त्वाह
-
-
सहिओ दुक्खमत्ताए पुट्ठो नो जंझाए, पासिमं दविए लोकालोकपवंचाओ मुच्चइत्ति बेमि ॥१२१॥
सहितो ज्ञानादिना हितेन वा दुःखमात्रया स्पृष्टः सन् नो झञ्झत् व्याकुलितमतिर्भवेत् । पश्य इमम्, द्रविकः साधुः लोकालोकप्रपञ्चाद् मुच्यते इति ब्रवीमि ॥ १२१ ॥ ॥ इति तृतीय उद्देशकः ।।
॥ अध्ययनं - ३ : उद्देशकः -४ ॥
-
-
लोकालोकप्रपञ्चाद् मोक्षोऽस्य कषायवमनाद् भवति तदधुना प्रतिपाद्यते -
सेवंता कोहं च माणं च मायं च लोभं च, एयं पासगस्स दंसणं उवरयसत्थस्स पलियंतकरस्स, आयाणं सगडब्भि ॥ १२२ ॥
श्री आचाराङ्गसूत्रम् (अक्षरगमनिका ) * ४७
स वमिता वमिष्यति वा क्रोधं च मानं च मायां च लोभं च एतत् कषायवमनं पश्यकस्य दर्शनम् उपरतशस्त्रस्य असंयमादुपरतस्य, कर्मणां संसारस्य वा पर्यंतकरस्य, तथाहि आदानम् आश्रवद्वारं निषेध्य स्वकृतभिद् भवति - स्वोपात्तं कर्म भिनत्तीति ॥ १२२॥
यथावस्थितैकपदार्थज्ञानं च न सर्वज्ञतामन्तरेणेति दर्शयितुमाह
जे एगं जाणइ से सव्वं जाणइ, जे सव्वं जाणइ से एगं जाणइ ॥ १२३॥
Page #57
--------------------------------------------------------------------------
________________
य एकं जानाति स सर्वं जानाति, यः सर्वं जानाति स एक जानाति यतः अतीतानागतपर्यायिद्रव्यपरिज्ञानं समस्तवस्तुपरिज्ञानाविनाभावीति ॥१२३।।
तदेवं सर्वज्ञस्तीर्थकृत् सर्वज्ञश्च सम्भविनमेव सर्वसत्त्वोपकारिणमुपदेशं ददातीति दर्शयति -
सव्वओ पमत्तस्स भयं, सबओ अपभत्तस्स नत्थि भयं, जे एगं नामे से बहं नामे जे बहं नामे से एगं नामे, दुःखं लोगस्स जाणित्ता वंता लोगस्स संजोगं जंति धीरा महाजाणं, परेण परं जंति, नावकंखंति जीवियं ॥१२४॥
सर्वतः प्रमत्तस्य भयं, सर्वतोऽप्रमत्तस्य नास्ति भयम् । य एक क्रोधं नामयति - क्षपयति स बहून् - मानादीन् नामयति, यो बहून् नामयति स एकं नामयति । संयोगमूलं दुःखं लोकस्य ज्ञात्वा वान्त्वा च आत्मव्यतिरिक्तस्य पुत्रकलत्रादेः लोकस्य संयोगं यान्ति धीरा महायानं - ज्ञानादित्रयं मोक्षं वा, तद्यथा - परेण - संयमेन परं - स्वर्गादिकं प्राप्य पारंपर्येणाऽपवर्गमपि यान्ति । यदि वा चतुर्थगुणस्थानेन केवलिपर्यन्तमयोगं यद्वोत्तरोत्तरतेजोलेश्यामवाप्नुवन्ति । एते च नावकाङ्क्षन्ति जीवितम्- -- असंयमजीवितं दीर्घजीवितं वेति ॥१२४।।
यश्च क्षपणोयतः स किमेकक्षयादेवाऽपवर्तते उत नेत्याह -
एगं विगिंचमाणे पुढो विगिंचइ, पुढोवि एगं, सड्ढी आणाए मेहावी लोगं च आणाए अभिसमिचा अकुओभयं, अत्थि सत्थं परेण परं, नत्थि असत्थं परेण परं ॥१२५॥
एकम् अनन्तानुबन्धिनं क्रोधं क्षपयन् पृथग्-अन्यदपि दर्शनादिकं क्षपयति, पृथगपि क्षपयन् एकं क्षपयति । किंगुणः क्षपयतीत्याह - श्रद्धावान् आज्ञया यथोक्तानुष्ठानविधायी मेधावी नापरः । किं च - लोकं च आज्ञया अभिसमेत्य - ज्ञात्वा यथा अकुतोभयं - जीवलोकस्य न कुतश्चित् निमित्ताद् भयं भवति तथा विधेयम् । अस्ति शस्त्रं - असंयमः परेण परं यथाऽनन्तरसूत्रेण स्वयं वक्ष्यते । नास्ति अशस्त्रं- सप्तदशविधसंयमः परेण परमिति ||१२५॥
असंयमरूपं भावशस्त्रं कथं परं परं दुःखावहं भवतीत्याह - जे कोहदंसी से माणदंसी, जे माणदंसी से मायादंसी, जे मायादंसी से
४८
* श्री आचारागसूत्रम् (अक्षरगमनिका)
Page #58
--------------------------------------------------------------------------
________________
लोभदंसी, जे लोभदंसी से पिज्जदंसी, जे पिजदंसी से दोसदंसी, जे दोसदंसी से मोहदंसी, जे मोहदंसी से गन्भदंसी, जे गब्भदंसी से जम्मदंसी. जे जम्मदंसी से मारदंसी, जे मारदंसी से नरयदंसी, जे नरयदंसी से तिरियदंसी, जे तिरियदंसी से दुक्खदंसी । से मेहावी अभिणिवट्टिजा, कोहं च माणं च मायं च लोभं च पिजं च दोसं च मोहं च गन्भं च जम्मं च मारं च नरयं च तिरियं च दुक्खं च, एयं पासगस्स दंसणं उवरयसत्थस्स पलियंतकरस्स, आयाणं निसिद्धा सगडब्भि, किमत्थि ओवाही पासगस्स ? न विज्झइ ? नत्थि त्ति बेमि ॥१२६॥
यः क्रोधदर्शी स मानदर्शी यतो यः क्रोधं गच्छति स मानमपि गच्छति । एवमुत्तरमपि योजनीयम् । यो मामदर्शी स मायादर्शी, यो मायादर्शी सो लोभदर्शी, यो लोभदर्शी स प्रेमदर्शी, यः प्रेमदर्शी स द्वेषदर्शी, यो द्वेषदर्शी स मोहदर्शी, यो मोहदर्शी स गर्भदर्शी, यो गर्भदर्शी , स जन्मदर्शी, यो जन्मदर्शी स मारदर्शी - मरणदर्शी, यो मारदर्शी स नरकदर्शी, यो नरकदर्शी स तिर्यग्दर्शी, यस्तिर्यग्दर्शी स दुःखदर्शी । क्रोधादेः साक्षान्निवर्तनमाह - स मेधावी अभिनिवर्तयेत् क्रोधं च मानं च मायां च लोभं च द्वेषं च मोहं च गर्भं च जन्म च मारं च नरकं च तिर्यञ्चं च दुःखं च । एतत् पश्यकस्य दर्शनम् उपरतशस्त्रस्य पर्यन्तकरस्य, तथाहि - आदानं निषेध्य स्वकृतभिद् भवति पूर्ववत् । किमस्ति उपाधिः पश्यकस्य आहोस्वित् न विद्यते ? नास्तीति ब्रवीमि ॥१२६।।
- ॥ ४ : सम्यक्त्वाध्ययनं- : उद्देशकः-१ ॥ अनन्तरसूत्रे उपाधि पश्यकस्य नास्तीति प्रतिपादितम् । तस्मात् हितैषिणा पश्यकस्य तीर्थकृतो दर्शने यतितव्यं, दर्शनं च तत्त्वार्थश्रद्धानं, तत्त्वं च तीर्थकृभिर्यदभाषि तदेव सूत्रेण दर्शयति
से बेमि जे अईया, जे य पडुपन्ना, आगमिस्सा अरहंता भगवंतो, ते सव्वे एवमाइक्खन्ति, एवं भासंति, एवं पण्णविति, एवं परूविंति-सव्वे पाणा सब्वे भूया सब्वे जीवा सब्वे सत्ता न हंतब्बा, न अजावेयव्वा, न परिधित्तव्वा, न परियावेयव्वा, न उद्दवेयव्वा, एस धम्मे शुद्धे निइए सासए समिच्च लोयं नेयण्णेहिं पवेइए, तं जहा-उट्ठिएसु वा, अणुट्ठिएसु वा, उवट्ठिएसु वा, अणुवट्ठिएसु वा, उवरयदंडेसु वा, अणुवरयदंडेसु वा, सोवहिएसु वा, अणोवहिएसु वा, संजोगरएसु वा, असंजोगरएसु वा, तचं चेयं तहा चेयं अस्सि चेयं पवुच्चइ ॥१२७॥ - - . - ........
श्री आचाराङ्गसूत्रम् (अक्षरगमनिका) *
४९
Page #59
--------------------------------------------------------------------------
________________
सोऽहं ब्रवीमि-ये अतीता ये च प्रत्युत्पन्ना ये च आगमिष्यन्तः अर्हन्तो भगवन्तस्ते सर्वे एवमाचक्षते, एवं भाषन्ते, एवं प्रज्ञापयन्ति, एवं प्ररूपयन्ति - सर्वे प्राणिनः सर्वे भूताः सर्वे जीवाः सर्वे सत्त्वा न हन्तव्याः, न आज्ञापयितव्याः, न परिग्राह्याः, न परितापयितव्याः, न अपद्रावयितव्याः । एष धर्मः शुद्धो नित्यः शाश्वतः, समेत्य - ज्ञात्वा लोकं दुःखसागरावगाढं खेदज्ञैः प्रवेदितः, तद्यथा - उत्थितेषु वा - गणधरादिषु, अनुत्थितेषु वा गृहस्थेषु, उपस्थितेषु वा - चिलातिपुत्रादिषु, अनुपस्थितेषु वा इन्द्रनागादिषु, उपरतदण्डेषु वा - यतिषु स्थैर्यगुणान्तराधानार्थं, अनुपरतदण्डेषु-गृहिषु, सोपधिकेषु वा द्रव्यतो हिरण्यादि भावतो माया तद्वत्सु, अनुपधिकेषु वा - अनगारेषु, संयोगरतेषु पुत्रकलत्रादिसंयोगवत्सु, असंयोगरतेषु निःसंङ्गेषु वा तथ्यं चैतत् तथा चैतद् यथा भगवान जगाद । अस्मिन् मौनीन्द्रप्रवचने चैतद् - सर्वे प्राणिनो न हन्तव्या इत्यादि प्रोच्यत । एवं सम्यग्दर्शनं विधेयमिति ॥१२७।।
तदेवं सम्यक्त्वस्वरूपमभिधाय तदवाप्तौ यत् कर्तव्यं तदर्शयितुमाह -
तं आइत्तु न निहे न निक्खिवे जाणित्तु धम्मं जहा तहा, दिडेहि निव्वेयं गच्छिज्जा, नो लोगस्सेसणं चरे ॥१२८॥
तद्-सम्यग्दर्शनम् आदाय न गोपयेद् न निक्षिपेत् - त्यजेद् ज्ञात्वा धर्म - श्रुतचारित्ररूपं वस्तूनां वा स्वभावं यथातथा दृष्टेषु- रूपादिषु निर्वेदं गच्छेद् नो लोकस्यैषणां चरेदिति ॥१२८॥
यस्य चैषा लोकैषणा नास्ति तस्यान्याप्यप्रशस्ता मतिर्नास्तीति दर्शयति -
जस्स नत्थि इमा जाइ अण्णा तस्स कओ सिया ?, दिळं सुयं मयं विण्णायं जं एवं परिकहिज्जइ, समेमाणा पलेमाणा पुणो पुणो जाइं पकप्पंति ॥१२९॥
यस्य नास्ति इयं ज्ञातिः- लोकैषणाबुद्धिः अन्या - सावधप्रवृत्तिस्तस्य कुतः स्यात् ? यदिवा इयं ज्ञातिः - सम्यक्त्वमर्तियस्य नास्ति अन्या - विवेकिनी बुद्धिस्तस्य कुतः स्यात् ? दृष्टं श्रुतं मतं विज्ञातं यद् एतत् - सम्यक्त्वादिकं परिकथ्यते गणधरादिभिस्तत्र यत्नवता भवितव्यम् । ये पुनर्विषयलम्पटाः सावद्यारम्भप्रवृत्ताः स्युस्ते तस्मिन्नेव मनुष्यादिजन्मनि शाम्यन्तस्तथा मनोजेन्द्रियार्थेषु प्रलीयमानाः पुनः पुनः एकेन्द्रियादिकां जाति प्रकल्पयन्ति - विदधतीति ॥१२९।।
५०
* श्री आचाराङ्गसूत्रम् (अक्षरगमनिका)
Page #60
--------------------------------------------------------------------------
________________
एवं सति किं कर्तव्यमित्याह -
अहो अराओ य जयमाणे धीरे सया आगयपण्णाणे पमत्ते बहिया पास, अप्पमते सया परिक्कमिजासि त्ति बेमि ॥१३०॥
अहश्च रात्रिं च यतमानो धीरः सदा आगतप्रज्ञानः - स्वीकृतसदसद्विवेकस्त्वं प्रमत्तान् बहिः पश्य, तांश्च दृष्ट्वा अप्रमत्तः सन् सदा पराक्रमेथा इति ब्रवीमि ।।१३०॥ .
॥ अध्ययनं-४ : उद्देशकः-२ ॥ इह सम्यक्त्वमधिकृतं तत्र संसारमोक्षकारणे आश्रवनिर्जरे दर्शयितुमाह -
जे आसवा ते परिस्सवा, जे परिस्सवा ते आसवा, जे अणासवा ते अपरिस्सवा, जे अपरिस्सवा ते अणासवा, एए पए संबुज्झमाणे लोयं च आणाए अभिसमिचा पुढो पवेइयं ॥१३१॥
ये आश्रवास्ते परिश्रवाः - निर्जरास्पदानि भरतस्येव, ये परिश्रवास्ते आश्रवाः कण्डरिकस्येव, येऽनाश्रवाः - व्रतविशेषास्तेऽपि कर्मणः अपरिश्रवाः कोङ्कणार्यप्रभृतीनामिव, ये अपरिश्रवास्ते कणवीरलताभ्रामकक्षुल्लकस्येव अनाश्रवा भवन्तीति । यदिवा कर्माणि आश्रवन्तीत्याश्रवाः - बन्धका एव परिश्रवन्तीति परिस्रवाः - निर्जरकाः । अत्र चतुर्भतिका - प्रथम भङ्गपतिताः सर्वेऽपि चतुर्गतिकाः संसारिणस्तेषां प्रतिक्षणमुभयसद्भावात् तथा ये. आश्रवास्तेऽपरिस्रवा इति शून्योऽयं द्वितीयभङ्गको बन्धस्य शाटाविनाभावित्वात्, एवं येऽनास्रवास्ते परिस्रवाः एते च अयोगिकेवलिनस्तृतीयभङ्गपतिताः, चतुर्थभङ्गपतितास्तु सिद्धाः तेषामुभयाभावात् । एतानि पदानि संबुध्यमानस्तथा लोकं चाऽऽज्ञया अभिसमेत्य पृथक् पृथक् प्रवेदितं आश्रवोपादानं निर्जरोपादानं च ज्ञात्वा को नाम धर्मचरणं प्रति नोद्यच्छेदिति ? ||१३१।।
एतानि पदानि तीर्थकरगणधरैः प्रवेदितानि, अन्योऽपि तदाज्ञावर्ती चतुर्दशपूर्वादिः सत्त्वहिताय परेभ्य आवेदयतीत्येतद्दर्शयितुमाह - ..
आघाइ नाणी इह माणवाणं संसारपडिवण्णाणं संबुज्झमाणाणां विन्नाणपत्ताणं, अट्टावि संता अदुवा पमत्ता अहा सच्चमिणं ति बेमि, नाणागमो मच्चुमुहस्स अत्थि, इच्छापणीया वंकानिकेया कालगहिया निचयनिविट्ठा पुढो पुढो जाइं पकप्पयंति (एत्थ मोहे पुणो पुणो) ॥१३२॥
-
श्री आचारागसूत्रम् (अक्षरगमनिका) *
५१
Page #61
--------------------------------------------------------------------------
________________
आख्याति ज्ञानी इह मानवानां संसारप्रतिपन्नानां सम्बुध्यमानानां विज्ञानप्राप्तानां - संज्ञिभ्यो मुनिसुव्रतस्वामिघोटकदृष्टान्तेन । नागार्जुनीयास्तु पठन्ति - “आघाइ धम्म खलु से जीवाणं तंजहा संसारपडिवन्नाणं माणुसभवत्थाणं आरंभविणईणं दुक्खुव्वेअ-सुहेसगाणं धम्मसवणगवेसयाणं सुस्सुसमाणाणं पडिपुच्छमाणाणं विण्णाणपत्ताणं" एतच्च प्रायो गतार्थमेव... नवरमारम्भविनयिनामारम्भविनयः - आरम्भाभावः स विद्यते येषामिति मत्वर्थीयस्तेषामिति ।
यथा च ज्ञानी धर्ममाचष्टे तथा दर्शयति - आर्ता अपि सन्तः चिलातिपुत्रादय इव अथवा प्रमत्ता अपि शालिभद्रादय इव प्रतिपद्यन्ते यथा - सत्यमिदं कथ्यमानं कथितं चेति ब्रवीमि, नांऽनागमो मृत्युमुखस्य अस्ति । इच्छाप्रणीताः .. इच्छया संसाराभिमुखप्रणिताः, वक्रनिकेताः - पूर्वपदस्य दीर्घत्वात् असंयमस्याऽऽश्रयाः, कालगृहीताः - मृत्युना गृहीता धर्मचरणाय वा गृहीतो वृद्धावस्थादिरूपः कालो यैस्ते, निचयनिविष्टाः . धनादिनिचये निविष्टाः पृथक् पृथक् एकेन्दियादिजाति प्रकल्पयन्ति - प्रकुर्वन्ति । पाठान्तरं वा ‘एत्थ मोहे पुणो पुणो' तथा च - अत्र इच्छाप्रणीतादिके निमग्नाः पुनः पुनस्तत्कुर्वन्ति येन मोहाऽप्रच्युतिः कर्माऽप्रच्युतिर्वा स्यादिति ॥१३२॥
तदप्रध्युतौ च किं स्यादित्याह -
इहमेगेसि तत्थ तत्थ संथवो भवइ अहोववाइए फासे पडिसंवेयंति, चिटुं कम्मेहिं कूरेहिं चिटुं परिचिट्ठइ, अचिटुं कूरेहि कम्मेहिं नो चिट्ठ परिचिट्ठइ, एगे वयंति अदुवावि नाणी, नाणी वयंति अदुवावि एगे ॥१३३॥ ___ इहैकेषां तत्र तत्र - नरकतिर्यग्गत्यादिषु संस्तवो भवति, ततः किमित्याह - अधऔपपातिकान् - नरकादिभवान् स्पर्शान्- दुःखान् प्रतिसंवेदयन्ति । किं सर्वः अध औपपातिकान् स्पर्शान् प्रतिसंवेदयति आहोश्चित् कश्चिदेव ? न सर्व इति दर्शयति - यो भृशं कर्मभिः क्रूरैः वधबन्धादिभिर्वर्तते स भृशं तमस्तमादिस्थानेषु परितिष्ठति - उत्पद्यते, यस्तु न भृशं क्रूरैः कर्मभिर्वर्तते स न भृशं नरकेषु परितिष्ठति, इत्येके चतुर्दशपूर्वविदादयो वदन्ति अथवापि यद् ज्ञानी - केवली भाषते तदेव ज्ञानिनः श्रुतकेवलिनो वदन्ति अथवापि एके श्रुतकेवलिनो यद् वदन्ति तदेकमेव ।।१३३॥
" ५२
* श्री आचाराङ्गसूत्रम् (अक्षरगमनिका)
Page #62
--------------------------------------------------------------------------
________________
एकेषां सर्वार्थप्रत्यक्षत्वादपरेषां तदुपदेशप्रवृत्तेरिति, वक्ष्यमाणेऽप्येक-वाक्यतेति । तदाह -
आवंती केयावंती लोयंसि समणा य माहणा य पुढो विवायं वयंति, से दिटुं च णे, सुयं च णे, मयं च णे, विण्णायं च णे, उड्ढं अहं तिरियं दिसासु सवओ सुपडिलेहियं च णे-सवे पाणा, सब्वे जीवा, सब्बे भूया, सब्बे सत्ता, हन्तवा, अज्जावयबा, परियावेयवा, परिघेत्तव्वा, उद्दवेयव्वा, इत्थ वि जाणह नत्थित्थ दोसो अणारिय वयणमेयं, तत्थ जे आरिया ते एवं वयासी-से दुद्दिढं च भे, दुस्सुयं च भे, दुम्मयं च भे, दुविण्णायं च भे, उड्ढे अहं तिरियं दिसासु सव्वओ दुष्पडिलेहियं च भे, जं गं तुब्भे एवं आइक्खह, एवं भासह, एवं परूवेह, एवं पण्णवेह- सब्बे पाणा (४) हंतवा (५), इत्थवि जाणह नत्थित्थ दोसो, अणारिय-वयणमेयं, वयं पुण एवमाइक्खामो, एवं भासामो, एवं परूवेमो, एवं पण्णवेमो- सब्वे पाणा (४) न हंतव्वा १ न अजावेयव्वा २ न परिधित्तवा ३ न परियावेयव्वा ४ न उद्दवेयव्वा ५, इत्थवि जाणह नत्थित्थ दोसो आयरियवयणमेयं, पुवं निकाय समयं पत्तेयं पत्तेयं पुच्छिस्सामि, हं भो पवाइया (पावाउया) ? किं भे सायं दुक्खं उयाहु असायं ? समिया पडिवण्णे यावि एवं बूया-सवेसिं पाणाणं, सब्वेसिं भूयाणं, सब्वेसिं जीवाणं, सव्वेसिं सत्ताणं असायं अपरिनिव्वाणं महब्भयं दुक्खं त्ति बेमि ॥१३४॥ ___ यावन्तः केचन लोके श्रमणाश्च पृथक् पृथग् विवादं वदन्ति - विवदन्ते यदि वा धर्मविरुद्धवादं वदन्ति, तथाहि - यदहं वक्ष्ये तत् दृष्टं च नस्तीर्थकृता, श्रुतं च नः, मतं च नः, विज्ञातं च नः ऊर्ध्वमधस्तिर्यग्दिक्षु सर्वतः सुप्रत्युपेक्षितं च नः - सर्वे प्राणिनः, सर्वे भूताः, सर्वे जीवाः, सर्वे सत्त्वा हन्तव्या आज्ञापयितव्याः परितापयितव्या परिग्रहीतव्याः अपद्रापयितव्याः अत्रापि - धर्मचिन्तायामपि जानीथ नास्त्यत्र यागार्थं देवतोपयाचितकतया प्राणिहननादौ दोषः । आह च - अनार्यवचनमेतत्, तत्र ये आस्तेि एवमवादिषुः - तद् दुर्दुष्टं च वस्तीर्थकृता, दुश्रुतं च वः, दुर्मतं च वः, दुविज्ञातं च वः, ऊर्ध्वमधस्तिर्यग्दिक्षु सर्वतो दुष्प्रत्युपेक्षितं च वः, यद् यूयमेवमाचक्षध्वम् एवं भाषध्वम् एवं प्ररूपयत, एवं प्रज्ञापयत - सर्वे प्राणिनः ४ हन्तव्याः ५, अत्रापि - यागोपहारादौ जानीथ नास्ति अत्र - प्राण्युपमर्दानुष्ठाने दोषः । अनार्य-वचनमेतत् । वयं पुनः एवमाचक्ष्महे, एवं भाषामहे, एवं प्ररूपयामः, एवं प्रज्ञापयामः - सर्वे प्राणिनः ४ न हन्तव्याः ५, अत्रापि - धर्मचिन्तायां- जानीथ नास्ति अत्र - हननादिप्रतिषेधविधौ
श्री आचासणसूत्रम् (अक्षरगमनिका) *
५३
Page #63
--------------------------------------------------------------------------
________________
मं
व्यवस्थाप्य
दोषः । आर्यवचनमेतत् । पूर्वं समयम् प्रत्येकं प्रश्नयिष्यामि - भो प्रवादुकाः ! कि वः सातं दुःखम् उत असातम् ? सम्यक् प्रतिपन्नान् तान् चापि एवं ब्रूयात् सर्वेषां प्राणिनां सर्वेषां भूतानां सर्वेषां जीवानां सर्वेषां सत्त्वानाम् असातम् अपरिनिर्वाणं महद्भयं दुःखमिति सर्वेऽपि प्राणिनो न हन्तव्या इति ब्रवीमि ॥१३४||
॥ अध्ययनं - ४ : उद्देशकः - ३ ॥
सर्वेऽपि प्राणिनो न हन्तव्या इत्यन्यतीर्थिकानामुपदेशो दत्तः । इहापि स एवोपदेशो विश्वस्य दीयते -
उहि णं बहिया य लोगं, से सव्वलोगंमि जे केइ विष्णू, अणुवीइ पास निक्खित्तदंडा, जे केइ सत्ता पलियं चयंति, नरा मुयचा धम्मविउत्ति अंजू, आरंभजं दुक्खमिणं ति णच्चा, एवमाहु संमत्तदंसिणो, ते सव्वे पावाइया दुक्खस्स कुसला परिण्णमुदाहरंति इय कम्मं परिण्णाय सव्वसो ॥१३५॥
-
-
उपेक्षस्व बहिर्व्यवस्थितं च पाषण्डिलोकं यतः स उपेक्षकः सर्वस्मिँल्लोके ये केचिद् विद्वांसस्तेभ्योऽग्रणीः स्यात् यद्वा ये केचन विद्वांसस्ते निक्षिप्तदण्डा इत्येतदनुविचिंत्य पश्य । निक्षिप्तदण्डा ये केचन सत्त्वाः पलितं कर्म त्यजन्ति, ये नरा मृतार्चा - मृता संस्काराभावादर्चा- शरीरं येषां ते निष्प्रतिकर्मशरीराः, 'यदि वा अर्चा- तेजः स क्रोधः स च कषायोपलक्षणार्थः ततः अकषायिणस्ते च धर्मविद इति ऋजवः आरम्भजं दुःखमिदमिति ज्ञात्वा एवमाहुः - पूर्वोक्तमाहुः समत्वदर्शिनः सम्यक्त्वदर्शिनः समस्तदर्शिनो वा यस्मात्ते सर्वेऽपि सर्वविदः प्रावादिकाः प्रकर्षेण मर्यादया वदनशीला दुःखस्य तदुपादानस्य कर्मणो वा कुशलाः परिज्ञां प्रत्याख्यानपरिज्ञामुदाहरन्ति । कथमुदाहरन्तीति चेदुच्यते इति
एवं कर्म परिज्ञाय सर्वश उदाहरन्तीति ॥ १३५ ॥
यदि नाम कर्मपरिज्ञामुदाहरन्ति ततः किं कार्यमित्याह -
-
-
इह आणाकंखी पंडिए अणिहे, एगमप्पाणं संपेहाए धुणे सरीरं, कसेहि अप्पाणं जरेहि अप्पाणं- जहा जुन्नाई कट्ठाई हव्ववाहो पमत्थइ । एवं अत्तसमाहिए अणिहे, विगिंच कोहं अविकंपमाणे ॥ १३६ ॥
५४
इह मौनीन्द्र प्रवचने आज्ञाकाङ्क्षी पण्डितः अस्निहः अनिहतो वा एकमात्मानं सम्प्रेक्ष्य धुनीयाच्छरीरकं किं च कृशं कुरु आत्मानं शरीरकं
-
* श्री आचाराङ्गसूत्रम् (अक्षरगमनिका)
Page #64
--------------------------------------------------------------------------
________________
कर्म वा, तथा जरीकुरु आत्मानं शरीरकं यथा जीर्णानि काष्ठानि हव्यवाहः अग्निः प्रमथ्नाति । एवम् आत्मसमाहितः अस्निहः परित्यज्य क्रोधं अविकम्पमानश्च संस्तपोग्निना कर्मकाष्ठं दहेदिति ॥१३६॥
किं विगणय्यैतत्कुर्यादित्याह -
इमं निरुद्धाउयं संपेहाए, दुक्खं च जाण अदु आगमेस्सं, पुढो फासाई च फासे, लोयं च पास विफंदमाणं, जे निव्वुडा पावेहिं कम्मेहिं अणियाणा ते वियाहिया, तम्हा अतिविज्जो नो पडिसंजलिज्जासि त्ति बेमि ॥१३७॥
-
इदं मनुष्यत्वं निरुद्धायुष्कं परिगलितायुष्कं सम्प्रेक्ष्य क्रोधादिना दन्दह्यमानस्य यद् दुःखं तच्च जानीहि, अथवा तजनितकर्मविपाकाऽऽपादितम् आगमिष्यद् दुःखं जानीहि, पृथक् पृथक् दुःखान् स्पर्शान् च स्पृशेत् । लोकं च पश्य विस्पन्दमानं धावन्तमितश्चेतश्च, ये निर्वृताः विषयकषायाग्न्युपशमात् शीतीभूताः पापेषु कर्मसु अनिदानास्ते व्याख्याताः । तस्मात् अतिविद्यः सन् त्वं क्रोधाग्निना नो प्रतिसञ्चलेरिति ब्रवीमि ॥१३७॥
-
-
॥ अध्ययनं - - ४ : उद्देशकः-४ ॥
यः शीतीभूतः संवृताश्रवः स तपसा शरीरकमापीडयेत् प्रपीडयेदित्याह
आवीलए पवीलए निप्पीलए जहित्ता पुव्वसंजोगं हिच्चा उवसमं, तम्हा अविमणे वीरे, सारए समिए सहिए सया जए, दुरणुचरो मग्गो वीराणं अनियट्टगामीणं, विगिंच मंससोणियं, एस पुरिसे दविए वीरे, आयाणिजे वियाहिए, जे धुणाइ समुस्सयं वसित्ता बंभचेरंसि ॥१३८॥
-
आपीडयेत् प्रपीडयेत् निष्पीडयेत् तपसा शरीरकं त्यक्त्वा पूर्वसंयोगं धनधान्यादिपुत्रकलत्रादिकृतं यदिवा असंयमसंयोगं हित्वा प्रतिपद्य उपशमम् । यस्मात् कर्मक्षयायऽसंयमपरित्यागः तस्मात् अविमना वीरः । ततः संयमानुष्ठाने स्वारतः सुष्ठु आजीवनं रतः समितो ज्ञानादिना सहितः सदा यतेत । यतो दुरनुचरो मार्गो वीराणां अनिवर्तगामिनाम् अनिवर्तो मोक्षस्तत्र गमनशीलानाम् । तस्मात् विवेचय ह्रासं नय मांसशोणितं दर्पकारीति । एष तपस्वी पुरुषो द्रविकः - संयमी वीर आदानीयो व्याख्यातो यो धुनाति समुच्छ्रयं शरीरं कर्मोपचयं वा उषित्वा ब्रह्मचर्य इति ॥१३८||
उषित्वाऽपि बह्मचर्ये पुनर्मोहोदयात् प्रमत्तो भवतीत्याह -
-श्री आचाराङ्गसूत्रम् (अक्षरगमनिका ) *
-
५५
-
Page #65
--------------------------------------------------------------------------
________________
नित्तेहिं पलिच्छिन्नेहिं आयाणसोयगड्ढिए बाले, अव्वोच्छिन्नबंधणे अणभिक्कंतसंजोए तमंसि अवियाणओ आणाए लंभो नत्थि त्ति बेमि ॥१३९॥
नेत्रादीन्द्रियैः परिच्छिन्नैः यथास्वं विषयग्रहणं प्रति निरुद्धैः आदानं कर्म तस्य श्रोतांसि इन्द्रियविषया मिथ्यात्वादि वा तेषु गृद्धः आदानश्रोतोगृद्धः स्याद् बालः । एवम्भूतो यश्च अव्यवच्छिन्नबन्धनः अनभिक्रान्तसंयोगस्तस्य विषयलाम्पट्ये मोहात्मके वा तमसि वर्तमानस्य अविजानत आज्ञाया लाभः बोधिलाभो नास्तीति ब्रवीमि ॥१३९॥
-
-
एतदेवाह -
जस्स नत्थि पुरा पच्छा मज्झे तस्स कुओ सिया ?, से हु पन्नाणमंते बुद्धे आरंभोवरए संममेयंति पासह, जेण बंधं वहं घोरं परियावं च दारुणं पलिछिंदिय बाहिरगं च सोयं, निक्कंमदंसी इह मच्चिएहिं, कम्माणं सफलं दद्रुण तओ निजाइ वेवी ॥१४०॥
1
यस्य बोधिलाभः अतिक्रान्तसुखस्मरणं वा नास्ति पुरा, पश्चादपि न भावी, मध्ये- वर्तमानकाले तस्य कुतः स्यात् ? स हि यस्मान्निवृत्तभोगाभिलाषः तस्मात् प्रज्ञानवान् बुद्ध आरम्भोपरतः एतच्चारम्भोपरमणं सम्यगेतत् सम्यक्त्वमेतद्वेत्येवं पश्यत । येन कारणेन सावद्यारम्भप्रवृत्तो बन्धं वधं घोरं परितापं च दारुणमवाप्नोति, तेन कारणेन परिच्छिन्द्य- अपनीय बाह्यं च धनधान्यादिरूपं हिंसादिरूपं वा च शब्दादान्तरं च रागद्वेषात्मकं विषयपिपासाऽऽख्यं वा स्रोतः स निष्कर्मदर्शी - मोक्षदर्शी भवेद् इह मर्त्येषु कर्मणां सफलत्वं दृष्ट्वा ततः कर्मोपादानाद् आस्रवाद्वा निर्याति वेदविद् - आगमवेत्तेति || १४०||
५६
-
न केवलस्य ममैवायमभिप्रायः, सर्वेषां तीर्थकराणामयमाशय इति दर्शयितुमाह -
जे खलु भो ! वीरा ते समिया सहिया सया जया संघडदंसिणो आओवरया अहातहं लोयं उवेहमाणा पाइणं पडिणं दाहिणं उइणं इय सच्चसि परि (चिए) चिट्ठिसु, साहिस्सामो नाणं वीराणं समियाणं सहियाणं सयाजयाणं संघडदंसीणं आओवरयाणं अहातहं लोयं समुवेहमाणाणं किमत्थि उबाही ?, पासगस्स न विजइ नत्थि त्ति बेमि ॥ १४१ ॥
ये खलु भो ! संघटदर्शिनः पूर्वापरविस्तरदर्शिनो निरन्तरदर्शिनो वा
* श्री आचाराङ्गसूत्रम् (अक्षरगमनिका)
Page #66
--------------------------------------------------------------------------
________________
सर्वज्ञा वीरास्ते समिताः सहिताः ज्ञानादिभिः सदा यता निरन्तरदर्शिन
आत्मोपरता यथातथं लोकं - चतुर्दशरज्ज्वात्मकं कर्मलोकं वा उपेक्षमाणाः - - पश्यन्तः प्राच्या प्रतीच्यां दक्षिणस्यां उदीच्यां व्यवस्थिता इत्येवं सत्ये- ऋते तपसि संयमे वा परिचिते तस्थुः । तेषां सत्यवतां कथयिष्यामि ज्ञानं - अभिप्रायो वीराणां समितानां सहितानां सदा यतमानानां निरन्तरदर्शिनाम् आत्मोपरतानां यथातथं लोकं समुपेक्षमाणानाम् किमस्ति उपाधिः कर्मजनितः ? आहोस्विद् न विद्यते ? इति प्रश्ने त ऊचुः - पश्यकस्य न विद्यते, नास्तीति-ब्रवीमि ॥१४१।।
॥५॥ लोकसाराध्ययनं- : उद्देशकः-१ ॥ अनन्तरं ज्ञानं प्रतिपादितं तस्य च चारित्रफलत्वात् तत्पालनार्थं च अचारित्रिणां दोषानाह -
आवंती केयावंती लोयंसि विप्परामुसंति अट्ठाए अणट्ठाए, एएसु चेव विप्परामुसंति, गुरु से कामा, तओ से मारते, जओ से मारते तओ से दूरे, नेव से अंतो नेव दूरे ॥१४२॥
यावन्तः केचन जीवा लोके विपरामृशन्ति - हिंसन्ति अर्थाय अनर्थाय वा एतेषु चैव विपरामृशन्ति - यान् जीवान् हिंसन्ति तेष्वेव जीवयोनिषूत्पद्यन्ते हिंसाफलं च दुःखमनुभवन्ति । नागार्जुनीयास्तु पठन्ति - 'जावंति केइ लोए छक्कायवहं समारंभति अट्ठाए अणट्ठाए वा' इत्यादि गतार्थम् । यतो गुरवस्तस्य कामाः, ततः स मारान्ते वर्तते, यतः स मारान्ते ततः स परमपदात् तदुपायाच्च सुखाद्वा दूरे । सम्यग्दृष्टिरेतत्प्रणेता वा नैव स अन्ते नैव दूरे भिन्नग्रन्थित्वात् घातिकर्मक्षयाद्वेति ।।१४२।।
___ यो हि भिन्नग्रन्थिको दुरापावाप्तसम्यक्त्वः संसारारातीयतीरवर्ती स किमध्यवसायी स्यादित्याह -
से पासइ फुसियमिव कुसग्गे पणुन्नं निवइयं वाएरियं एवं बालस्स जीवियं मंदस्स अवियाणओ, कुराई कम्माई बाले पकुब्बमाणे, तेण दुक्खेण मूढे विप्परिआसमुवेइ, मोहेण गन्भं मरणाइ एइ, एत्थ मोहे पुणो पुणो ॥१४३॥
स पश्यति पृषदिव - उदकबिन्दुमिव कुशाग्रे प्रणुन्नं वातेरितं निपतितम् एवं बालस्य जीवितं मन्दस्य अक्जिानतः । परमार्थमजानानः क्रूराणि कर्माणि
श्री आचाराणसूत्रम् (अक्षरगमनिका) *
५७
Page #67
--------------------------------------------------------------------------
________________
बालः प्रकुर्वमाणस्तेन दुःखेन मूढो विपर्यासमुपैति, - मोहेन गर्भमरणादिकम् एति । अत्र मोहे - मोहकार्ये गर्भमरणादिके पुनः पुनः पर्यटति ।।१४३।। __एवं संसारे दुखं प्रेक्ष्याऽत्र पुनः पुनर्न भवाम इति संशयतोऽपि मोक्षे तदुपाये संयमे वा प्रवृतिर्भवतीत्याह -
संसयं परिआणओ संसारे परिन्नाए भवइ, संसयं अपरियाणओ संसारे अपरिन्नाए भवइ ॥१४४॥
संशयम् अर्थानर्थगतं परिजानतः संसारः परिज्ञया अनर्थतया ज्ञातः परिहृतश्च भवति, संशयम् अपरिजानतः संसारः अपरिज्ञातः अपरिहतश्च भवति, अर्थानर्थसंशयस्य प्रवृत्तिनिवृत्त्यङ्गत्वादिति ॥१४४।।
___ कुतः पुनरेतन्निश्चीयते ? संसारपरिज्ञानकार्यविरत्युपलब्धेः । तत्र सर्वविरतिप्रतिष्ठां विरतिं निर्दिदिक्षुराह
जे छेए से सागारियं न सेवइ, कटु एवमविआणओ बिइआ मंदस्स बालया, लद्धा हुरत्था पडिलेहाए आगमित्ता आणविजा अणासेवणयाए त्ति बेमि ॥१४५॥ ___यश्छेकः स मैथुनं न सेवते, कृत्वा एवम्- अकार्यम् अविज्ञापयतो द्वितीया मन्दस्य बालता, नागार्जुनीयास्तु पठन्ति - ‘जे खलु विसए सेवई सेवित्ता वा नालोएइ परेण वा पुट्ठो निण्हवइ अहवा तं परं सएण वा दोसेण पाविट्ठयरेण वा दोसेण उवलिंपिज्जति, सुगमम् । यद्येवं ततः किं कुर्यात् ? आह-लब्धानप्यर्थान् चित्ताद्वहिः कुर्यात् । यदि वा तद्विपाकद्वारेण प्रत्युपेक्ष्य तत आगम्य-ज्ञात्वा 'मूलमेयमहम्मस्स महादोससमुस्सयं' इत्यादि परान् आज्ञापयेत् अनासेवनतयेति ब्रवीमि ॥१४५।। एतच वक्ष्यमाणं ब्रवीमीति तदाह -
पासह एगे रूवेसु गिद्धे परिणिजमाणे, इत्थ फासे पुणो पुणो, आवंती केयावंती लोयंसि आरंभजीवी, एएसु चेव आरंभजीवी, इत्थवि बाले परिपञ्चमाणे रमइ पावेहिं कम्मेहिं असरणे सरणंति मन्नमाणे, इहमेगेसिं एगचरिया भवइ, से बहुकोहे बहुमाणे बहुमाए बहुलोभे बहुरए बहुनडे बहुसढे बहुसंकप्पे आसवसत्ती पलिउच्छन्ने उठ्ठियवायं पवयमाणे, मा मे केइ अदक्खू अन्नायपमायदोसेणं, सययं मूढे धम्मं नाभिजाणइ, अट्टा पया माणव ! कम्मकोविया जे अणुवरया अविजाए पलिमुक्खमाहु आवट्टमेव अणुपरियटुंति त्ति बेमि ॥१४६॥
। ५८
*
श्री आचाराङ्गसूत्रम् (अक्षरगमनिका)
Page #68
--------------------------------------------------------------------------
________________
पश्यत एकान् रूपेषु गृद्धान् इन्द्रियैर्विषयाभिमुखं नरकादियातनास्थानेषु वा परिणाीयमानान् । अत्र-संसारे दुःखान् स्पर्शान् पुनः पुनः प्राप्नुयुः पाठान्तरं वा ‘एत्थ मोहे पुणो पुणो' संसारे अज्ञानरूपमोहे चारित्रमोहे वा पुनः पुनः भवेयुरिति । यावन्तः केचन लोके आरम्भजीविनः, एतेषु चैव पार्श्वस्थादिः आरम्भजीवी पूर्वोक्तदुःखभाग् भवति । अत्रापि संयमेऽपि बालो विषयपिपासया परिपच्यमानो रमते पापैः कर्मभिः सावद्यानुष्ठानं यद् अशरणमेव तत् शरणमिति मन्यमानः । इह एकेषाम् एकचर्या - एकाकिनो विहरणं भवति । स एकाकी बहुक्रोधः, बहुमानः, बहुमायी, बहुलोभी, बहुरजाः, बहुनटः, बहुशठः, बहुसङ्कल्पः , आश्रवसक्ती- हिंसाधनुषङ्गवान्, पलितावच्छन्नः-कर्मावच्छन्न उत्थितवादं - धर्मचरणायोद्यतः अहमित्यादि प्रवदन् मा माम् - अकार्यकारिणं केचन अद्राक्षुरिति प्रछन्नमकार्यं सेवते । एतच्चाकार्यम् अज्ञानप्रमाददोषेण विधत्ते । किञ्च - सततं मूढो धर्मं नाभिजानाति । तत एव आर्ता विषयकषायैः प्रजाः-जन्तवो मानव ! कर्मकोविदाः - कर्मबन्धे कोविदा ये अनुपरताः सावद्यानुष्ठानेभ्योः ये च अविद्यातः परिमोक्षमाहुस्ते धर्ममजानाना आवर्तमेव-संसारमनुपरिवर्तन्त इति ब्रवीमि ॥१४६।।
॥ अध्ययनं-५ : उद्देशकः-२ ॥ अनन्तरं विरतेरभावान्न मुनिस्त्युिक्तम् । इह तु तद्विपर्ययेण यथा मुनिभावः स्यात्तथोच्यते -
आवन्ती केयावन्ती लोए अणारंभजीविणो तेसु, एत्थोवरए तं झोसमाणे, अयं संधीति अदक्खू, जे इमस्स विग्गहस्स अयं खणे त्ति अन्नेसी एस मग्गे आरिएहिं पवेइए, उठ्ठिए नो पमायए, जाणित्तुं दुक्खं पत्तेयं सायं, पुढोछंदा इह माणवा पुढो दुक्खं पवेइयं, से अविहिंसमाणे अणवयमाणे, पुट्ठो फासे विपणुन्नए ॥१४७॥
__ यावन्तः केचन लोके अनारम्भजीविनस्ते तेषु- गृहिषु साधवः पङ्कजवत् निर्लेपा भवन्ति । अत्र- आर्हते धर्मे व्यवस्थित उपरतः पापारम्भात् तत्-कर्म क्षपयन् मुनिभावं भजते । अयं सन्धिः-अवसर इति अद्राक्षीद् भवानित्यतः क्षणमप्येकं न प्रमादयेत् । कश्च न प्रमादयेद् इत्याह - यः अस्यौदारिकस्य विग्रहस्य-शरीरस्य अयं प्रमादविधुननस्य क्षणः - अवसर इति अन्वेषी । एष मार्ग आर्यैः प्रवेदित इति धर्मचरणाय उत्थितो न प्रमादयेत् ज्ञात्वा दुःखं
श्री आवाराणसूत्रम् (अक्षरगमनिका) *
५९
Page #69
--------------------------------------------------------------------------
________________
प्रत्येकं सातं च, पृथक्छन्दा इह मानवास्तेषां पृथग्दुःखं प्रवेदितम् । एवं सति स अनारम्भजीवी अविहिंसन् अनपवदन्-मृषावादमब्रुवन् स्पृष्टः परिषहोपसर्गः स्पर्शान्-शीतोष्णादीन् – सहिष्णुतया विप्रणोदयेत् न दुःखासिकयाऽऽत्मानं भावयेदिति ॥१४७||
यो हि सम्यक्करणतया परिषहान् सहते स किंगुणः स्यादित्याह -
एष समिया परियाए वियाहिए, जे असत्ता पावेहिं कम्मेहिं उदाहु ते आयंका फुसंति, इति उदाहु धीरे ते फासे पुट्ठो अहियासइ, से पुवं पेयं पच्छापेयं भेउरधम्म, विद्धंसणधम्ममधुवं, अणिइयं, असासयं चयावचइयं, विप्परिणामधम्म, पासह चेयं स्वसंधिं ॥१४॥
एष सम्यक् शमिता वा- शमिनो भावो वा पर्यायः - प्रवज्या व्याख्यातः, ये असक्ताः पापेषु कर्मसु कदाचित् तान् आतङ्काः स्पृशन्ति । इति- एतद्वक्ष्यमाणम् उदाहृतवान् धीरः - तीर्थकृत् तद्यथा - तान् स्पर्शान् स्पृष्टः सन् अध्यासयेत्-सहेत, किमाकलय्येत्याह - स एतद् भावयेत्पूर्वमप्येतत् पश्चादप्येतद् मयैव सोढव्यं, अपि च एतच्छरीरं भिदुरधर्म -विध्वंसनधर्ममध्रुवमनित्यमशाश्वतं चयापचयिकं विपरिणामधर्मं, इत्यत्र का मुर्छा ? अपि तु साफल्यं नय, एतदेवाह- पश्यतैनं रूपसन्धिंकुशलाऽनुष्ठानाऽवसरमिति ॥१४८।।
एतत्पश्यतश्च यत्स्यात्तदाह -
समुप्पेहमाणस्स इक्काययणरयस्स इह विप्पमुक्कस्स नत्थि मग्गे विरयस्स त्ति बेमि ॥१४९॥
समुत्प्रेक्षमाणस्य - पश्यतो भिदुरधर्मादिकं शरीरम् एकायतनरतस्य ज्ञानादित्रयरतस्य, इह विप्रमुक्तस्य नास्ति नरकादिमार्गो विरतस्येति ब्रवीमि ।।१४९।।
अनन्तरं विरत उक्तस्तद्विपरीतस्तु परिग्रहवानित्याह -
आवंती केयावंती लोगंसि परिग्गहावंती, से अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतं वा अचित्तमंतं वा एएसु चेव परिग्गहावंती, एतदेव एगेसिं महन्भयं भवइ, लोगवित्तं च णं उवेहाए, एए संगे अवियाणओ ॥१५०॥
यावन्तः केचन लोके परिग्रहवन्तः, तद्-परिग्रहवत्वम् अल्पं वा बहु वा
६०
* श्री आचारागसूत्रम् (अक्षरगमनिका)
Page #70
--------------------------------------------------------------------------
________________
अणु वा स्थूलं वा चित्तवद् वा अचित्तवद्वा, एतेषु-अल्पादिद्रव्येषु यदिवा परिग्रहवत्सु मुर्छा कुर्वन्तो व्रतिनोऽपि परिग्रहवन्तो भवन्ति । एतदेवपरिग्रहवत्वम् एकेषां महाभयं भवति । लोकवित्तं लोकवृत्तं वा-आहारादिचतुःसंज्ञात्मकं चोत्प्रेक्ष्य- ज्ञात्वा एतान् सङ्गान् अविजानतः - अकुर्वाणस्य महाभयं न भवतीति ।।१५०॥
किंच -
से सुपडिबद्धं सूवणीयंति नचा पुरिसा परमचक्खू विपरिक्कमा, एएसु चेव बंभचेरं त्ति बेमि, से सुयं च मे, अज्झत्थयं च मे, बंधपमुक्खो अज्झत्थेव, इत्थ विरए अणगारे दीहरायं तितिक्खए, पमत्ते बहिया पास, अप्पमत्तो परिवए, एवं मोणं सम्मं अणुवासिज्जासि त्ति बेमि ॥१५१॥ __तस्य-परिग्रहपरिहर्तुः सुप्रतिबद्धं सूपनीतं ज्ञानादि भवतीति ज्ञात्वा हे पुरुष ! परमचक्षुः - ज्ञानचक्षुर्मोक्षैकदृष्टिर्वा संयमे पराक्रमस्व । एतेषु - परिग्रहविरतेषु चैव ब्रह्मचर्यमिति ब्रवीमि । तत् श्रुतं च मया, तत् अध्यात्म - चेतसि व्यवस्थितं च मे, किं तत् ? बन्धप्रमोक्षः बन्ध सकाशात् प्रमोक्षः अध्यात्मन्येवेति अत्र - परिग्रहे विरतोऽनगारो दीर्घरात्रं - यावज्जीवम् तितिक्षते । प्रमत्तान् बहिः पश्य, दृष्टवा च अप्रमत्तः सन् परिव्रजेत् । एतन्मौनं - मुनिभावं सम्यग् अनुवासयेः - प्रतिपालयेरित्यर्थः । ब्रवीमीति पूर्ववत् ॥१५१॥
॥ अध्ययनं-५ : उद्देशकः-३ ॥ अनन्तरं मौनं सम्यगनुपालयेदित्युक्तं तचाऽपरिग्रहवत्वात् भवतीत्युच्यते -
आवंती केयावंती लोयंसि अपरिग्गहावंती, एएसु चेव अपरिग्गहावंती, सुचा वइ मेहावी पंडियाण निसामिया समियाए धम्मे आरिएहिं पवेइए जहित्थ मए संधी झोसिए, एवमन्नत्थ संधी दुजोसए भवइ, तम्हा बेमि नो निहणिज्ज वीपिं ॥१५२॥ ____ यावन्तः केचन लोके अपरिग्रहवन्तः ते यतयः । एतेषु-अल्पादि-द्रव्येषु यदिवा परिग्रहवत्स मर्छमकर्वन्तः चैव अपरिग्रहवन्तो भवन्ति । श्रुत्वा वाचं मेधावी तथा पण्डितानां तद्वचनं निशम्य त्यागादपरिग्रहो भवति । समतया शमितया वा धर्म आर्यैः प्रवेदितः । यथाऽत्र-मोक्षमार्गे मया सन्धिः
श्री आचारागसूत्रम् (अक्षरगमनिका) *
६१
Page #71
--------------------------------------------------------------------------
________________
मोक्षसन्धिः - ज्ञानादिको झोषितः - सेवितः कर्मसन्धिर्वा क्षपितः एवमन्यत्र-अन्यतीर्थिकप्रणीते मोक्षमार्गे सन्धिटुझेष्यो भवति । तस्माद् ब्रवीमि नो निहन्यात्- निगूहयेद् वीर्यमिति ॥१५२।।
कश्चैवंभूतः स्यादित्याह -
जे पुबुलाइ नो पच्छानिवाई, जे पुबुट्ठाइ पच्छानिवाइ, जे नो पुबुट्ठायी नो पच्छानिवाइ, सेऽवि तारिसिए सिया, जे परिन्नाय लोगमन्नेसयंति ॥१५३॥
यः पूर्वोत्थायी नो पश्चान्निपाती-सिंहतया निष्क्रान्तः सिंहतया विहारी । यः पूर्वोत्थायी पश्चान्निपाती - नन्दिषेणवत् । तृतीयभङ्गस्य चाभावादनुपादानं स चायम्-जे नो पुव्वुट्ठायी पच्छानिवाती । यो नो पूर्वोत्थायी नो पश्चान्निपाती-चतुर्थभङ्गोऽयं सम्यग्विरतेरभावात् गृहस्थाः शाक्यादयो वा तेषामाश्रवद्वाराणामुभयेषामप्यसंवृतत्वात् उदायिनृपमारकवत् सोऽपि तादृशः स्यात् शाक्यादयोऽपि गृहस्थतुल्या एव । ये- स्वयूथ्याः पार्श्वस्थादयो उभयपरिज्ञया लोकं परिज्ञाय पुनः पचनपाचनाद्यर्थं तमेव लोकमन्वेषयन्ति तेऽपि गृहस्थतुल्या एव भवेयुरिति ।।१५३॥
स्वमनीषिकापरिहारार्थमाह -
एवं नियाय मुणिणा पवेइयं, इह आणाकंखी पंडिए अणिहे, पुवावररायं जयमाणे, सया सीलं सुपेहाए सुणिया भवे अकामे अझंझे, इमेण चेव जुज्झाहि किं ते जुझेण बज्झओ ? ॥१५४॥ ___ एतद्-उत्थानपतनादिकं ज्ञात्वा मुनिना -तीर्थकृता प्रवेदितम् । इहमौनीन्द्रप्रवचने आज्ञाकाङ्क्षी पण्डितः अस्निहः पूर्वापररात्रं यतमानः सदाचारमाचरेत् । किंच - सदा शीलं सम्प्रेक्ष्य श्रुत्वा भवेद् अकामः अझञ्झः, अनेनैव स्वैरिणा शरीरेण सार्धं युद्धस्व किं ते युद्वेन बाह्यतः ? नातोऽपरं दुष्करमस्तीति ॥१५४॥
किंत्वियमेव सामग्री अगाधसंसारार्णवे पर्यटतो भवकोटिसहस्रेष्वपि दुष्पापेति दर्शयितुमाह -
जुद्धारिहं खलु दुल्लहं, जहित्य कुसलेहिं परिन्नाविवेगे भासिए, चुए हु बाले गन्भाइसु रज्जइ अस्सिं चेयं पवुचइ, रूवंसि वा, छणंसि वा से हु एगे संविद्धपहे मुणी, अन्नहा लोगमुवेहमाणे, इय कम्म परिणाय सब्बसो से न हिंसइ, संजमइ नो पगभइ, उवेहमाणो पत्तेयं सायं, वण्णाएसी नारंभे कंचणं सबलोए एगप्पमुहे विदिसप्पइन्ने निविण्णचारी अरए पयासु ॥१५५॥
६२
* श्री आचारागसूत्रम् (अक्षरगमनिका)
Page #72
--------------------------------------------------------------------------
________________
युद्धार्ह मानुष्यमौदारिकशरीरं वा खलु दुर्लभं यथाऽत्र कुशलैः परिज्ञाविवेको भाषित, : तथाहि - धर्मात् च्युतो बालोऽज्ञः खलु गर्भादिषु रज्यते । 'रिज्जई 'त्ति पाठान्तरमाश्रित्य गर्भादिषु रीयते - गच्छतीत्यर्थः । अस्मिन् च मौनीन्द्रप्रवचने एतत् - पूर्वोक्तं वक्ष्यमाणं च प्रोच्यते यथारूपे च - रूपादिषु क्षणे - हिंसादिषु वा यः प्रवर्तते स गर्भादिषु गच्छति । यस्तु निवर्तते स जितेन्द्रियः खलु एक संविद्धपथः क्षुण्णपथः ‘संविद्धभयो’ पाठान्तरमाश्रित्य दृष्टभयो मुनिः स्यात्, अन्यथा - कषायाभिभूतं हिंसादिषु प्रवृत्तं लोकमुत्प्रेक्षमाणः एवं हिंसादिभिः कर्म परिज्ञाय सर्वतः स न हिनस्ति । किंच- संयमयति नो प्रगल्भते, उत्प्रेक्षमाणः प्रत्येकं सातं वर्णादेशी - कीर्तिश्लाघार्थी सन् नारभते कञ्चन पापारम्भं, यदिवा तपः संयमादिकं नारभते, यद्वा रूपाद्यभिलाषुकः सन् नोद्वर्तनादिकमारभते । सर्वलोके एक प्रमुखो विदिक्प्रतीर्णो - मोक्षसंयमादन्या दिक् तां प्रकर्षेण तीर्ण इति, विदिक्प्रतिज्ञो वा निर्विण्णचारी प्रजासु प्राणिषु अरतः आरम्भाप्रवृत्तो निर्ममत्वो वा नारभते कञ्चनेति ।। १५५।।
-
यश्च प्रजास्वरतः आरम्भरहितः स किम्भूतः स्याद् इति आह
-
-
-
से वसुमं सव्वसमन्नागयपन्नाणेणं अप्पाणेणं अकरणिज्जं पावकम्मं तं नो अन्नेसी, जं संमंति पासहा तं मोणंति पासहा, जं मोणंति पासहा तं संमंति पासहा, न इमं सकं सिटिलेहिं अद्दिजमाणेहिं गुणासाएहिं वंकसमायारेहिं पमत्तेहिं गारमावसंतेहिं, मुणी मोणं समायाए धुणे सरीरगं पंतं लुहं सेवंति वीरा सम्मत्तदंसिणो, एस ओहन्तरे मुणी, तिण्णे मुत्ते विरए वियाहिए त्ति बेमि ॥१५६॥
स वसुमान् संयमी सर्वसमन्वागतप्रज्ञानेन सम्यक स्वीकृत - सर्वसदसद्विवेकेन आत्मना अकरणीयं पापकर्म तद् नो अन्वेषति । यत् सम्यक् प्रज्ञानं सम्यक्त्वं वा इति एतत् पश्यत तद् मौनं- मुनित्वम् इति एतत् पश्यत यद् मौनम् इति एतत् पश्यत् तत् सम्यक्त्वं इति एतत् पश्यत सम्यक्त्वज्ञानचरणानामेकताऽध्यवसेयेति भावार्थः 1 न सम्यक्त्वादित्रयम् अनुष्ठातुं शिथिलैः आर्द्रीयमानैः स्नेहादाद्रक्रियमाणैः, गुणास्वादैः-विषयलम्पटैः, वक्रसमाचारैः प्रमत्तैः अगारमावसद्भिः आद्याक्षरलोपात् गृहस्थैः ।
श्री आचाराङ्गसूत्रम् (अक्षरगमनिका ) * ६३
-
एतत् पुत्रकलत्रादिमायाविभिः मुनिर्मीनं संयमं
Page #73
--------------------------------------------------------------------------
________________
S
समादाय धुनीयात् शरीरकं, औदारिकं कार्मणं वा । प्रान्तं रूक्षं सेवन्ते वीराः समत्वदर्शिनः सम्यग्दर्शिनो वा । एष ओघन्तरो - भावौघं संसारं तरति मुनिः । तीर्णो मुक्तो विरतो व्याख्यात इति ब्रवीमि ॥१५६॥ - ॥ अध्ययनं - ५ : उद्देशकः -४ ॥
अनन्तरं विरत एव मुनिर्भवतीति प्रतिपादितम् । इह एकचरस्य मुनित्वाऽभावे दोषोद्भावनतः
कारणमाह -
-
गामाणुगामं दूइजमाणस्स दुज्जायं दुप्परकंतं भवइ अवियत्तस्स भिक्खुणो ॥१५७॥
ग्रामानुग्राम दूयमानस्य-विहरती दुर्यातम् अर्हन्नकस्येव दुष्टव्यन्तरीजङ्घाछेदवत्, दुष्पराक्रान्तं - स्थूलभद्रेर्ष्याश्रितोपकोशागृहसाधोरिव दुष्टं पराक्रान्तं स्थानमेकाकिनो भवति अव्यक्तस्य श्रुतवयोभ्याम् भिक्षोरिति ।। १५७|| एवमजातसूत्रवयःपक्षस्तीर्थिकध्वाङ्गादिभिर्विलुप्यते गच्छालयान्निर्गतो वाङ्मात्रेणापि चोदितः सन् इति एतदर्शयितुमाह -
वयसावि एगे बुइया कुंप्पंति माणवा, उन्नयमाणे य नरे महया मोहेण मुज्झइ, संबाहा बहवे भुजो २ दुरइक्कम्मा अन्नाणओ अपासओ, एयं ते मा होउ, एयं कुसलस्स दंसणं, तद्दिट्ठिए तम्मुत्तिए तप्पुरक्कारे तस्सन्नी तन्निवेसणे, जयं विहारी चित्तनिवाइ पंथनिज्झाइ पलिबाहिरे, पासिय पाणे गच्छिज्जा ॥१५८ ॥
६४
वचसाऽपि एके उक्ताः - चोदिताः कुप्यन्ति मानवाः । उन्नतो मानो यस्य स उन्नतं वाऽऽत्मानं मन्यते इति उन्नतमानः अथवा उन्नम्यमानः केनचित् नरो महता मोहेन मुह्यति । सम्बाधाः बह्वयो भूयो भूयः स्युर्दुरतिक्रमाः अजानतः अपश्यतः 1 एतत् बाधादुरतिक्रमणीयत्वम् ते मा भवतु । एतत्-पूर्वोक्तमुपदेशरूपं कुशलस्य श्रीवर्धमानस्वामिनो दर्शनम् । तस्मात् तद्दृष्ट्या आचार्यदृष्ट्या, अग्रेऽपि तदाऽऽचार्यपरामर्शः तन्मुक्त्या तदुक्तसर्वसङ्गमुक्त्या, तत्पुरस्कारः सर्वकार्येषु तं पुरस्कर्तुं शीलमस्येति, तत्संज्ञी - तस्य संज्ञा ज्ञानं तद्वान्, तन्निवेशनः गुरोर्निवेशनस्थानं यस्य स सदा गुरुकुलवासी स्यात् । यतमानो विहारी स्यात्, चित्तनिपाती - आचार्याभिप्रायेण निपतितुं - प्रवर्तितुं शीलमस्येति, पथनिर्ध्यायी - क्वचिद्गतस्य गुरोः पन्थानं
* श्री आचाराङ्गसूत्रम् ( अक्षरगमनिका )
Page #74
--------------------------------------------------------------------------
________________
निर्यातुं - द्रष्टुं शीलमस्येति, पर्यबाह्यः - परि - समन्तात् गुरोरवग्रहात् पुरतः पृष्ठतो वाऽवस्थानात् सदा कार्यमृतेऽबाह्यः स्यात्, क्वचित् कार्यादौ गुदिना प्रेषितः सन् दृष्ट्वा प्राणिनो गच्छेदिति ।।१५८।।
किं च -
से अभिक्कममाणे, पडिक्कममाणे संकुचमाणे पसारेमाणे विणिवट्टमाणे संपलिजमाणे, एगया गुणसमियस्स रीयओ कायसंफासं समणुचिन्ना एगतिया पाणा उहायंति, इहलोग वेयणविज्जावडियं, जं आउट्टिकयं कम्मं तं परिन्नाय विवेगमेइ, एवं से अप्पमाएण विवेगं किट्टइ वेयवी ॥१५९॥
स भिक्षुः अभिक्रामन् प्रतिक्रामन् सङ्कुचन् प्रसारयन् समस्ताऽशुभ-व्यापारात् विनिवर्तमान सम्परिमृजन् - सम्यक् समन्ताद्धस्तपादादीनव-यवांस्तन्निक्षेपस्थानानि वा रजोहरणादिना मृजन् गुरुकुलवासे वसेत् । एकदा गुणसमितस्य रीयमाणस्य कायस्पर्श समनुचीर्णा आगता एके प्राणिनोऽपद्रान्ति -प्राणैर्विमुच्यन्ते, तन्निमित्तम् इहलोकवेदनवेद्याऽऽपतितं कर्म, यत्पुनः आकुट्टीकृतं कर्म तत् परिज्ञाय विवेकमेति - प्रायश्चित्तमभावं वा गच्छति । एवं तस्याऽप्रमादेन विवेकं कीर्तयति वेदविदिति ।।१५९।।
किम्भूतः पुनस्प्रमादवान् भवतीत्याह -
से पभूयदंसी पभूयपरिन्नाणे उवसंते समिए सहिए सयाजए, दटुं विप्पडिवेएइ अप्पाणं किमेस जणो करिस्सइ ? एस से परमारामो जाओ लोगंमि इत्थीओ, मुणीणा हु एयं पवेइयं, उब्वाहिजमाणे, गामधम्मेहिं अवि निब्बलासए अवि ओमोयरियं कुजा, अवि उटुं ठाणं ठाइजा, अवि गामाणुगामं दूइजिजा, अवि आहारं वुच्छिदिज्जा, अवि चए इत्थीसु मणं, पुवं दंडा पच्छा फासा, पुवं फासा पच्छा दंडा, इचेए कलहासंगकरा भवंति, पडिलेहाए आगमित्ता आणविजा अणासेवणाए तिबेमि, से नो काहिए नो पासणिए नो संपसारणिए नो मामए णो कयकिरिए वइगुत्ते अज्झप्पसंवुडे परिवज्जइ सया पावं एवं मोणं समणुवासिज्जासि तिबेमि ॥सू० १६०॥
स प्रभूतदर्शी प्रभूतपरिज्ञान उपशान्तः समितः सहितः ज्ञानादिभिः सदा यतः, अनुकूलपरीषहकरणोद्यतस्त्रीजनं दृष्ट्वा विप्रतिवेदयति पालोचयति अनुशास्ति वाऽऽत्मानं किमेष जनः करिष्यति ? स एष
-श्री आचारागसूत्रम् (अक्षरगमनिका) *
६५
Page #75
--------------------------------------------------------------------------
________________
म्त्रीजनः आरमयति मोहयतीति आरामः परमश्चासावारामश्चेति परमारामः । या लोके स्त्रियस्ताः परित्याज्याः, मुनिना खलु एतत् प्रवेदितम् । उद्बाध्यमानो ग्रामधर्मैः - इन्द्रियधर्मेर्यथास्वं विषयेषु प्रवर्तनस्वभावैर्गुदिनाऽनुशास्यते, तथाहि - अपि निर्बलाशकः - अन्तप्रान्तभोजी स्याद् यद्वा निर्बलः सन्नश्नीयात्, अपि अवमौदर्यं कुर्यात्, अपि ऊर्ध्वं स्थानं तिष्ठेत्, अपि ग्रामानुग्रामं दूयेत, अपि आहारं व्यवच्छिन्द्यात्, अपि त्यजेत् स्त्रीषु प्रवृत्तं मनः, किं विचिन्त्येत्याह -- पूर्वं दण्डाः कृषिवाणिज्यादिक्रियाजनितक्षुत्पिपासादिरूपाः गृहमेधिनाम् पश्चात् स्पर्शाः, पूर्वं स्पर्शा उपपतीनाम् ललिताङ्गवत् पश्चात् दण्डाः, इत्येते-स्त्रीसम्बन्धाः कलहाऽऽसङ्गकराः - कलहः क्रोधः आसङ्गो रागः, रागद्वेषकारिणो भवन्तीति प्रत्युपेक्षया ज्ञात्वा आज्ञापयेद् आत्मानम् अनासेवनयेति ब्रवीमि । स नो काथिकः स्त्रीकथां न कुर्यात् - स्त्रीकथाकारी न स्यात् नो तासामङ्गप्रत्यङ्गादीनां पश्यकः स्यात्, न सम्प्रसारणिकः स्यात् नैकान्ते पर्यालोचनकारी स्यात, नो मामकं-तासु ममत्वकारी स्यात, नो तासां वैयावृत्यं कुर्यात, वाग्गुप्तः वाङ्गमात्रेणापि नालपेत् । अध्यात्मसंवृत्तः सन् परिवर्जयेत् सदा पापं, एतन्मौनं-मुनिभावं समनुवासयेरिति ब्रवीमि ॥१६॥
॥ अध्ययनं-५ उद्देशकः-५ ॥ अनन्तरोक्तं मौनमनुवासयमान आचार्यो भवति तेन च हृदोपमेन भाव्यमित्याह
से बेमि तं जहा-अवि हरए पडिपुण्णे समंसि भोमे चिट्ठइ उवसंतरए सारक्खमाणे, से चिट्ठइ सोयमझगए से पास सवओ गुत्ते, पास लोए महेसिणो जे य पन्नाणमंता पबुद्धा आरम्भोवरया सम्ममेयंति पासह, कालस्स कंखाए परिवयंति त्ति बेमि ॥ सू० १६१॥
तदहं ब्रवीमि यद्गुण आचार्यो भवति, तद्यथा-अपि हृदः प्रतिपूर्ण समे भूभागे तिष्ठति उपशान्तरजाः संरक्षन् सारक्षन् वा सह यादोगणैरात्मानमारक्षन हृदस्तथाऽऽचार्योऽपि सह शिष्यैरात्मानम् आरक्षन् । स आचार्यस्तिष्ठति स्रोतोमध्यगतः श्रुतार्थदानग्रहणसंभवात् । स पश्य सर्वतो गुप्तः - इन्दियनोइन्दियगुप्तया गुप्तोऽक्षोभ्य इति । पश्य लोकेऽन्येपि महर्षयः साधवो ये च प्रज्ञानवन्तः प्रबुद्वा आरम्भोपरताः । सम्यगेतदिति पश्यत, ते कालस्य-समाधिमरणकालस्य काझ्या परिव्रजन्तीति ब्रवीमि ॥१६१॥
६६
* श्री आचाराङ्गसूत्रम् (अक्षरगमनिका)
Page #76
--------------------------------------------------------------------------
________________
आचार्याधिकारं परिसमाप्य विनेयवक्तव्यतामाह -
वितिगिच्छसमावन्नेणं अप्पाणेणं नो लहइ समाहिं, सिया वेगे अणुगछंति असिता वेगे अनुगच्छंति अणुगच्छमाणेहिं अणणुगच्छमाणे कहं न निबिजे ? ॥ सू० १६२॥
विचिकित्सां- फलं प्रति संदेहरूपां साधुजुगुप्सालक्षणां वा समापन्नो विचिकित्सासमापन्न आत्मा नो - लभते समाधिम् । सिताः पुत्रकलत्रादिभिरवबद्धाः वा एकेऽनुगच्छन्ति- आचार्योक्तं सम्यक्त्वादिकं प्रतिपद्यन्ते, असिताः-गृहवासविमुक्ता वा एकेऽनुगच्छन्ति । अनुगच्छद्भिः सह संवसन् तैर्वा चोद्यमानः अननुगच्छन् कथं न निर्विघेत ? ॥१६२॥
न निर्वेदं तपःसंयमयोर्गच्छेत् निर्विण्णश्चेदमपि भावयेत्, यथा-नाहं भव्यः स्यामित्यादि, एवं च निर्विण्णस्य आचार्या समाधिमाहुः यथा-कथ्यमानेऽपि बोधो न भवति तत्ज्ञानावरणीयविलसितम्, तत्र च श्रद्धानरूपं सम्यक्त्वमालम्बनमित्याह
तमेव सचं नीसंकं जं जिणेहिं पवेइयं ॥सू० १६३॥ तदेव सत्यं निशङ्कं यज्जिनैः प्रवेदितम् ।।१६३॥ सा पुनर्विचिकित्सा प्रविव्रजिषोर्भवत्यागमापरिकर्मितमतेः, तत्राप्येतत्पूर्वोक्तं भावयितव्यमित्याह -
सडिस्स णं समणुन्नस्स संपव्वयमाणस्स समियंति मन्नमाणस्स एगया समिया होइ १, समियंति मन्नमाणस्स एगया असमिया होइ २, असमियंति मन्नमाणस्स एगया समिया होइ ३, असमियंति मन्नमाणस्स एगया असमिया होइ ४, समियंति मन्नमाणस्स समिया वा असमिया वा समिआ होइ उवेहाए ५, असमियंति मन्नमाणस्स समिया वा असमिया वा असमिया होइ उवेहाए ६, उवेहमाणो अणुवेहमाणं बूया-उवेहाहि समियाए, इच्चेवं तत्थ संधी ज्झोसिओ भवइ, से उट्ठियस्स ठियस्स गई समणुपासह, इत्थवि बालभावे अप्पाणं नो उवदंसिज्जा ॥ सू० १६४॥
श्रद्धावतः समनुज्ञस्य सम्प्रव्रजतः सम्यगिति मन्यमानस्य एकदा-उत्तरकाले शङ्कादिरहिततया सम्यगेव भवति ॥१॥ कस्यचित्तु सम्यगिति मन्यमानस्यैकदा मिथ्यात्वांशोदयादितः असम्यग् भवति ॥२॥ कस्यचित्तु असम्यगिति मन्यमानस्यैकदा गुर्वाधुपदेशतः सम्यग् भवति ।।३।। असम्यगिति मन्यमानस्यैकदा-उत्तरकालेऽपि आगमापरिभावितमतेरसम्यगेव
-- - श्री आचारागसूत्रम् (अक्षरगमनिका) *
६७
Page #77
--------------------------------------------------------------------------
________________
भवति || ४ || साम्प्रतं भङ्गोपसंहारद्वारेण परमार्थमाविर्भावयन्नाह सम्यगिति निशङ्कं किञ्चिद्वस्तु मन्यमानस्य सम्यग् वाऽसम्यग् वा भावितं तथापि सम्यगेव भवति यतो यत्नेन तथारूपतयैवोत्प्रेक्षया भावितमिति ॥५॥ असम्यगिति किञ्चिद्वस्तु मन्यमानस्य सम्यग् वाऽसम्यग् वा भावितं तथापि असम्यगेव भवति उत्प्रेक्षयापि शङ्काकलुषितचित्तत्वात् ||६||
समियंति मन्नमाणस्स इत्याद्यन्यथा व्याख्याने - शमिनो भाव शमितेति मन्यमानस्योत्तरकालेऽपि शमिता एव भवति ॥ | १ || अन्यस्य तु शमितामपि मन्यमानस्य कषायोदयादशमितोपजायत इति 11211 अनया दिशोत्तरभङ्गेष्वपि सम्यगुपयुज्याऽऽयोज्यमिति ।
-
एवं पर्यालोचयन्नपरस्याप्युपदेशदानायालमिति, आह च उत्प्रेक्षमाणः पर्यालोचयन्ननुत्प्रेक्षमाणं ब्रुयाद्-यथा- उत्पेक्षस्व शमितया माध्यस्थ्येन । यदिवा उत्प्रेक्षमाणः संयमे उद्यच्छन् अनुत्प्रेक्षमाणं यथा उत्प्रेक्षस्व शमितया माध्यस्थ्येन । यदि वा उत्प्रेक्षमाणः संयमे उद्योगं कुरु शमितया । इत्येवं तत्र संयमे सन्धिः कर्मसन्ततिरुपो झोषितः क्षपितो भवति । तस्योत्थितस्य स्थितस्य गतिं समनुपश्यत । अत्रापि असंयमे बालभावे- इतरजनाचरिते आत्मानं सकलकल्याणास्पदम् नोपदर्शयेत्-बालानुष्ठानविधायी मा भूदित्यर्थः || १६४॥
-
शाक्यकापिलादिभावितो बालो बालभावमाचरति, वक्ति च नित्यत्वादमूर्तत्वाच्चात्मनः प्राणातिपात एव नास्ति, आकाशस्येव, इत्याद्यध्यवसायात्तद्धननादौ प्रवृत्तस्य तत्प्रतिषेधार्थमाह -
तुमंसि नाम सच्चेव जं हंतव्वंति मन्नसि तुमंसि नाम सच्चेव जं अज्जावेयव्वंति मन्नसि तुमंसि नाम सच्चेव जं परियावेयव्वंति मन्नसि, एवं जं परिधितव्वंति मन्नसि, जं उद्दवेयव्वंति मन्नसि, अंजू चेयपडिबुद्धजीवी, तम्हा न हंता नवि घायए, अणुसंवेयणमप्पाणेणं जं हंतव्वं नाभिपत्थए | सू० १६५ ॥
त्वमपि नाम स एव यं हन्तव्यमिति मन्यसे त्वमपि नाम स एव यं आज्ञापयितव्यमिति मन्यसे, त्वमपि नाम स एव यं परितापयितव्यमिति मन्यसे । एवं यं परिगृहीतव्यमिति मन्यसे यम् अपद्रावयितव्यमिति मन्यसे असौ त्वमेव । ऋजुः - साधुश्च एतत्-हन्तव्यघातकैकत्वं तस्य प्रतिबोधेन जीवितुं शीलमस्येति एतत्प्रतिबुद्धजीवी भवति । तस्मात् न हन्ता स्यात् नापि घातयेत् । अनुसंवेद्यमाऽऽत्मना इत्याकलय्य यत् किमपि हन्तव्यमिति नाभिप्रार्थयेत् ॥ १६५॥
-
६८ * श्री आचाराङ्गसूत्रम् ( अक्षरगमनिका)
Page #78
--------------------------------------------------------------------------
________________
चाऽऽत्मनाऽनुसंवेदनमित्युक्तं
ननु तच्च नैयायिकादीनामात्मनो गुणभूतेनैकार्थसमवायिना ज्ञानेन भवति तथा भवतामपि उतान्यथा ? उच्यते -
जे आया से विन्नाया, जे विन्नाया से आया, जेण वियाणइ से आया, तं पडुच्च पडिसंखाए, एस आयावाइ समियाए परियाए वियाहि तिबेमि ॥ सू०१६६॥
भिन्नेन
य आत्मा स विज्ञाता, यो विज्ञाता स आत्मा, येन विजानाति स आत्मा । तं ज्ञानपरिणामम् प्रतीत्य आत्माऽऽत्मना प्रतिसङ्ख्यायते - व्यपदिश्यते । एष ज्ञानाऽऽत्मनोरेकत्वस्याऽभ्युपगन्ता आत्मवादी स्यात् । तस्य च सम्यग्भावेन शमितया वा पर्यायः संयमानुष्ठानरूपो व्याख्यात इति ब्रवीमि ।।१६६|| ॥ अध्ययनं - ५ | उद्देशकः-६ ॥
अनन्तरं सम्यग्भावेन संयमानुष्ठानरूपः पर्यायो व्याख्यातः, इहापि स एव प्रतिपाद्यते
अणाणाए एगे सोवट्ठाणा आणाए एगे निरुवट्ठाणा, एयं ते मा होउ, एयं कुसलस्स दंसणं, तद्दिट्ठीए तम्मुत्तीए तप्पुरक्कारे तस्सन्नी तन्निवेसणे ॥ सू० १६७॥
तीर्थकृत आचार्यस्य वा अनाज्ञया अनाज्ञायां वा प्रवर्तमाना एके दुर्गतिगामिनः सोपस्थानेन धर्मचरणाभासोद्यमेन वर्तन्ते इति सोपस्थानाः । आज्ञायाम् एके तु आलस्यादिना निरुपस्थानाः निरुद्यमाः । एतत् - कुमार्गानुष्ठानं सन्मार्गावसीदनं च ते मा भवतु । एतत् पूर्वोक्तं वक्ष्यमाणं च कुशलस्य तीर्थकृतो दर्शनम् । अतः सदा तद्दृष्ट्या तदा तीर्थकर आचार्य आगमो वा वाच्यः, तन्मुक्त्या, तत्पुरस्कारः तत्संज्ञी, तन्निवेशनः स्यात् || १६७ ||
स एवंभूतः किंगुणः स्यादित्याह -
अभिभूय अदक्खु अणभिभूए पभू निरालंबणयाए जे महं अबहिमणे, पवाएण पवायं जाणिज्जा, सहसंमइयाए परवागरणेणं अन्नेसिं वा अंतिए सुच्चा ॥ सू० १६८॥
परिषहोपसर्गान् घातिचतुष्टयं वा अभिभूय अद्राक्षीत् तत्त्वम् उपसर्गैः परतीर्थिकैर्वा सोऽनभिभूतः प्रभुः समर्थो निरालम्बनतया 'जिनवरवचनमन्तरेण नास्ति शरणं क्वचिल्लोके' इति भावनया यो महान् अणिमाद्यैश्वर्यदर्शनादपि तीर्थकृद्वचनाद् अबहिर्मनाः सन् प्रवादेन-आचार्यपारम्पर्योपदेशेन सर्वज्ञवाक्येन वा प्रवादं सर्वज्ञोपदेशं
श्री आचाराङ्गसूत्रम् (अक्षरगमनिका ) *
६२
Page #79
--------------------------------------------------------------------------
________________
तीर्थिकप्रवादं वा जानीयात् सहसम्मत्या-मिथ्यात्वकलङ्करहितया मत्या परव्याकरणेन-तीर्थकृदागमेन अन्येषां वा आचार्यादीनामन्तिके श्रुत्वा यथावस्थितवस्तुसद्भावमवधारयेदिति ॥१६८।।
अवधार्य च किं कुर्यादित्याह -
निद्देसं नाइवठूजा मेहावी सुपडिलेहिया सवओ सव्वप्पणा सम्म समभिण्णाय, इह आरामं परिणाय अल्लीणगुत्तो आरामो परिब्बए निद्रियट्ठी वीरे आगमेण सया परक्कमे ॥ सू० १६९॥
निर्देश-तीर्थकृदाधुपदेशं नातिवर्तेत मेधावी समुत्प्रेक्ष्य सर्वतः सर्वात्मना सम्यक् समभिज्ञाय । इह - मनुष्यलोके आरामं - संयमं परिज्ञाय आलीनो गप्तश्च परिव्रजेत निष्ठितार्थी- निष्ठितो-मोक्षस्तेनार्थी यद्वा निष्ठितः-परिसमाप्तोऽर्थो यस्य सः । वीर आगमेन सर्वज्ञप्रणीताचारादिना सदा पराक्रमेथा इति ब्रवीमि ।।१६९।।
किमर्थं पौनः पुन्येनोपदेशदानमित्याह -
उढं सोया अहे सोया, तिरियं सोया वियाहिया । एए सोया विअक्खाया, जेहिं संगति पासह ॥१॥ आवढं तु पेहाए इत्थ विरमिज वेयवी, विणइत्तु सोयं निक्खम्म एस महं अकम्मा जाणइ पासइ पडिलेहाए नावकंखइ इह आगई गई परिन्नाय ॥ सू० १७०॥
ऊर्ध्वं श्रोतांसि-वैमानिकसुखनिदानम्, अधः श्रोतांसि भवनपतिसुखाभिलाषः, तिर्यकश्रोतांसि- व्यन्तरमनुष्यतिर्यग्विषयेच्छा, यदिवोर्ध्वाधस्तिर्यग्लोके विषयोपभोगस्थानानि व्याहितानि-स्वधर्मपरिणत्या जनितानि । एतानि च कर्माश्रवद्वाराणीतिकृत्वा स्रोतांसीव स्रोतांसि व्याख्यातानि यैः सङ्गमिति पश्यत । यस्मात् एभिश्च कर्मानुषङ्गस्तस्मात् स्रोतांसीत्युपदिश्यते, यथा - आगमेन सदा पराक्रमेथा इति ॥१॥ किंच आवर्त-भावावर्तं तु प्रेक्ष्याऽत्र-विषयकषायरुपे भावावर्ते विरमेद वेदविद - आगमविद् । पाठान्तरं 'विवेगं कित्तइ वेयवी'त्याश्रित्य कर्मविवेकम् अभावं किर्तियति वेदविद् । विनेतुम् अपनेतुं स्रोतो निष्क्रम्य एष महान् अकर्मा जानाति पश्यति । एवंभूतो दिव्यज्ञानी सुरनरोपहितां पूजामुपलभ्य तामसारां प्रत्युपेक्ष्य नावकाङ्क्षति । इह आगतिं गतिं च परिज्ञाय तत्कारणं च निराकरोति ।।१७०।।
७०
* श्री आचारागसूत्रम् (अक्षरगमनिका)
Page #80
--------------------------------------------------------------------------
________________
तन्निराकरणे च यत्स्यात्तदाह
अच्चेइ जाइमरणस्स वट्टमग्गं विक्खायरए, सव्वे सरा नियट्टंति, तक्का जत्थ न विज्जइ, मइ तत्थ न गाहिया, ओए, अप्पइट्ठाणस्स खेयन्ने, से न दीहे न हस्से न वट्टे न तंसे न चउरंसे न परिमंडले न किण्हे न नीले न लोहिए न हालिदे न सुकिल्ले न सुरभिगंधे न दुरभिगंधे न तित्ते न कडुए न कसाए न अंबिले न महुरे न कक्खडे न मउए न गरुए न लहुए न उन्हे न निद्धे न लुक्खे न काऊ न रुहे न संगे न इत्थी न पुरिसे न अन्नहा, परिन्ने सन्ने उवमा न विज्जए, अरूवी सत्ता अपयस्स पयं नत्थि ॥ सू १७१॥
-
अत्येति जातिमरणस्य वर्त्म मार्गं व्याख्यातरतः मोक्षरतः । मुक्तात्मा किम्भूत इति चेत्, न तत्र शब्दानां प्रवृत्तिरित्याह-सर्वेस्वराः ध्वनयो निवर्तन्ते, तर्को यत्र न विद्यते मतिस्तत्र न ग्राहिका, ओजः एकोऽशेषमलकलङ्काङ्करहितः, अप्रतिष्ठानस्य - औदारिकादिशरीररूपप्रतिष्ठानाऽभावात् मोक्षस्य खेदज्ञः । स न दीर्घो न ह्रस्वो न वृत्तो न त्र्यस्त्रो न चतुरस्त्रो न परिमण्डलो न कृष्णो न नीलो न लोहितो न हारिद्रो न शुक्लो न सुरभिगन्धो न दुरभिगन्धो न तिक्तो न कटुको न कषायो नाम्लो न मधुरो न कर्कशो न मृदुर्न लघुर्न गुरुर्न शीतो नोष्णो न स्निग्धो न रूक्षो, न कापोतलेश्यावान् यदिवा न कायवान, न रुहो, न सङ्गवान्, न स्त्री न पुरुषो, नाऽन्यथा न नपुंसकः, परिज्ञः संज्ञः तज्ज्ञानसुखयोर्वा उपमा न विद्यते, अरूपी सत्ता, न विद्यते पदम् - अवस्थाविशेषो यस्य स अपदस्तस्य अपदस्य पदम्-अभिधानं नास्ति वाच्यविशेषाभावादिति ।। १७१ ।।
अनन्तरं दीर्घ इत्यादि विशेष निराकरणं कृतम । इह तु सामान्यनिराकरणं कर्तुकाम आह - सेन सद्दे न रूवे न गंधे न रसे न फासे इच्चेव त्तिबेमि || सू० १७२ ॥ स न शब्दरूपः, न रूपात्मा, न गन्धः, न रसः, न स्पर्श इत्येवेति ब्रवीमि ॥१७२॥
॥ ६ ॥ धूताध्ययनं - ६ : उद्देशकः - १ ॥
-
-
अनन्तरं मुक्तिस्वरूपमुक्तम् इह तु तन्मार्ग कीर्तयतीत्याह
ओबुज्भ्कमाणे इह माणवेसु आघाइ से नरे, जस्स इमाओ जाइओ सव्वओ सुपडिलेहियाओ भवंति, आघाइ से नाणमणेलिसं, से किट्टइ तेसि समुट्ठियाणं निक्खित्तदण्डाणं समाहियाणं - पन्नाणमंताणं इह मुत्तिमग्गं, एवं (अवि ) एगे
श्री आचाराङ्गसूत्रम् (अक्षरगमनिका ) *
७१
Page #81
--------------------------------------------------------------------------
________________
महावीरा विपरिक्कमति पासह एगे अवसीयमाणे अणत्तपन्ने से बेमि, से जहावि (सेवि) कुंभे हरए विणिविट्ठचित्ते पच्छन्नपलासे उम्मग्गं से नो लहइ भंजगा इव संनिवेसं नो चयंति, एवं (अवि) एमे अणेगरूवेहिं कुलेहिं जाया रूवेहिं सत्ता कलुणं थणंति, नियाणओ ते न लभंति मुक्खं, अह पास तेहिं कुलेहिं आयत्ताए जाया ॥१७३॥ __ स्वर्गापवर्गयोः संसारस्य च कारणानि अवबुध्यमान इह मानेवषु धर्ममाख्याति स- तीर्थकृद्गणधरादिः नरो, यस्य इमा जातयः एकेन्द्रियादयः सर्वतः सुप्रत्युपेक्षिता भवन्ति । आख्याति स ज्ञानं - मत्यादि पञ्चधा यदिवा सकलसंशयापनयनेनाऽऽत्मनः अनीदृशम् । स कीर्तियति तेषां समुत्थितानां निक्षिप्तदण्डानां समाहितानां प्रज्ञानवतामिह मुक्तिमार्गम् । एवमप्येके महावीरा विपराक्रमन्ते-संयमसङ्ग्रामशिरसि । एतद्विपर्ययमाह पश्यत एकान् अवसीदतोऽनात्मप्रज्ञान् । कुत एतदित्यारेकायां सोऽहं ब्रवीमि दृष्टान्तद्वारेण तद्यथा च कूर्मो हृदे विनिविष्टचित्तः पलाशप्रच्छन्न - शैवालप्रच्छन उन्मार्ग - विवरम् उन्मज्यं वाऽसौ न लभते । दृष्टान्तान्तरमाह- भञ्जगाः- वृक्षा इव शीताधुपद्रवान् सहमाना अपि सन्निवेशं- स्थानं न त्यजन्ति । एवमप्येकेऽनेकरूपेषु कुलेषु जाता रूपेषु - शब्दादिविषयेषु सक्ताः करुणं स्तनन्ति - हा ! हा ! इत्यादिदीनमाक्रोशन्ति । निदानं - कर्म ततस्ते न लभन्ते मोक्षम् । अथ पश्य तेषु कुलेषु आत्मत्वाय आत्मीयकर्मानुभवाय जाता इति ।।१७३॥
इमां चाऽवस्थामनुभवन्तीत्याह -
गंडी अहवा कोढी, रायंसी अवमारियं । काणियं झिमियं चेव, कुणियं खुज्जियं तहा ॥१॥ उदरिं च पास मूयं च, सूणीयं च गिलासणिं । वेवई पीढसप्पिं च, सिलिवयं मुहमेहणिं ॥२॥ सोलस एए रोगा, अक्खाया अणुपुब्बसो। अह णं फुसंति आयंका, फासा य असमंजसा ॥३॥ मरणं तेसिं संपेहाए उववायं चवणं च नच्चा, परियागं च संपेहाए ॥
गण्डी अथवा कुष्ठी राजांसी - राजयक्ष्माग्रस्तः क्षयी, अपस्मारितां, काण्यं, जाड्यं-पक्षाघातः, कुणित्वं, कुब्जित्वं तथा ॥१॥
उदरिणं-जलोदरिणं च पश्य मूकं च शूनत्वं - शोफवत्त्वं च ग्रासणी-भस्मकं, वेपकत्वं, पीठसर्पित्वं काष्ठपाणिं च श्लीपदं मधुमेहनित्वम् ।।२।।
७२
* श्री आचारागसूत्रम् (अक्षरगमनिका)
Page #82
--------------------------------------------------------------------------
________________
षोडश एते रोगा आख्याता अनुपूर्वशः । अथ स्पृशन्ति आतङ्काः स्पर्शाश्च असमञ्जसाः ||३||
मरणं तेषां सम्प्रेक्ष्य उपपातं च्यवनं च ज्ञात्वा परिपाकं च कर्म्मणां सम्प्रेक्ष्य तदुच्छित्तये यतितव्यमिति ॥४॥
स च करुणं स्तनतीत्यादिना ग्रन्थेनोपपातच्यवनावसानेनावेदितोऽपि पुनरपि तद्गरीयस्त्वख्यापनाय प्राणिनां संसारे निर्वेदवैराग्योत्पत्त्यर्थमभिधित्सुराह -
सं सुणेह जहा तहा संति पाणा अंधा तमसि वियाहिया, तामेव सई असई अइअच्चं उच्चावयफासे पडिसंवेएइ, बुद्धेहिं एयं पवेइयं - संति पाणा वासगा रसगा उदए उदए-चरा आगासगामिणो पाणा पाणे किलेसंति, पास लोए महब्भयं ॥सू० १७४॥
तं कर्मविपाकं श्रुणुत यथा तथा-सन्ति प्राणिनः अन्धाः- भावान्धाः तमसि - नरकादौ व्याख्याताः तामेव कुष्ठाद्यवस्थां सकृदसकृद् वाऽतिगत्य उच्चावचान् दुःखान् स्पर्शान् प्रतिसंवेदयन्ति । बुद्धैरेतत् प्रवेदितं सन्ति प्राणिनो वासकाः- वासृ शब्द कुत्सायां वासन्तीति वासका भाषालब्धिसंपन्ना द्वीन्द्रियादयः, रसगाः कटुतिक्तादिरसवेदिनः संज्ञिनः, उदके उदकरूपा उदकचराश्च आकाशगामिनश्च T सर्वेऽपि प्राणिनोऽपरान् प्राणिनः क्लेशयन्ति । पश्य लोके कर्मविपाकाद् महद् भयमिति ।। १७४ ।।
-
किमिति कर्मविपाकान्महद्भयमित्याह -
बहुदुक्खा हु जन्तवो, सत्ता कामेसु माणवा, अबलेण वहं गच्छन्ति सरीरेणं पभंगुरेण अट्टे से बहुदुक्खे इइ बाले पकुव्वइ एए रोगा बहू नच्चा आउरा परियावए नालं पास, अलं तवेएहिं एयं पास मुणी ! महत्भयं नाइवाइज कंचणं ॥सू० १७५ ॥
यस्मात् कर्मविपाकेन बहुदुःखा जन्तवस्तस्मादत्राऽप्रमादवता भाव्यम् । किमित्येवं भूयो भूयः कथ्यत इत्यत आह यस्मादनादि
भवाभ्यासेनाऽगणितोत्तरपरिणामाः सक्ताः कामेसु मानवाः क्षणिकसुखार्थं कर्मोपचित्य अबलेनाऽनेकशो वधं गच्छन्ति शरीरेण प्रभङ्गुरेण । मोहोदयात् आर्त स बहुदुःख इति एनं कामानुषङ्गं क्लेशं वा बालः प्रकरोति, यदिवा पूर्वोक्तान् एतान् रोगान् कामान् वा रोगरूपान् बहुन् समुत्पन्नानिति ज्ञात्वा
श्री आचारङ्गिसूत्रम् (अक्षरगमनिका ) * ७३
Page #83
--------------------------------------------------------------------------
________________
आतुराः सन्तः चिकित्सायै परान् प्राणिनः परितापयेयुः, किन्तु नालं चिकित्साविधयः कर्म्मोदयोपशमं विधातुमिति पश्य, अलं तव एभिः पापोदानभूतैः चिकित्साविधिभिः । एतत् प्राण्युपमर्दादिकं पश्य मुने ! महद्भयम् । तस्मात् नातिपातयेत् कञ्चन प्राणिनमिति ।।१७५ ।।
तदेवं रोगकामातुरतया सावद्यानुष्ठानप्रवृत्तानां महाभयं प्रदर्श्य तद्विपर्यस्तानां सस्वरूपां गुणवत्तां दिदर्शयिषुः प्रस्तावनामारचयन्नाह
आयाण भो सुस्सूस ! भो धूयवायं पवेयइस्सामि, इह खलु अत्तत्ताए तेहिं तेहिं कुलेहिं अभिसेएण अभिसंभूया अभिसंजाया अभिनिव्बुडा अभिसंबुड्डा अभिसंबुद्धा अभिनिक्कंता अणुपुब्वेण महामुनी ॥ १७६ ॥
-
आजानीहि भोः ! शुश्रूषस्व भोः ! धूतवादं कर्मधूननवादं स्वजनधूननवादं वा प्रवेदयिष्यामि । नागार्जुनीयास्तु पठन्ति 'धुतोवायं पवेयंति' कर्मधूननोपायं स्वजनधूननोपायं वा प्रवेदयन्ति तीर्थंकरादय इति । इह - संसारे खलु आत्मतया - जीवास्तित्वेन स्वकर्मपरिणामेन वा तेषु तेषु कुलेषु अभिषेकेन - शुक्रशोणितनिषेकादिक्रमेण यावत् कललं तावत् अभिसम्भूताः, अभिसञ्जाताः पेशीं यावत्, अभिनिर्वृत्ताः अङ्गोपाङ्गाऽभिनिर्वर्तनात्, अभिसंवृद्धाः प्रसूताः सन्तः, धर्मकथादिना अभिसंबुद्धाः सदसद्विवेकात् अभिनिष्क्रान्ताः सन्तः अनुपूर्वेण महामुनयोऽभूवन्निति ॥ १७६ ॥
अभिसम्बुद्धं च प्रविव्रजिषुमुपलभ्य यन्त्रिजाः कुर्युस्तदर्शयितुमाह -
तं परिक्कमंतं परिदेवमाणा मा चयाहि इय ते वयंति- छंदोवणीया अज्झोववन्ना अक्कंदकारी जणगा रुयंति अतारिसे मुणी, ण य ओहं तरए जणगा जेण विप्पजढा, सरणं तत्थ नो समेइ, कहं नु नाम से तत्थ रमइ ? एयं नाणं सया समवासिज्जासित्ति बेमि ॥सू० १७७॥
तं मुमुक्षं परिदेवमानाः विलपन्तो 'माऽस्मान् परित्यज' इति ते स्वजना वदन्ति । किं चापरं वदन्तीत्याह वयं तव छन्दोपनीताः त्वयि च अध्युपपन्नाः । एवम् आक्रन्दकारिणो जनका जना वा रुदन्ति । एवं च वदेयुर्न तादृशो मुनिर्भवति, न च स ओघं भवौघं तरति जनकाः मातापित्रादयो येन विप्रत्यक्ताः । एवं सत्यपि मुमुक्षुर्बन्धुवर्गं शरणं तंत्राऽवसरे न समेति - गच्छति । कथं नु नामाऽसौ तत्र गृहवासे रमते ? एतद् ज्ञानं सदा समनुवासयेरिति ब्रवीमि ।।१७७।।
✿✿
७४
* श्री आचाराङ्गसूत्रम् (अक्षरगमनिका)
Page #84
--------------------------------------------------------------------------
________________
॥ अध्ययनं-६ : उद्देशकः-२ ॥ अनन्तरं स्वजनविधूननमुक्तं तच्च सफलं स्यात्यदि कर्मधूननं स्याद् कर्मविधूननार्थमिदमुपक्रम्यते -
आउरं लोगमायाए चइत्ता पुव्वसंजोगं हिचा उवसमं वसित्ता बंभचेरंसि वसु वा अणुवसु वा जाणित्तु धम्मं अहा तहा अहेगे तमचाइ कुसीला ॥सू० १७८॥
आतुरं लोकं ज्ञानेनाऽऽदाय ज्ञात्वा, त्यक्त्वा पूर्वसंयोगं, हित्वा-गत्वा उपशमम्, उषित्वा च ब्रह्मचर्ये वसुर्वा - साधुः अनुवसुर्वा श्रावको वा ज्ञात्वाऽपि धर्मं यथातथा, अथैके मोहोदयात् कुशीला तं पालयितुं न शक्नुवन्तीति ॥१७८॥
एवम्भूताश्च सन्तः किं कुर्युरित्याह -
वत्थं पडिग्गहं कंबलं पायपुछणं विउसिज्जा, अणुपुब्वेण अणहियासेमाणा परीसहे दुरहियासए, कामे ममायमाणस्स इयाणिं वा मुहुत्तेण वा अपरिमाणाए भेए, एवं से अंतराएहिं कामेहिं आकेवलिएहिं अवइन्ना चेए ॥सू० १७९॥
वस्त्रं पतद्ग्रहं कम्बलं पादपुञ्छनं व्युत्सृजेयुः । कथं चेत्, अनुपूर्वेण-परिपाट्या यौगपद्येन वाऽनधिसहमानाः परीषहान् दुरधिसह्यान् । ततश्च कामान् ममायमानस्य इदानी वा मुहूर्तेन वाऽपरिमाणाय कालाय शरीरस्य भेदो भवति कण्डरिकस्येव । एवं स आन्तरायिकैः - बहुप्रत्यपायैः कामैः न केवलमकेवलं तत्र भवैः आकेवलिकैः सद्वन्द्वैः असम्पूणैर्वा संसारमवतीर्णः, यदिवा आन्तरायिकान् कामान् आकेवलिकानवतीर्णाश्चैते भोगाभिलाषिणः । कामैरतृप्ता एव शरीरभेदमवाप्नुवन्तीति तात्पर्यार्थः ॥१७९।।
अपरे त्वासनतया मोक्षस्य कथञ्चिदवाप्य चरणपरिणामं प्रवर्धमानाध्यवसायिनो भवन्तीत्याह -
अहेगे धम्ममायाय आयाणप्पभिइसु पणिहिए चरे अप्पलीयमाणे दढे सब्बं गिद्धिं परिन्नाय, एस पणए महामुणी, अइअच्च सबओ संगं न महं अत्थित्ति इय एगो अहं, अस्सि जयमाणे इत्थ विरए अणगारे सव्वओ मुंडे रीयंते, जे अचेले परिपुसिए संचिक्खइ ओमोयरियाए, से आकुढे वा हए का लुंचिए वा पलियं पकत्थ अदुवा पकत्थ अतहेहिं सद्दफासेहिं इय संखाए एगयरे अन्नयरे अभिन्नाय तितिक्खमाणे परिब्बए जे य हिरी जे य अहिरीमाणा (मणा) ॥सू० १८० ॥
श्री आचारागसूत्रम् (अक्षरगमनिका) *
७५
Page #85
--------------------------------------------------------------------------
________________
अथैके धर्ममादाय आदानप्रभृतिषु - ज्ञानादिषु प्रणिहिताश्चरेयुः, यदिवा धर्ममादाय आदानप्रभृति सुप्रणितिहिताश्चरेयुः कामेषु स्वजनेषु चाऽप्रलीयमाना धर्मचरणे दृढाः । किं च सर्वां गृद्धिं परिज्ञाय परित्यजेत् । गृद्धिपरित्यागेन एष संयमे प्रणतः प्रह्वः सन महामुनिर्भवति । अतिगत्य सर्वतः सङ्गं भावयेत, तथाहि- न ममास्तीत्येवम् एकोऽहमस्मिन् संसारे । यतमानोऽत्र-मौनीन्द्रप्रवचने विरतोऽनगारः सर्वतो मुण्डो रीयमाणो यः अचेलः पर्युषितः-अन्तप्रान्तभोजी अवमोदरिकायां संतिष्ठते । स कदाचिद् आक्रुष्टो वा हतो वा लुञ्चितो वा पलितं भो कोलिक इत्यादिकं पूर्वाचरितं जुगुप्सितं प्रकथ्य अथवा प्रकथ्य अतथ्यैः चौरस्त्वमित्यादिकैः शब्दैः स्पर्शेश्च कदर्थ्यते, तदा स्वकृतादृष्टफलमेतदिति संख्याय ज्ञात्वा एकतरान् अनुकुलान् अन्यतरान् प्रतिकुलान् उदीर्णान् अभिज्ञाय तितिक्षमाणः परिव्रजेत । ये च हीरूपाः याचनाऽचेलत्वादयः ये च अहीमनसः अलज्जाकारिणः यदिवा ये च हारिणो ये च अहारिण एतान् द्विरुपान् परीषहान् सम्यक् ज्ञात्वा यदिवा 'जक्खाइढे अयं पुरिसे' इत्यादि संख्याय तितिक्षमाणः परिव्रजेदिति ॥१८०॥
किंच
चिच्चा सवं विसुत्तियं फासे समियदंसणे, एए भो णगिणा वुत्ता जे लोगंसि अणागमण-धम्मिणो आणाए मामगं धम्मं एस उत्तरवाए इह माणवाणं वियाहिए, इत्थोवरए तं झोसमाणे आयाणिजं परिन्नाय परियाएण विगिंचइ, इह एगेसिं एगचरिया होइ तत्थियरा इयरेहिं कुलेहिं सुद्धेसणाए सब्बेसणाए से मेहावी परिब्बए सुभि अदुवा दुभि अदुवा तत्थ भेरवा पाणापाणे किलेसंति, ते फासे पुट्ठो धीरे अहियासिज्जासि त्ति बेमि ॥सू० १८१ ॥
त्यक्त्वा सर्वां विश्रोतसिकां स्पृशेत्-अधिसहेत समितदर्शनः - सम्यग्दृष्टिः । एते भो ! निर्ग्रन्था नग्नाः भावनग्ना उक्ता ये लोके अनागमनधर्माणः आरोपितप्रतिज्ञाभारवाहित्वात् न पुर्नगृहं प्रत्यागमनेप्सव इति । आज्ञया मामकं धर्मं सम्यगनुपालयेदिति तीर्थकर एवाह, यदिवा धर्मानुष्ठाय्येवमाह- धर्म एवैको मामकः अन्यत्सर्वं तु पारक्यमिति तमाज्ञया सम्यक्करोमीति यत एषः अनन्तरोक्त उत्तरवादः उत्कृष्टवाद इह मानवानां व्याख्यातः । अत्र कर्मधूननोपाये संयम उपरतस्तत्-कर्म झोषयन्-क्षपयन् धर्मं चरेत् । आदानीयं-कर्म परिज्ञाय पर्यायेण-श्रामण्येन विवेचयति ।
७६
* श्री आचाराङ्गसूत्रम् (अक्षरगमनिका)
Page #86
--------------------------------------------------------------------------
________________
इह-प्रवचन एकेषां एकचर्याभवति तत्र - एकाकिविहारे इतरे सामान्यसाधुभ्यो विशिष्टा इतरेषु - अन्तप्रान्तेषु कुलेषु शुद्धैषणया सर्वेषणया परिव्रजन्ति । एवमेव स मेधावी परिव्रजेत् । सुरभिरथवा दुरभिराहारः स्यात्तत्र रागद्वेषौ न विदध्यात् । अथवा तत्र - एकाकिविहारित्वे भैरवाः प्राणिनोऽपरान् प्राणिनः क्लेशयन्ति । त्वं तु पुनस्तैः स्पृष्टः स्पर्शान् दुःखविशेषान् धीरः सन्नधिसहस्व इति ब्रवीमि ।। १८१ ॥
॥ अध्ययनं - ६ : उद्देशकः - ३ ॥
अनन्तरं कर्मधूननं प्रतिपादितं तच्च नोपकरणशरीरविधूननमन्तरेण भवति, इत्यतस्तद् विधूननार्थमिहोच्यते ।
एवं खु मुणी आयाणं सया सुयक्खायधम्मे विहूयकप्पे निज्झोसइत्ता, जे अचेले परिवुसिए तस्स णं भिक्खुस्स नो एवं भवइ - परिजुण्णे मे वत्थे 'वत्थं जाइस्सामि, सुत्तं जाइस्सामि, सूई जाइस्सामि संधिस्सामि सीविस्सामि उक्कसिस्सामि वुक्कसिस्सामि परिहिस्सामि पाउणिस्सामि, अदुवा तत्थ परिक्कमंतं भुज्जो अचेलं तणफासा फुसंति, सीयफासा फुसंति, तेउफासा फुसंति, दंसमसगफासा फुसंति, एयगरे अन्नयरे विरूवरूवे फासे अहियासेइ अचेले लाघवं, आगममाणे, तवे से अभिसमन्नागए भवइ, जहेयं भगवया पवेइयं तमेव अभिसमिधा सव्वओ सव्वत्ताए संमत्तमेव समभिजाणिज्जा, एवं तेसिं महावीराणं चिररायं पुब्वाई वासाणि रीयमाणाणं दवियाणं पास अहियासियं ॥ १८२ ॥
एतत् वक्ष्यमाणं मुनि आदानं-धर्मोपकरणाऽतिरिक्तं वस्त्रादि सदा स्वाख्यातधर्मा महाव्रतभारवाही विधूतकल्पः क्षुण्णाऽऽचारो निर्दोषयिष्यति अपनेष्यति । योऽचेलः पर्युषितस्तस्य भिक्षोर्नैतद भवति, यथा परिजीर्णं मे वस्त्रम् । अतो वस्त्रं याचिष्यामि, सूत्रं याचिष्यामि, सूचिं याचिष्यामि, सेविष्यामि उत्कर्षयिष्यामि व्युत्कर्षयिष्यामि परिधास्यामि प्रावरिष्यामि । अथवोक्तसर्वं जिनकल्पिकाभिप्रायेण नेयम् । तत्राऽचेलत्वे पराक्रमन्तं भूयोऽचेलं साधुं तृणस्पर्शाः स्पृशन्ति, तेजःस्पर्शा स्पृशन्ति, दंशमशकस्पर्शाः स्पृशन्ति, एकतरान् अन्यतरान् विरूपरूपान् स्पर्शान्नधिसहतेऽचेलः अचलो वा लाघवं द्रव्यत उपकरणलाघवं भावतः कर्मलाघवम् आगमयन् अवगमयन् । एवं तपस्तस्याऽभिसमन्वागतं सोढं भवति । यथेदं भगवता प्रवेदितं तद् लाघवम् उपकरण आहारलाघवं वा
-
श्री आचाराङ्गसूत्रम् (अक्षरगमनिका ) * ७७
-
Page #87
--------------------------------------------------------------------------
________________
अभिसमेत्य सर्वतः सर्वात्मना सम्यक्त्वमेव समत्वमेव वा समभिजानीयात् । एवं तेषां महावीराणां चिररात्रं पूर्वाणि नाभेयादारभ्य शीतलं यावत् पूर्वसंख्यासद्भावात् पूर्वाणीत्युक्तं, तत आरतः श्रेयांसादारभ्य. वर्ष संख्याप्रवृत्तेवर्षाणीत्युक्तम् तत्र पूर्वस्य तु परिमाणं सप्तति कोटिलक्षाः षट्पञ्चाशत् च कोटिसहस्राः । तथा वर्षाणि रीयमाणानां द्रव्याणां भव्यानां. यदिवा द्रव्यं - संयमस्तद्वतां द्रव्यिकाणां पश्य अधिसहनम् । नागार्जुनीयास्तु “अचेले लाघवं आगममाणे" इति स्थाने पठन्ति - “एवं खलु से उवगरणलाघवियं तवं कम्मक्खयकारणं करेइ” एवं उक्तक्रमेण भावलाघवार्थमुपकरणलाघवं तपश्च करोतीति भावार्थः । ।।सू० १८२।।
एतचाधिसहमानानां यत्स्यात्तदाह -
आगयपन्नाणाणं किसा बाहवो भवंति पयणुए य मंससोणिए विस्सेणिं कटु परिन्नाय, एस तिण णे मुत्ते विरए वियाहिए त्ति बेमि ।।सू० १८३॥
आगतप्रज्ञानानां कृशा बाहवो बाधा वा-पीडा भवन्ति प्रतनुके च मांसशोणिते । संसारहेतुभूतां रागद्वेषकषायश्रेणी क्षान्त्यादिना विश्रेणी कृत्वा तथा परिज्ञाय - ज्ञात्वा समत्वभावनया कूरगडुप्रायमपि न हीलयति । एष तीर्णो मुक्तो विरतो व्याख्यात इति ब्रवीमि ॥ १८३ ॥
तं च तथाभूतं किमरतिरभिभवेत् उत नेत्याह -
विरयं भिक्खुं रीयंतं चिरराओ सियं अरइ तत्थ किं विधारए ?, संधेमाणे समुट्ठिए, जहा से दीवे असंदीणे, एवं से धम्मे आरियपदेसिए, ते अणवकंखमाणा पाणे अणइवाएमाणा दइया मेहाविणो पंडिया, एवं तेसिं भगवओ अणुट्ठाणे जहा से दियापोए एवं ते सिस्सा दिया य राओ य अणुपुबेण वाइय त्ति बेमि ॥सू० १८४॥
विरतं भिक्षु रीयमाणं - विहरन्तं चिररात्रं - प्रभूतं कालं संयमे उषितम् अरतिः तत्र - संयमे कि विधारयेत् - प्रतिस्खलयेत् ? ओमिति कर्मपरिणतेर्वैचित्र्यात्, यदिवा नैव विधारयेत् यत उत्तरोत्तरं संयमस्थानं गुणस्थानं धर्म वा संदधानः समुत्थितः । यथाऽसौ द्वीपः असन्दीनः . उदकाऽप्लाव्यो दीपो वा असन्दीनो - विवक्षितकालस्थायी परेषामपि अरतिविधारकः । एवमसौ धर्म आर्य प्रदेशितो भवति । धर्मिणश्च ते साधवोऽनवकाङ्क्षन्तो भोगान् प्राणिनोऽनतिपातयन्तो दयिता मेधाविनः
७८
* श्री आचारागसूत्रम् (अक्षरगमनिका)
Page #88
--------------------------------------------------------------------------
________________
पण्डिता भवन्ति, एवं तेषामपरिकर्मितमतीनां शिष्याणां भगवतो धर्मे-सम्यगनुत्थाने सति यथा द्विजपोतः पक्षिशिशुः द्विजेन पाल्यते, एवं ते शिष्या दिवा च रात्रौ चाचार्येणानुपूर्वेण वाचिताः- पाठिताः संसारोत्तरणसमर्था भवन्तीति ब्रवीमि ॥ १८४ ॥
॥ अध्ययनं - ६ : उद्देशकः -४ ॥
अनन्तरं शिष्यनिष्पादनमुक्तं निष्पादितानां चैके गौरवत्रिकसमन्विता यत्कुर्युस्तदाह -
एवं ते सिस्सा दिया य राओ य अणुपुव्वेण वाइया तेहिं महावीरेहिं पन्नाणमन्तेहिं तेसिमंतिए पन्नाणमुवलब्भ हिचा उवसमं फारुसियं समाइयंति, वसित्ता बंभचेरंसि आणं तं नोत्ति मन्नमाणा आधायं तु सुच्चा निसम्म, समणुन्ना जीविसामो एगे निक्खमंते असंभवंता विडज्झमाणा कामेहिं गिद्धा अज्झोववन्ना समाहिमाघायमजोसयंता सत्थारमेव फरुसं वयंति ॥ १८५ ॥
एवं ते शिष्या दिवा च रात्रो चाऽनुपूर्वेण वाचितास्तैर्महावीरैः प्रज्ञानवद्भिः । तेषामन्तिके प्रज्ञानमुपलभ्य हित्वा त्यक्त्वा उपशमं पारुष्यं - कठोरतां समाददति । उषित्वाऽपि ब्रह्मचर्ये आज्ञां तां नो इति मन्यमानाः सातागौरवात् शरीरबाकुशिकतामालम्बन्ते । पाठान्तरं वा 'हेच्चा उवसमं अहेगे फारुसियं समारुहंति' सुगमम् । “आशातनाबहुलानां दीर्घः संसार इति" आख्यातं तु श्रुत्वा निशम्य - अवबुध्य च समनोज्ञा उद्यतविहारिणो जीविष्याम इत्येके निष्क्रामन्ते । पुनर्मोहोदयाद् असम्भवन्तो विदह्यमानाः कामैः गृद्धा गौरवत्रिके, अध्युपपन्ना विषयेषु समाधिमाख्यातमजोषयन्तः असेवमाना नोद्यमानाः शास्तारमेव परुषं वदन्तीति ॥ १८५ ॥
न केवलं शास्तारं परुषं वदन्ति अपरानपि साधूनपवदेयुरित्येतदाह -
सीलमंता उवसंता संखाए रीयमाणा असीला अणुवयमाणस्स बिइया मंदस्स बालया ॥ सू० १८६॥
ये शीलवन्त उपशान्ताः संख्यया प्रज्ञया रीयमाणाः संयमे पराक्रममाणास्तान् प्रति 'एते अशीला' इति अनुवदतः पश्चाद्वदतो द्वितीया मन्दस्य पार्श्वस्थादेर्बालता, तथाहि एकं तावत् स्वचारित्रापगमः पुनरपरानुद्यतविहारिणोऽपवदत इत्येषा द्वितीया बालता-बालभाव इति ॥ १८६ |
-श्री आचाराङ्गसूत्रम् (अक्षरगमनिका ) * ७९
Page #89
--------------------------------------------------------------------------
________________
अपरे तु पुनर्वीर्यान्तरायोदयात् स्वतोऽबसीदन्तोऽप्यपरसाधुप्रशंसासमन्विता यथावस्थिताचारगोचरमावेदयेयुरित्येतद्दर्शयितुमाह - - नियट्टमाणा वेगे आयरगोयरमाइक्खंति, नाणभट्ठा दंसणलूसिणो ।सू० १८७॥
संयमाद् लिङ्गाद्वा निवर्तमाना अनिवर्तमाना वा एके आचारगोचरमाचक्षते, न पुनर्यथा ज्ञानभ्रष्टा दर्शनलूषिणः सम्यग्दर्शनविध्वंसिनः स्वतो विनष्टा अपरानपि शङ्कोत्पादनेन सन्मार्गाच्यावयन्तीति ।।१८७।।
अपरे पुनर्बाह्यक्रियोपेता अप्यात्मानं नाशयन्तीत्याह -
नममाणा वेगे जीवियं विप्परिणामंति पुट्ठा वेगे नियटृति जीवियस्सेव कारणा, निक्खंतंपि तेसिं दुन्निक्खंतं भवइ, बालवयणिज्जा हु ते नरा, पुणो पुणो जाइं पकम्पिति अहे संभवंता विद्दायमाणा अहमंसीति विउक्कसे उदासीणे फरुसं वयंति, पलियं पकथे अदुवा पकथे अतहेहि, तं वा मेहावी जाणिज्जा धम्मं ॥सू० १८८॥ ____नमन्तोऽपि द्रव्यतो श्रुतज्ञानार्थम् एकं संयमजीवितं विपरिणामयन्ति अपनयन्ति । परीषहैः स्पृष्टा वा एके निवर्तन्ते संयमाल्लिङ्गाद्वा असंयमजीवितस्यैव कारणात् । निष्क्रान्तमपि तेषां दुनिष्क्रान्तं भवति यतो बालवचनीयाः प्राकृतपुरुषाणामपि गाः खलु ते नरा इति । किञ्च पुनः पुनर्जाति प्रकल्पयन्ति । अधः अधः संयमस्थानेषु संभवन्तः - वर्तमाना अपि विद्वस्यमानाः विद्वांसो वयमिति मन्यमाना अहमस्मीति व्यत्कर्षेयः । उदासीनानपि-मध्यस्थान् स्खलितचोदनोद्यतान् परुषं वदन्ति । कथमिति चेत, पूर्वाचरितं पलितं त्वं तृणहारोऽसीत्यादिकं प्रकथयेत् अथवा प्रकथयेदतथ्यैः कुण्टमुण्टादिभिर्गुणैर्मुखविकारादिभिर्वा । उपसंहरन्नाह - तद् वाच्यमवाच्यं वा तं वा धर्मं मेधावी जानीयादिति ।।१८८।।
सोऽसभ्यवादप्रवृत्तो बालो गुर्वादिना यथानुशास्यते तथा दर्शयितुमाह -
अहम्मट्ठी तुमंसि नाम बाले आरंभट्ठी अणुवयमाणे हण पाणे घायमाणे हणओ यावि समणुजाणमाणे, घोरे धम्मे, उदीरिए उवेहइ णं अणाणाए एस विसन्ने वियद्दे वियाहिए त्ति बेमि ॥सू० १८९॥
___ अधर्मार्थी त्वमसि नाम बालो यत आरम्भार्थी यतः अनुवदन, तद्यथा-जहि प्राणिनोऽपरैरेवं घातयन हनतश्चापि समनुजानन् किंच - एवं
८०
* श्री आचारागसूत्रम् (अक्षरगमनिका)
Page #90
--------------------------------------------------------------------------
________________
ब्रवीसि त्वं, तद्यथा-घोरो धर्म उदीरितः - प्रतिपादित इत्येवमध्यवसायी भवांस्तमनुष्ठानत उपेक्षते । अनाज्ञया प्रवृत्त एष बालो विषण्णः कामभोगेषु, वितर्दः - हिंसकः संयमे वा प्रतिकूलो व्याख्यात इति ब्रवीमि-त्वं मेधावी धर्म जानीया इति ॥१८९॥
एतच्च वक्ष्यमाणं ब्रवीमीत्यत आह -
किमणेण भो ! जणेण करिस्सामित्ति मन्नमाणे एवं एगे वइत्ता मायरं पियरं हिचा नायओ य परिग्गहं वीरायमाणा समुट्ठाए अविहिंसा सुब्बया दंता पस्स दीणे उप्पइए पडिवयमाणे वसट्टा कायरा जणा लूसगा भवंति, अहमेगेसिं सिलोए पावए भवइ, सें समणो भवित्ता विभंते २ पासहेगे समन्नागएहिं सह असमन्नागए नममाणेहिं अनममाणे विरएहिं अविरए दविएहिं. अदविए अभिसमिचा पंडिए मेहावी निट्ठियटे वीरे आगमेणं सया परक्कमिजासि त्ति बेमि ॥सू० १९०॥
किमनेन भो ! जनेन-मातृपितृपुत्रलत्रादिना करिष्यामि यदिवा समस्तं वाच्यं तथाहि - किमनेन भोजनेन करिष्यामीति मन्यमानः केनचिद् किमनया प्रव्रज्यया ? भुक्ष्व भोजनादिकमित्यभिहितः सन् ब्रवीति-भुक्तं मयानेकशस्तथापि तृप्ति भूत्, स्वजनश्च न रोगाद्यपनयनायाऽलम् । एवमुदित्वाऽपि एके हित्वा-त्यक्त्वा मातरं पितरं ज्ञातिकान् परिग्रहं च, वीरायमाणाः वीरमिवात्मानमाचरन्तः समुत्थाय अविहिंसाः सुव्रता दान्तास्तान् प्रश्य । नागार्जुनीयास्तु पठन्ति समणा भविस्सामो अणगारा अकिंचणा अपुत्ता अपसूया अविहिंसगा सुव्वया दंता परदत्तभोइणो पावं कम्मं न करेस्सामो समुट्ठाए सुगमत्वान्न संस्कृतेन लिख्यते । एवं समुत्थाय पूर्वम्, प्रश्चात् तान् पश्य दीनान् पूर्वमुत्पतितान् पश्चात् प्रतिपततः, यतो वशार्ताः कातरा जना लूषकाः - व्रतविध्वंसका भवन्ति । अथ एकेषां श्लोकः पापकः अयशःकीर्तिर्भवति, यथा-स श्रमणो भूत्वा विभ्रान्तो विभ्रान्तः । पश्य अथ एकान् समन्वागतैः उद्यतविहारिभिः सह असमन्वागतान्, नममानैः संयमानुष्ठानेन विनयवद्भिः सह अनममानान् विरतैः सह अविरतान्, द्रव्यैः - भव्यैः सह वसतोऽपि अद्रव्यान् । अभिसमेत्य ज्ञात्वैवम्भूतान् त्वं पण्डितो मेधावी निष्ठितार्थो-विषयसुखनिष्पिपासो वीर आगमेन सदा परिक्रामयेरिति ब्रवीमि ॥ १९० ॥
. . -.*
5.
N
ET
श्री आचारागसूत्रम् (अक्षरगमनिका) *
८१
Page #91
--------------------------------------------------------------------------
________________
॥ अध्ययनं-६ : उद्देशकः-५ ॥ " अनन्तरं सदागमेन पराक्रमयेतेत्युक्तम् । इह तु गौरवत्रिका प्रतिबद्धस्य पराक्रममाणस्य परीषहोपसर्गाः स्युस्तान् अधिसहेत यदिवा धर्ममाचक्षीतेति प्रतिपादनायाह - .
से गिहेसु वा गिहतरेसु वा गामेसु वा गामंतरेसु वा नगरेसु वा नगरंतरेसु वा जणवयेसु वा जणवयंतरेसु वा गामनगरंतरे वा गामजणवयंतरे वा नगरजणवयंतरे वा संतेगइआ जणा लूसगा भवंति अदुवा फासा फुसंति ते फासे पुढे वीरो (धीरो) अहियासए, ओए समियदंसणे, दयं लोगस्स जाणित्ता पाइणं पडीणं दाहिणं उदीणं आइक्खे, विभए किट्टे वेयवि, से उठ्ठिएसु वा अणुट्ठिएसु वा सुस्सस्समाणेसु पवेयए संतिं विरइं उवसमं निव्वाणं सोयं अज्जवियं मद्दवियं लाघवियं अणइवत्तियं सव्वेसिं पाणाणं सबेसि भूयाणं सम्बेसिं सत्ताणं सबेसि जीवाणं अणुवीइ भिक्खू धम्ममाइक्खिजा ॥सू० १९१॥
तस्य साधोर्गृहेषु वा गृहान्तरेषु वा ग्रामेषु वा ग्रामान्तरेषु वा नगरेषु वा नगरान्तरेषु वा जनपदेषु वा जनपदान्तरेषु वा ग्रामनगरान्तरे वा ग्रामजनपदान्तरे वा नगरजनपदान्तरे वा विहरतः सन्ति लोके जना ये लुषका उपसर्गविधायकाः भवन्ति, अथवा स्पर्शाः दुःखविशेषाः स्पृशन्ति । तान स्पर्शान् स्पृष्टो वीरो धीरो वाऽधिसहेत । ओजः - एको रागादिरहितः समितदर्शनः - सम्यग्दृष्टि समदृष्टिर्वा दयां लोकस्य ज्ञात्वा प्राचीनं प्रतीचीनं दक्षिणं उदीचीनं जीवानां गत्यादिरूपां भावदिशं यदिवा सर्वत्र दिक्षु विदिक्षु दयां कुर्वन धर्ममाचक्षीत । धर्ममाचक्षाणो द्रव्यक्षेत्रकालभावभेदं - धर्म विभजेत् यदिवा कोऽयं पुरुषः कं वा नंत इत्यादिकं विभजेत् तथा व्रतानुष्ठानफलं स्वर्गापवर्ग कीर्तयेद् वेदवित्-आगमविद् । नागार्जुनीयास्तु पठन्ति - “जे खलु समणे बहुस्सुए बज्झागमे आहरणहेउकुसले धम्मकहालद्धिसंपन्ने खेत्तं कालं पुरिसं समासज्ज केऽयं पुरिसे कं वा दरिसणमभिसंपन्ने ? एवं गुणजाइए पभू धम्मस्स आघवित्तए" इति कण्ठ्यम् । स - स्वपरसमयज्ञः उत्थितेषु वा- यतिषु, अनुत्थितेषु वा श्रावकेषु शुश्रुषमाणेषु प्रवेदयेत् शान्तिम्- अहिंसां विरतिम् उपशमं निर्वाणं शौचम् आर्जवं मार्दवं लाघवम् अनतिपत्य-अनतिक्रम्य आगमाऽभिहितम् । केषां कथयति ? सर्वेषां प्राणिनां सर्वेषां भूतानां सर्वेषां सत्त्वानां सर्वेषां जीवानामनुविचिन्त्य-स्वपरोपकाराय भिक्षुर्धर्ममाचक्षीत ॥ १९१ ॥
यथा च धर्म कथयेत्तथाऽऽह -
८२
* श्री आचारागसूत्रम् (अक्षरगमनिका)
Page #92
--------------------------------------------------------------------------
________________
अणुवीइ भिक्खू धम्ममाइक्खमाणे नो अत्ताणं आसाइजा नो परं आसाइजा नो अन्नाइं पाणाई भूयाइं जीवाइं सत्ताइं आसाइजा से अणासायए अणासायमाणे वज्झमाणाणं पाणाणं भूयाणं जीवाणं सत्ताणं जहा से दीवे असंदीणे एवं से भवइ सरणं महामुणी, एवं से उट्ठिए ठियप्पा अणिहे अचले चले अबहिल्लेसे परिब्बए संक्खाय पेसलं धम्मं दिट्ठिमं परिनिबुडे, तम्हां संगति पासह गंथेहिं गढिया नरा विसन्ना कामकंता तम्हा लहाओ नो परिवित्तसिज्जा, जस्सिमे आरंभा सबओ सबप्पयाए सुपरिन्नाया भवंति जेसिमे लूसिणो नो परिवित्तसंति, से वंता कोहं च माणं य मायं च लोभं च एस तुट्टे वियाहिए त्ति बेमि ॥सू० १९२॥
अनुविचिन्त्य भिक्षुर्धर्ममाचक्षाणो नाऽऽत्मानं आशातयेत् न परं शुश्रुषुमाशातयेद्, नान्यान् प्राणिनो भूतान् जीवान् सत्त्वान् आशातयेत् । स स्वतोऽनाशातकः परैरनाशातयन् वध्यमानानां प्राणिनां भूतानां जीवानां सत्त्वानां पीडा न स्यात् तथा धर्मं कथयेत् । यथाऽसौ द्वीपोऽसन्दीनो भवति एवं स भवति शरणं महामुनिः । एवं स उत्थितः स्थितात्मा, अस्निहोऽचलः परीषहोपसर्गः, चलः अनियतविहारित्वात्, अबहिर्लेश्यः परिव्रजेत् । संख्याय - ज्ञात्वा पेशलं धर्मं दृष्टिमान् परिनिर्वृत्तस्तस्मात्, यस्मात् विपरीतदर्शनो मिथ्यादृष्टि: सङ्गवान्न निर्वाति तस्मादिति सम्बन्धः । यदिवा दृष्टिमान् परिनिर्वृत्तस्तस्मात् सङ्गात्, संग एवानिर्वाणकारणमिति ज्ञात्वा । सङ्गं सङ्गविपाकं वेति पश्यत, तथाहि - ग्रन्थैर्ग्रथिता नरा विषण्णाः कामाक्रान्ता न निर्वान्ति । तस्मात् रूक्षात्- निसङ्गात्मकात् संयमात् न परिवित्रसेत् यस्य इमे आरम्भाः सर्वतः सर्वात्मना सुपरिज्ञाता भवन्ति येषु आरम्भेषु इमै लूषिणो-हिंसका न परिवित्रसन्ति । स- महामुनिर्वान्त्वा क्रोधं च मानं च मायां च लोभं च मोहनीयं त्रोटयतीति एष तुट्टो-संसार-संसृतेरपसृतो व्याख्यात इति ब्रवीमि ॥१९२।।
यदि वैतद्वक्ष्यमाणमित्याह -
कायस्स वियाघाए एस संगामसीसे वियाहिए से हु पारंगमे मुणी, अविहम्ममाणे फलगावयट्ठी कालोवणिए कंखिज्ज कालं जाव सरीरभेउ त्ति बेमि ॥सू० १९३॥
कायस्य व्याघातः शरीरविनाश एष संग्रामशीर्षमिव व्याख्यातः ।
श्री आचारागसूत्रम् (अक्षरगमनिका) *
८३
Page #93
--------------------------------------------------------------------------
________________
तत्र-मरणकाले स खलु पारङ्गामी मुनिः . -अविहन्यमानः परीषहोपसर्गः फलकावस्थायी फलकवदवतिष्ठते न कातरी भवतीति । कालोपनीतः - मृत्युकालेनान्यवशतां प्रापितः काङ्केत् कालं-मरणकालं यावत् शरीरभेदो भवति तावत् । न पुनर्जीवस्य विनाशोऽस्तीति ब्रवीमि ॥१९३॥
( सप्तममध्ययनं व्युच्छिन्नम् )
॥ ८॥ विमोक्षाध्ययन-८ : उद्देशकः-१ ॥ अनन्तरसूत्रे शरीरादिविधूननेन निःसङ्गताऽभिहिता । सा च दर्शनशुद्धौ सत्यां साफल्यमनुभवतीत्यत्र सैव दर्शनशुद्धिः प्रतिपाद्यते ।
से बेमि समणुन्नस्स वा असमणुन्नस्स वा असणं वा पाणं वा खाइमं वा साइमं वा वत्थं वा पडिग्गहं वा कंबलं वा पायपुच्छणं वा नो पादेजा नो निमंतिजा नो कुञा वेयावडियं परं आढायमाणे ति बेमि ॥सू० १९४॥ ____सोऽहं ब्रवीमि समनोज्ञाय-समनोज्ञो दृष्टितो लिङ्गतो न तु भोजनादिभिस्तस्मै, असमनोज्ञाय वा शाक्यादिभ्यो वा अशनं वा पानं वा खादिमं वा स्वादिमं वा वस्त्रं वा पतद्ग्रहं वा कम्बलं वा पायपुञ्छनं वा नो प्रदद्यात् नो निमन्त्रयेत् न कुर्याद् कैयावृत्यं परम्-अत्यर्थम् आद्रियमाणः आदरवान् न कुर्यादुक्तरुपम् इत्यर्थः ।।१९४।।
किचः -
धवं चेयं जाणिज्जा असणं वा जाव पायपंछणं वा लभिया नो लभिया भुंजिया नो भुजिया पंथं विउत्ता विउक्कम विभत्तं धम्मं जोसेमाणे समेमाणे चलेमाणे पाइजा वा निमंतिजा वा कुजा वेयावडियं परं अणाढायमाणे त्ति बेमि ॥१९५॥ .
ते हि शाक्यादय एवं ब्रूयुः- ध्रुवं चैतज्जानीयात्- अशनं वा यावत् पादपुञ्छनं वा भवद्भिरन्यत्र लब्ध्वा वा अलब्ध्वा वा भुक्त्वा वा अभुक्त्वा वाऽस्मदावसथे-मटेआगन्तव्यं पन्थानं व्यावाऽपि व्युत्क्रम्याऽन्यगृहाणि वेति । किंच- स शाक्यादिर्विभक्तं-पृथग्धर्मं जूषन्-आचरन् समेरन्-समागच्छन् प्रतिश्रयमध्येन कदाचित् तथा गच्छन् चलन्नशनादि प्रदद्याद्वा, अशनादिदानेन निमन्त्रयेद् वा कुर्याद् वैयावृत्यं वा, तत्सर्वं तस्य कुशीलस्य नाभ्युपेयात् । कथं ? परं-अत्यर्थम् अनाद्रियमाणः । एवं हि दर्शनशुद्धिर्भवतीति ब्रवीमि ॥१९५।।
८४
* श्री आचारागसूत्रम् (अक्षरगमनिका)
Page #94
--------------------------------------------------------------------------
________________
शाक्यादिभि सह परिचयादौ के दोषाः ? उच्चन्ते -
इहमेगेसिं आयारगोयरे नो सुनिसंते भवति ते इह आरंभट्ठी अणुवयमाणा हण पाणे घायमाणा हणओ यावि समणुजाणमाणा अदुवा अदिन्नमाययंति अदुवा वायाउ विउज्जंति, तं जहा- अत्थि लोए नत्थि लोए, धुवे लोए, अधुवे लोए, साइए लोए, अणाइए लोए, सपञ्जवसिए लोए, अपज्जवसिए लोए, सुकडेत्ति वा दुक्कडेत्ति वा, कल्लाणेत्ति वा पावेत्ति वा, साहुत्ति वा असाहुत्ति वा, सिद्धित्ति वा असिद्धत्ति वा, निरएत्ति वा अनिरएत्ति वा, जमिणं विप्पडिवन्ना मामगं धम्मं पन्नवेमाणा इत्ववि जाणह अकस्मात् एवं तेसिं नो सुयक्खाए धम्मे नो सुपन्नत्ते धम्मे भवइ ॥ सू० १९६ ॥ ____ इहैकेषाम् आचारगोचरो न सुनिशान्तो - सुपरिचितो भवति, ते इह - लोके आरम्भार्थिनोऽनुवदन्तः, तद्यथा-जहि प्राणिनः, घातयन्तो घ्नतश्चापि सुमनुजानन्तः, अथवा अदत्तमाददति अथवा वाचो वियुञ्जन्ति-विविधं प्रयुञ्जन्ति, तद्यथा - अस्ति लोकः, नास्ति लोकः, ध्रुवो लोकः, अध्रुवो लोकः, सादिको लोकः, अनादिको लोकः, सपर्यवसितो लोकः, अपर्यवसितो लोकः, सुकृतमिति, दुष्कृतमिति वा, कल्याण इति वा, पाप इति वा, साधुरिति वा, असाधुरिति वा, सिद्धिरिति वा, असिद्धिरिति वा नरक इति वा अनरक इति वा यदिदं विप्रतिपन्ना मामकम् आत्मीयं धर्म प्रज्ञापयन्तः स्वतो नष्टाः परानपि नाशयन्ति । अत्रापि-अस्ति लोको नास्ति वेत्यादौ जानीत अकस्मात् हेतोरभावात् । एवं तेषां नो स्वाख्यातो धर्मो न सुप्रज्ञापितो धर्मो भवतीति ।।१९६।।
किम्भूतस्तर्हि सुप्रज्ञापितो धर्मो भवतीत्याह -
से जहेयं भगवया पवेइयं आसुपन्नेण जाणया पासया अदुवा गुत्ती वओगोयरस्स तिबेमि । सवत्थ संमयं पावं, तमेव उवाइक्कम्म एस महं विवेगे वियाहिए, गामे वा, अदुवा रण्णे नेव गामे नेव रण्णे धम्ममायाणह पवेइयं माहणेण मइमया, जामा तिन्नि उदाहिया जेसु इमे आयरिया संबुज्झमाणा समुट्ठिया, जे णिव्वुया पावेहिं कम्मेहिं अणियाणा ते वियाहिया ॥सू० १९७॥ ___ तद्यथा इदं- स्याद्वादरूपं वस्तुस्वरूपं भगवता प्रवेदितम् आशुप्रज्ञेन केवलिना जानता पश्यता । किञ्च-तेषामेकान्तवादिनां सम्यगुत्तरं देयम् अथवा गुप्तिर्वाग्गोचरस्य विधेयेति ब्रवीमि । वादायोत्थितान् वादिन एवं च
श्री आचारागसूत्रम् (अक्षरगमनिका) *
८५
Page #95
--------------------------------------------------------------------------
________________
ब्रूयात्, तथा-भवतां सर्वत्र सम्मतं पापं, मम तु. नैतद् । तदेव- एतत् पापानुष्ठानम् उपातिक्रम्य अतिलय व्यवस्थितोऽहमतो एष मम विवेको व्याख्यातः । जीवाजीवादिपरिज्ञाने सम्यगनुष्ठाने च सति भवति धर्मो ग्रामेऽथवाऽरण्ये, विवेकाभावे नैव ग्रामे नैव अरण्ये । अतस्तं धर्ममाजानीत प्रवेदितं माहणेण-भगवता मतिमता-केवलिना । किम्भूतो धर्म इत्याहयामास्त्रयः । यामा व्रतविशेषाः प्राणातिपातमृषावाद-परिग्रहविरतिरिति, अदत्तादानमैथुनयोः परिग्रह एवान्तर्भावात् त्रयग्रहणं, यदिवा यामा वयोविशेषास्तद्यथा-अष्टवर्षादात्रिंशतः प्रथमस्तत उर्ध्वमाषष्टेः द्वितीयः, तत उर्ध्व तृतीय इति अति बालवृद्धयोगुंदासः, यदिवा यम्यते-उपरम्यते संसारभ्रमणादेभिरितिं यामाः - ज्ञानदर्शनचारित्राणीति उदाहृता येषु इमे आर्याः सम्बुध्यमानाः समुत्थिताः, ये निर्वृताः पापेषु कर्मसु अनिदानास्ते व्याख्याताः - प्रतिपादिता इति ॥१९७||
क्व च पुनः पापकर्मसु अनिदाना इत्यत आह - .
उड़े अहं तिरियं दिसासु सवओ सव्वावंति च णं पाडियकं जीवेहिं कम्मसम्मारम्भे णं तं परिन्नाय मेहावी नेव सयं एएहिं काएहिं दंडं समारंभिजा, नेवन्ने एएहिं काएहिं दंडं समारंभाविजा, नेवन्ने एएहि कायेहिं दंडं समारंभंतेऽवि समणुजाणेजा नेवऽन्ने एएहिं काएहिं दंड समारभंति तेसि पि वयं लज्जामो तं परिन्नाय मेहावी तं वा दंडं अन्नं वा नो दंडभी दंडं समारंभिज्जासि त्ति बेमि ॥सू० १९८॥
उर्ध्वमधस्तिर्यग्दिक्षु सर्वतः सर्वासु च प्रत्येकं जीवेषु यः कर्मसमारम्भः जीवानुदिश्य य उपमर्दरूपः क्रियासमारम्भस्तम् परिज्ञाय मेधावी नैव स्वयमेतेषु कायेषु दण्डं समारभेत । न चापरेण समारम्भयेत् । नैवाऽन्यान् एतेषु कायेषु दण्डं समारभमाणानपि समनुजानीयात् । ये चान्ये एतेषु कायेषु दण्डं समारभन्ते तैरपि वयं लज्जामः इति कृताध्यवसायो महतेऽनाय कर्मसमारम्भस्तं परिज्ञाय मेधावी तं वा दण्डमन्यं वा नो दण्डभीः - दण्डभीरुदण्डं समारभेथा इति ब्रवीमि ॥१९८।।
॥ अध्ययनं-८ : उद्देशकः-२ ॥ दण्डभीरुता चाऽकल्पनीयपरित्यागमृते न सम्पूर्णतामियाद् अकल्पनीयपरित्यागार्थमुपदिश्यते -
अतः
८६
* श्री आचाराङ्गसूत्रम् (अक्षरगमनिका)
Page #96
--------------------------------------------------------------------------
________________
से भिक्खु परिकमिज वा चिट्टिज वा निसीइज वा तुयट्टिज वा सुसाणंसि वा सुन्नागारंसि वा गिरिगुहंसि वा रुक्खमूलंसि वा कुंभाराययणंसि वा हुरत्था वा कहिंचि विहरमाणं तं भिक्खु उवसंकमित्तु गाहावइ बूया आउसंतो समणा ! अहं खलु तव अट्ठाए असणं वा पाणं वा खाइमं वा साइमं वा वत्थं वा पडिग्गहं वा कंबलं वां पायपुंच्छणं वा पाणाई भूयाइं जीवाई सत्ताइं समारब्भ समुद्दिस्स कीयं पामिच्चं अच्छिज्जं अणिसट्टं अभिहडं आहट्टु चेएमि आवसहं वा समुसिणोमि से भुंजह वसह, आउसंतो समणा ! भिक्खू तं गाहावई समणसं सवयसं पडियाइक्खे - आउसंतो ! गाहावई नो खलु ते वयणं आढामि नो खलु ते वयणं परिजाणामि, जो तुमं मम अट्ठाए असणं वा (४) वत्थं वा (४) पाणाई वा ( ४ ) समारम्भ समुद्दिस्स कीयं पामिचं अछिज्जं अणिसट्टं अभिहडं आहड्डु चेएसि आवसहं वा समुस्सिणासि, से विरओ आउसो गाहावई ! एयस्स अकरणयाए ॥सू० १९९॥
स भिक्षु पराक्रमेत वा तिष्ठेद्वा निषीदेद्वा त्वग्वर्तेत वा श्मशाने वा शून्यागारे वा गिरिगुहाया वा वृक्षमूले वा कुम्भकाराऽऽयतने वा बहिर्वान्यत्र वा क्वचित् विहरन्तं तं भिक्षुमुपसंक्रम्य गृहपति ब्रूयात् आयुष्मन् ! भोः श्रमण ! अहं खलु तवार्थाय अशनं वा पानं वा खादिमं वा स्वादिमं वा वस्त्रं वा पतद्ग्रहं वा कम्बलं वा पादपुञ्छनं वा समुद्दिश्य आश्रित्य प्राणिनो भूतानि जीवान् सत्त्वान् समारभ्य क्रीतं प्रामित्यम् आच्छेद्यम् अनिसृष्टम् अभ्याहृतम् आहृत्य ददामि आवसथं वा आश्रयस्थानं समुच्छ्रिणोमि - अपूर्वं करोमि, तद्-अशनादिकं भुङ्क्ष्व वस । एवं गृहपतिनोक्ते सति तं गृहपति समनसं सवयसं प्रत्याचक्षीत आयुष्मन् ! भो गृहपते ! न खलु ते वचनमाद्रिये न खलु ते वचनम् आसेवनपरिज्ञया परिजानामि यत् त्वं • ममार्थाय अशनं वा ४ वस्त्रं वा ४ समुद्दिश्य प्राणिनो वा समारभ्य क्रीतं प्रामित्यम् आच्छिद्यम् अनिसृष्टम् अभ्याहृतं ददासि आवसथं च आश्रयस्थानं समुच्छ्रिणोसि अपूर्वं करोसि । अहं विरतोऽस्मि आयुष्मन ! भो ! गृहपते ! एतस्य भवदुपन्यस्तस्याऽकरणतयेति ।।१९९॥
तदेवं दण्डभीरूत्वं प्रतिपादितम् । अन्यः पुनः कश्चिद्विदितसाध्वभिप्रायः प्रच्छन्नमेव विदध्यात् तदपि कुतश्चिद् ज्ञात्वा प्रतिषेधयेद् इत्याह
से भिक्खु परिक्कमिज वा जाव हुरत्था वा कहिंचि विहरमाणं तं भिक्खुं
श्री आचाराङ्गसूत्रम् (अक्षरगमनिका) *
८७
Page #97
--------------------------------------------------------------------------
________________
उवसंकमित्तु गाहावई आयगयाए पेहाए असणं वा (४) वत्थं वा (४) जाव आहहु चेएइ आवसहं वा समुस्सिणाइ भिक्खु परिघासेउं, तं च भिक्खू जाणिज्जा सहसम्मइयाए परवागरणेणं अन्नेसि वा सुचा अयं खलु गाहावई मम अट्ठाए असणं वा (४) वत्थं वा (४) जाव आवसहं वा समुस्सिणाइ, तं च भिक्खू पडिलेहाए आगमित्ता आणविजा अणासेवणाए त्ति बेमि ॥सू० २००॥ ___स भिक्षु पराक्रमेत वा यावद् बहिर्वा क्वचिद् विहरन्तं तं भिक्षुमुपसंक्रम्य गृहपतिरात्मगतया प्रेक्षया अशनं वा वस्त्रं वा यावत् आहृत्य ददाति आश्रयस्थानं वा समुच्छ्रिणोति अपूर्वं करोति भिक्षु परिघासयितुं भोजयितुं तच्च अशनादिकं भिक्षुर्जानीयात् स्वसन्मत्या वा परव्याकरणेन, अन्येभ्यो वा श्रुत्वा - अयं खलु गृहपतिर्ममार्थाय अशनं वा ४ वस्त्रं वा ४ यावद् आश्रयस्थानं वा समुच्छ्रिणोति, तच्च-अशनादिकं भिक्षु प्रत्युपेक्ष्य अवगम्य-ज्ञात्वा गृहपतिं ज्ञापयेद् अनासेवनयेति ब्रवीमि ॥२००॥
किच -
भिक्खुं च खलु पुट्ठा वा अपुट्ठा वा जे इमे आहच्च गंथा वा फुसंति, से हंता हणह खणह छिंदह दहह पयह आलुपह विलुपह सहसाकारेह विष्परामुसह, ते फासे धीरो पुट्ठो अहियासए अदुवा आयारगोयरमाइक्खे, तकिया णमणेलिसं अदुवा वइगुत्तीए गोयरस्स अणुपुब्वेण संमं पडिलेहाए आयतगुत्ते बुद्धेहिं एवं पवेइयं ॥सू० २०१॥
भिक्षु च खलु पृष्ट्वा वा अपृष्ट्वा वा ये इमे गृहपत्यादय आहारादिकं आहृत्य ढौकित्वा महतो ग्रन्थाद् द्रव्यव्ययात्, यदिवा आहृत्यग्रन्थाः व्ययीकृतद्रव्याः, तदपरिभोगे स्पृशन्ति-उपतापयन्ति । स ईश्वरादिः स्वतो हन्ता, हत एनमिति परान्नोदयति क्षणुत छिन्त दहत पचत आलुम्पत विलुम्पत सहसात् कारयत - आशु पञ्चत्वं नयत विपरामृशत-बाधयत । तानेवम्भूतान् स्पर्शान् धीरः स्पृष्टः सन्नधिसहेत । अथवा सति सामर्थ्य आचारगोचरमाचक्षीत यदि वा तर्कयित्वा कोऽयं कञ्च नतो वेत्यादि पर्यालोच्य अनीदृशम् अनन्यसदृशं स्वपरपक्षस्थापनव्युदासद्वारेण आवेदयेत् । यदिवा सामर्थ्यविकलः स्यात् कुप्यति वा कथ्यमाने तर्हि वागगुप्त्या व्यवस्थितः सन् गोचरस्य पिण्डविशुद्ध्यादेराचारगोचरस्य आनुपूर्वेण सम्यक् शुद्धिं प्रत्युपेक्षेत आत्मगुप्तः सन् । बुद्धरेतत् प्रवेदितमिति ॥२०१।।
८८
* श्री आचाराङ्गसूत्रम् (अक्षरगमनिका)
Page #98
--------------------------------------------------------------------------
________________
न केवलं गृहस्थेभ्यः अकल्प्यमिति न गृह्यते येऽपि असमनोज्ञाः तेभ्यो दातुमपि न कल्पत इत्याह -
से समणुन्ने असमणुन्नस्स असणं वा जाव नो पाइजा नो निमंतिजा नो . कुजा वेयांवडियं परं आढायमाणे त्ति बेमि ॥सू० २०२॥
स समनोज्ञः असमनोज्ञाय अशनं वा यावन्नो प्रदद्याद नो निमन्त्रयेद नो कुर्याद् वैयावृत्त्यं परम् आद्रियमाण इति ब्रवीमि ॥२०२।।
किम्भूतस्तर्हि किम्भूताय दयादित्याह -
धम्ममायाणह पवेइयं माहणेण मइमया समणुन्ने समणुन्नस्स असणं वा जाव कुञा वेयावडियं परं आढायमाणे ति बेमि ॥सू० २०३॥
. धर्मम् आजानीत प्रवेदितं माहनेन मतिमता यथा समनोज्ञः समनोज्ञाय अशनं वा यावत् प्रदद्यात् कुर्याद् वैयावृत्यं परम् आद्रियमाण इति ब्रवीमि ॥२०३।।
॥ अध्ययन-८ : उद्देशकः-३ ॥ अशनायादानप्रदाने समनोज्ञः अधिकृतः । इहापि समनोज्ञः प्रव्रज्याया अर्हः । स कस्मिन् काले प्रव्राज्येत तदुच्यते । __ मज्झिमेणं वयसावि एगे संबुज्झमाणा समुढ़िया, सुचा मेहावी वयणं पंडियाणं निसामिया समियाए धम्मे आरिएहिं पवेइए ते अणवकंखमाणा अणइवाएमाणा अपरिग्गहेमाणा नो परिग्गहावंती सव्वावंती च णं लोगंसि निहाय दंडं पाणेहिं पावं कम्मं अकुबमाणे एस महं अगंथे वियाहिए ओए जुइमस्स खेयन्ने उववायं चवणं च नचा ॥सू० २०४॥
मध्यमेन वयसाऽपि एके सम्बुध्यमानाः समुत्थिताः । श्रुत्वा मेधावी वचनं पण्डितानां निशम्य अवधार्य समतामालम्बेत, यतः समतया धर्म आर्यैः प्रवेदितः । ते भोगान् अनवकासन्तः, प्राणिन अनतिपातयन्तः, परिग्रहं अपरिगृह्णन्तः, न परिग्रहवन्तो भवन्ति सर्वस्मिन् लोके । किञ्च निधाय क्षिप्त्वा त्यक्त्वा परितापकारिणं दण्डं प्राणिषु प्राणिभ्यो वा पापं कर्म अकुर्वाण एष महान् अग्रन्थः निग्रंथो व्याख्यातः । ओजः-एको रागद्वेषरहितः, द्युतिमतः-संयमस्य खेदज्ञो देवलोकेऽपि उपपातं च्यवनं च ज्ञात्वा, अनित्यताऽऽहितमतिः पापकर्मवर्जी स्यादिति ॥२०४।।
श्री आचाराङ्गसूत्रम् (अक्षरगमनिका) *
८९
Page #99
--------------------------------------------------------------------------
________________
केचित्तु मध्यमवयसि समुत्थिता अपि परीषहेन्द्रियैग्लनतां नीयन्त इति दर्शयितुमाह आहारोवचया देहा परीसहपभंगुरा पासह एगे सव्विंदिएहिं परिगिलायमाणेहिं ॥ सू० २०५॥
आहारोपचया देहा येषां ते आहारोपचितदेहा अपि परीषहभङ्गुराः पश्यत एके सर्वेन्द्रियैः परिग्लायमानैः क्लीबतामीयुः ||२०५ ||
विदितवेद्यश्च परीषहपीडितोऽपि किं कुर्यादित्याह -
ओए दयं दयइ, जे संनिहाणसत्थस्स खेयन्ने से भिक्खू कालन्ने बलन्ने मायन्ने खणन्ने विणयन्ने समयन्ने परिग्गहं अममायमाणे कालेणुट्ठाई अपडिने दुहओ छित्ता नियाई || सू० २०६ ॥
ओजः रागद्वेषरहितो दयां दयते पालयति I यः सन्निधानशास्त्रस्य - सम्यग् निधीयते नारकादिगतिषु येन तत्सन्निधानं कर्म तस्य शास्त्रं तस्य खेदज्ञः निपुणो, यदिवा सन्निधानशस्त्रस्य सन्निधानस्य कर्मणः शस्त्रं संयमः सन्निधानशस्त्रं तस्य खेदज्ञः स भिक्षुः कालज्ञो बलज्ञो मात्रज्ञः क्षणज्ञो विनयज्ञः समयज्ञः परिग्रहं अममायमानः कालेनोत्थायी अप्रतिज्ञो द्विधा - रागेण वा द्वेषेण वा या प्रतिज्ञा तां छित्त्वा संयमानुष्टाने निर्यातीति ||२०६||
तस्य च संयमानुष्ठाने परिव्रजतो यत्स्यात्तदाह
तं भिक्खुं सीयफासपरिवेवमाणगायं उवसंकमित्ता गाहावई बूया - आउसंतो समणा ! नो खलु गामधम्मा उव्वाहंति, आउसंतो गाहावई ! नो खलु मम गामधम्मा उव्वाहंति, सीयफासं च नो खलु अहं संचाएमि अहियासित्तए, नो खलु मे कप्पइ अगणिकायं उज्जालित्तए वा पज्जालित्तए वा कार्य आयावित्तए वा पयावित्तए वा, अन्नेसिं वा वयणाओ, सिया स एवं वयंतस्स परो अगणिकायं उज्जालित्ता पज्जालित्ता कायं आयाविज्ज वा, पयाविज्ज वा तं च भिक्खू पडिलेहाए आगमित्ता आणविज्जा अणासेवणाए त्ति बेमि ॥सू० २०७॥
·
तं भिक्षु शीतस्पर्शपरिवेपमानगात्रमुपसंक्रम्य शंकमानो गृहपति ब्रूयात् भो आयुष्मन् श्रमण ! न खलु त्वां - भवन्तं ग्रामधर्मा - विषया उद्बाधन्ते ? साधुराह - आयुष्मन् गृहपते ! न खलु मां ग्रामधर्मा उद्बाधन्ते, शीतस्पर्शं च न खलु अहं शक्नोमि अधिसोढुम् । न खलु मे कल्पते अग्निकायमुज्वालयितुं
* श्री आचाराङ्गसूत्रम् (अक्षरममनिका)
९०
Page #100
--------------------------------------------------------------------------
________________
वा प्रज्वालयितुं वा कायमातापयितुं वा प्रतापयितुं वा । अन्येषां वा वचनान्ममैतत्कर्तुं न कल्पते, यदिवाऽग्निसमारम्भायाऽन्यो वा वक्तुं न कल्पते ममेति । स्यात् कदाचित् तस्यैवं वदतः साधोः परः गृहपतिः अग्निकायमुज्वालय्य प्रज्वालय्य कायमातापयेत् प्रतापयेद्वा तं गृहपतिं च भिक्षुः प्रत्युपेक्ष्याऽवगम्य आज्ञापयेत्- प्रतिबोधयेद् अनासेवनया यथैतद् ममायुक्तमासेवितुमिति ब्रवीमि ॥२०७।।
॥ अध्ययन-८ : उद्देशकः-४ ॥ एष एव शीतस्पर्शाधिकारः परित्राणं च वस्त्रं, तस्योपायाऽऽसेवनं प्रतिपाद्यते -
जे भिक्खू तिहिं वत्थेहिं परिखुसिए पायचउत्थेहिं तस्स णं नो एवं भवइ चउत्थं वत्थं जाइस्सामि, से अहेसणिजाई वत्थाई जाइजा अहापरिग्गहियाई वत्थाई धारिजा, नो धोइज्जा (नो रइजा) नो धोयरत्ताई वत्थाई धारिजा, अपलिओवमाणे (अपलिउंचमाणे) गामंतरेसु ओमचेलिए, एयं खु वत्थधारिस्स सामग्गियं ॥सू० २०८॥ ___ यः स्थविरकल्पिकः प्रतिमाप्रतिपन्नो जिनकल्पिको वा भिक्षु त्रिभिर्वस्त्रैः पर्युषितः पात्रचतुर्थेस्तस्य नैवं भवति चतुर्थं वस्त्रं याचिष्यामि । वस्त्रत्रयाऽभावे स यथैषणीयानि वस्त्राणि याचेत, यथा परिगृहीतानि च वस्त्राणि धारयेत्, नो धावेत्, न च धौतरक्तानि वस्त्राणि धारयेत् । अन्तप्रान्तत्वात् तानि अपरिगोपयन् ग्रामान्तरेषु अवमचेलिको व्रजेत् । एतत् खलु वस्त्रधारिणः सामग्र्यमिति ॥२०८॥
शीतापगमे तान्यपि वस्त्राणि त्याज्यान्येतदर्शयितुमाह -
अह पुण एवं जाणिज्जा-उवाइकंते खलु हेमंते गिम्हे पडिवन्ने अहापरिजुन्नाई क्याइं परिविजा, अदुवा संतरुत्तरे अदुवा ओमचेले अदुवा एगसाडे अदुवा अचेले ॥सू० २०९॥ ____ अथ पुनरेवं जानीयात्-अपक्रान्तः खलु हेमन्तो ग्रीष्मः प्रतिपन्नस्ततो यथापरिजीर्णानि वस्त्राणि परिष्ठापयेत् अथवा क्षेत्रकालपुरुषगुणाद् भवेत् शीतं ततः आत्मपरितुलनार्थं शीतपरीक्षार्थं च सान्तरोत्तरः सान्तरम् उत्तरं-प्रावरणं यस्य स तथा, क्वचित्पावृणोति क्वचित् पार्श्ववर्ति बिभर्तीत्यर्थः, शीताशङ्कया नाद्यापि परित्यजति, अथवा अवमचेलः . एककल्पपरित्यागात् द्विकल्पधारीत्यर्थः अथवा शनैः शनैः शीतापगमे
श्री आचारागसूत्रम् (अक्षरगमनिका) *
९१
Page #101
--------------------------------------------------------------------------
________________
द्वितीयमपि परित्यजतीति एकशाटक अथवा आत्यन्तिकशीताभावे तदपि परित्यजतीति अचेलो भवतीति ॥ २०९॥
किमर्थमसावेकैकं वस्त्रं परित्यजेदित्याह -
लाघवियं आगममाणे, तवे से अभिसमन्नागए भवइ ॥ सू० २१०॥
लाघवं विद्यते यस्याऽसौ लाघविकस्तं लाघविकम् आत्मानम् आगमयन्-आपादयन् तपस्तस्य अभिसमन्वागतम् आसेवितं भवतीति ।। २१०।। एतच्च भगवता प्रवेदितमिति दर्शयितुमाह -
जमेयं भगवया पवेइयं तमेव अभिसमिचा सव्वओ सव्वत्ताए सम्मत्तमेव समभिज्जाणिज्जा | सू० २११॥
यदेतत् भगवता प्रवेदितं तदेव अभिसमेत्य सर्वतः सर्वात्मतया सम्यक्त्वमेव समत्वं वा सचेलाऽचेलावस्थयोस्तुल्यतां वा समभिजानीयात् आसेवेतेति ॥ २११॥
यः पुनरल्पसत्त्वतया भगवदुपदिष्टं नैव सम्यग् जानीयात् स एतद् अध्यवसायी स्यादित्याह - जस्स णं भिक्खुस्स एवं भवइ पुट्ठो खलु अहमंसि नालमहमंसि सीयफासं अहियासित्तए, से वसुमं सव्वसमन्नागयपन्नाणेणं अप्पाणेणं केइ अकरणयाए आउट्टे तवस्सिणो हु तं सेयं जमेगे विहमाइए तत्थावि तस्स कालपरियाए, सेऽवि तत्थ विअंतिकारए इच्चेयं विमोहायतणं हियं सुहं खमं निस्सेसं आगामि त्ति बेमि || सू० २१२॥
-
यस्य भिक्षोरेव भवति स्पृष्टः खल्वहमस्मि परीषहोपसर्गेः, नालमहमस्मि द्रव्यभावभेदभिन्नमन्यतरं शीतस्पर्शम् अधिसोढुम् स वसुमान्- संयमी सर्वसमन्वागतप्रज्ञानेनाऽऽत्मना कश्चित् तच्चिकित्साम् अकरणतया आवृत्तः व्यवस्थितः, तपस्विनो हि तत् श्रेयो यदेको वेहानसादिकः आत्मोद्बन्धनाय विहायोगमनादिकं अभ्युपगच्छति, तत्रापि - वेहानसादिमरणेऽपि कालपर्यायः- गुण एव यथा कालपर्यायमरणे कालपर्यायेण भक्तपरिज्ञादिमरणे । सोऽपि तत्र वेहानसादिमरणे व्यन्तिकारकः - विशेषेण अन्तक्रियाकारकः, इत्येतद् वेहानसादिमरणं विमोहायतनं - विगतमोहानामाऽऽयतनम्-आश्रयः हितं सुखं निश्रेयसं आनुगामिकमिति ब्रवीमि ॥२१२॥
तस्य
✿✿
९२ * श्री आचाराङ्गसूत्रम् (अक्षरगमनिका)
Page #102
--------------------------------------------------------------------------
________________
॥ अध्ययनं-८ : उद्देशकः-५ ॥ अनन्तरं वेहानसादिकमुपन्यस्तम्, इह तु ग्लानभावोपगतेन भिक्षुणा यत्कर्तव्यं तदाह -
जे भिक्खू दोहिं वत्थेहिं परिखुसिए पायतईएहिं तस्स णं नो एवं भवइ तइयं वत्थं जाइस्सामि, से अणेसणिज्जाइं वत्थाई जाइजा जाव एवं खु तस्स भिक्खुस्स सामग्गिअं, अह पुण एवं जाणिज्जा-उवाइकंते खलु हेमन्ते गिम्हे पडिवण्णे, अहापरिजुन्नाइं वत्थाई परिदृविजा, अहापरिजुन्नाइं परिढवित्ता अदुवा संतरुत्तरे अदुवा ओमचेले अदुवा एगसाडे अदुवा अचेले लाघवियं आगममाणे तवे से अभिसमन्नागए भवइ जमेयं भगवया पवेइयं तमेव अभिसमिच्चा सबओ सव्वत्ताए सम्मत्तमेव समभिजाणिया, जस्स णं भिक्खुस्स एवं भवइ-पुट्ठो अबलो अहमंसि नालमहमंसि गिहतरसंकमणं भिक्खायरियं गमणाए, से एवं वयंतस्स परो अभिहडं असणं वा (४) आहटु दलइजा, से पुवामेव आलोइजा-आउसंतो ! नो खलु मे कप्पइ अभिहडं असणं वा (४) भुत्तए वा पायए वा अन्ने वा एयप्पगारे ॥सू० २१३॥ ____ यो नियमाजिनकल्पिकपरिहारविशुद्धिकयथालन्दिकप्रतिमाप्रतिपन्नानामन्यतमो भिक्षाभ्यां वस्त्राभ्यां पर्युषितः पात्रततीयाभ्यां तस्य नैवं भवति-यथा तृतीयं वस्त्रं याचिष्यामि । स यथैषणीयानि वस्त्राणि याचेत यावद एतत खलु तस्य भिक्षोः सामग्र्यम् । अथ पुनरेवं जानीयात्-अपक्रान्तः खलु हेमन्तो गीष्मः प्रतिपन्नः यथापरिजीर्णानि वस्त्राणि परिष्ठापयेत् यथापरिजीर्णानि वस्त्राणि परिष्ठाप्य, अथवा सान्तरोत्तरः, अथवा अवमचेलः, अथवा एकशाटकः, अथवा अचेलो भवति । लाघविकम् आगमयन तपस्तस्य अभिसमन्वागतं भवति । यदेतत् भगवता प्रवेदितं तदेव अभिसमेत्य सर्वतः सर्वात्मतया सम्यक्त्वमेव समत्वमेव वा समभिजानीयात् । यस्य भिक्षोरेवं भवति-वातादिरोगैः स्पृष्टोऽहं, अबलोऽहमस्मि, नालमहस्मि गृहान्तरसङ्कमणाय भिक्षाचर्यां गमनाय । अथ तस्मै वैवं वदते भिक्षवे परः गृहस्थादि अभिहृतम् अशनं वा ४ आहृत्य दद्यात् “केइ गाहावई उवसंकमित्तु बूया-आउसंतो ! समणा ! अहन्नं तव अट्ठाए असणं वा ४ अभिहडं दलामि से पुव्वामेव जाणेज्जा आउसंतो गाहावई ! जन्नं तमं मम अट्ठाए असणं वा ४ अभिहडं चेतेसि, णो य खलु मे कप्पइ एयप्पगारं असणं वा ४ भोत्तए वा पायए वा, अन्ने वा तहप्पगारे “इति पाठान्तरं
श्री आचाराङ्गसूत्रम् (अक्षरगमनिका) *
९३
Page #103
--------------------------------------------------------------------------
________________
कण्ठ्यम एवं सति स साधु ग्लानोऽपि जीवितनिष्पिपासुः पूर्वमेव आलीचयेत् - अभ्याहृतादिकं ज्ञात्वा प्रतिषेधयेत्, तद्यथा-आयुष्मन ! न खलु मे कल्पते अभिहृतम् अशनं वा ४ भोक्तुं वा पातुं वा अन्यद् वैतत्प्रकारमाधाकर्मादिदोषदुष्टमिति ॥२१३।।
किच
जस्स णं भिक्खुस्त अयं पगप्पे-अहं च खलु पडिन्नत्तो अपडिन्नत्तेहि गिलाणो अगिलाणेहिं अभिकंख साहम्मिएहि कीरमाणं वेयावडियं साइज्जिस्सामि, अहं वावि खलु अप्पडिन्नत्तो पडिन्नत्तस्स अगिलाणो गिलाणस्स अभिकंख साहम्मियस्स कुञा वेयावडियं करणाए । आहटु परिन्नं अणुक्खिस्सामि आहडं च साइन्जिस्सामि १, आहटु परिन्नं आणक्खिस्सामि आहडं च नो साइजिसामि २, आहटु परिन्नं नो आणक्खिस्सामि आहडं च साइज्जिस्सामि ३, आह? परिन्नं नो आणक्खिस्सामि आहडं च नो साइजिस्सामि ४, एवं से अहाकिट्टियमेव धम्मं समभिजाणमाणे संते विरए सुसमाहियलेसे तत्थवि तस्स कालपरियाए से तत्थ विअंतिकारए, इचेयं विमोहाययणं हियं सुहं खमं निस्सेसं आणुगामियं त्ति बेमि ॥सू० २१४॥
यस्य परिहारविशुद्धिकस्य यथालन्दिकस्य वा भिक्षोरयं प्रकल्पःआचारः, तद्यथा- अहं च खलु प्रतिज्ञप्तः- परैर्विज्ञप्तो मया चाऽप्रतिज्ञप्तैः-अनभ्यर्थितैगर्लानः सन्नग्लानैर्निर्जरामभिकाङ्ग्य साधर्मिकैः क्रियमाणं वैयावृत्त्यं स्वादयिष्यामि अभिलषिष्यामि । अहं च पुनः खलु अप्रतिज्ञप्तः-अनुक्तः प्रतिज्ञप्तस्य-वैयावृत्यकरणायोक्तस्याऽग्लानः सन् ग्लानस्य निर्जरामभिकाङ्ख्य साधर्मिकस्य कुर्यां वैयावृत्यमुपकारस्य करणाय । तदेवं प्रतिज्ञां परिगृह्यापि भक्तपरिज्ञया प्राणान् जह्याद् न पुनः प्रतिज्ञामिति भावार्थः ___इदानीं प्रतिज्ञाविशेषद्वारेण चतुर्भङ्गिकामाह-एकः कश्चिदेवंभूतामाहृत्यगृहीत्वा प्रतिज्ञां वैयावृत्यं कुर्यात्, तद्यथा-अन्वेषयिष्यामि ग्लानस्यापरस्याहारादिकम्, तथाऽपरेण चाहृतम् - आनीतं स्वादयिष्यामि ॥१॥ तथाऽपर आहृत्य प्रतिज्ञाम् तद्यथा-अन्वीक्षिष्ये आहारादिकम् अपरनिमित्तम, तथाऽपरेणाहृतं च न स्वादयिष्यामि ॥२॥ तथाऽपर आहृत्य प्रतिज्ञाम्, तद्यथा-नान्वीक्षिष्यामि आहारादिकमपरनिमित्तं स्वादयिष्यामि
९४
* श्री आचाराङ्गसूत्रम् (अक्षरगमनिका)
Page #104
--------------------------------------------------------------------------
________________
चान्येनाहृतम् ॥३॥ तथाऽपर आहृत्य प्रतिज्ञाम् तद्यथा-नान्वीक्षिष्ये आहारादिकमपरनिमित्तम् अन्येनाहृतं च न स्वादयिष्यामि ४ एवं स यथाकीर्तितमेव धर्मं समभिजानन् शान्तो श्रान्तो वा विरतः सुसमाहृतलेश्यो ग्लानभावाऽऽपन्नोऽपि प्रतिज्ञालोपमकुर्वाणः शरीरपरित्यागाय भक्तप्रत्याख्यानं कुर्यात् । तत्राऽपि-भक्तपरिज्ञायामपि तस्य कालपर्यायः - गुण एव यथा कालपर्यायमरणे । स तत्र-ग्लानतयाऽनशनविधाने व्यन्तिकारकः विशेषेण अन्तक्रियाकारकः कर्मक्षयविधायीति । एतद् विमोहायतनं विगतमोहानामायतनम्-आश्रयो हितं सुखं क्षमं निश्रेयसम् आनुगामिकमिति ब्रवीमि तथा वाच्यं चात्र लाघविकम् आत्मानम् आगमयन् तपस्तस्य समन्वागतं भवतीति ॥२१४।।
॥ अध्ययनं-८ : उद्देशकः-६ ॥ अनन्तरं भिक्षोः साभिग्रहस्य ग्लानतया भक्तप्रत्याख्यानमुक्तम्, इहापि अभिग्रहविशेषाधिकारो वर्तते, तयथा -
जे भिक्खू एगेण वत्थेण परिखुसिए पायबिईएण, तस्स णं नो एवं भवइ-बिईयं वत्थं जाइस्सामि, से अहेसणिज्जं वत्थं जाइजा अहापरिग्गहियं वत्थं धारिता जाव गिम्हे पडिवन्ने अहापरिजुन्नं वत्थं परिढविज्जा (२) अदुवा एगसाडे अदुवा अचेले लाघवियं आगममाणे जाव सम्मत्तमेव समभिजाणिया ॥सू० २१५॥
यो भिक्षुरेकेण वस्त्रेण पर्युषितः पात्रद्वितीयेन तस्य नैवं भवति-द्वितीयं वस्त्रं याचिष्यामि स यथैषणीयं वस्त्र याचेत, यथापरिगृहीतं वस्त्रं धारयेत् तावद् ग्रीष्मः प्रतिपन्नः । यथापरिजीर्णवस्त्रं परिष्ठापयेत्, परिष्ठाप्य अवमचेलः अथवा एकशाटः अथवा अचेलो लाघविकं आगमयन् यावत् सम्यक्त्वमेव समत्वमेव वा समभिजानीयात् ॥२१५॥
तस्य च भिक्षोः परिकर्मितमतेलघुकर्मतया एकत्वाध्यवसायः स्यादिति दर्शयितुमाह -
जस्स णं भिक्खस्स एवं भवइ- एगे अहमंसि, न मे अस्थि कोइ, न याहमवि कस्सवि, एवं से एगागिणमेव अप्पाणं समभिजाणिज्जा, लापवियं आगममाणे तवे से अभिसमन्नागए भवइ जाव समभिजाणिया ॥सू० २१६॥
यस्य भिक्षोरेवे भवति-एकोऽहमस्मि, न मेऽस्ति कश्चित्, न चाहमपि कस्यचित्, एवमसौ एकाकिनमेवाऽऽत्मानं समभिजानीयात् । एवं संदधानो
श्री आचारागसूत्रम् (अक्षरगमनिका) *
९५
Page #105
--------------------------------------------------------------------------
________________
यद्यद्गोगादिकमुपतापकारणमापद्यते तत्तदधिसहते यतो लाघविकम् आत्मानम् आगमयन् तपस्तस्य समन्वागतं भवति यावत् सम्यक्त्वमेव समत्वमेव वा समभिजानीयात् ॥२१६॥ ___इहैवाध्ययनेऽधस्ताद् उद्गमोत्पादनैषणा तथा ग्रहणैषणा प्रतिपादिता, अधुनाऽवशिष्टा ग्रातषणा प्रतिपायते -
से भिक्खू वा भिक्खुणी वा असणं वा (४) आहारेमाणे नो वामाओ हणुयाओ दाहिणं हणुयं संचारिजा आसाएमाणे, दाहिणाओ वामं हणुयं नो संचारिजा आसाएमाणे से अणासायमाणे लापवियं आगममाणे तवे से अभिसमन्नागए भवइ, जमेयं भगवया पवेइयं तमेवं अभिसमिचा सवओ सव्वत्ताए सम्मत्तमेव अ(सम)भिजाणिया ॥सू० २१७॥
स भिक्षुर्वा भिक्षुणी वा अशनं वा ४ आहारयन् न वामतो हनुतो दक्षिणं हनुं सञ्चारयेत् आस्वादयन्, दक्षिणतो हनुतो वामं हनुकं न सञ्चारयेद् आस्वादयन् । 'आढायमाणे' पाठान्तरमाश्रित्य आदरवानाहारे मूर्छितो गृद्धो न संञ्चारयेदिति । स कुतश्चिन्निमित्तात् सञ्चारयन्नपि अनास्वादयन् सञ्चारयेत्, यत आहारसम्बन्धिलाघवम् आगमयन् - आपादयन् तपस्तस्याऽभिसमन्वागतं भवति यदेतद् भगवता प्रवेदितं तदेतद् अभिसमेत्य सर्वतः सर्वात्मतया सम्यक्त्वमेव समत्वमेव वा समभिजानीयात् ॥२१७॥
आस्वादनिषेधेन चाऽन्तप्रान्ताऽऽहाराभ्युपगमोऽभिहितः तदाशितयाऽपचितमांसशोणितस्य जरदस्थिसंततेः क्रियावसीदत्कायचेष्टस्य शरीरपरित्यागबुद्धिः स्यादित्याह -
जस्स णं भिक्खुस्स एवं भवइ-से गिलामि च खलु अहं इममि समये इमं सरीरगं अणुपुब्वेण परिवहित्तए, से अणुपुब्वेणं आहारं संवट्टिजा, अणुपुब्वेणं आहारं संवट्टित्ता कसाए पयणुए किचा समाहियाचे फलगावयट्ठी उट्ठाय भिक्खू अभिनिव्वुडच्चे ॥सू० २१८॥ .. यस्य भिक्षोरेवं भवति-अथ ग्लायामि च खल्वहम्, अस्मिन् समये न शक्नोमि इदं शरीरकं आनुपूर्व्या यथेष्टकालाऽऽवश्यकादिक्रियाषु परिवोढुं व्यापारयितुं, स आनुपूर्व्या-चतुर्थषष्ठाऽऽम्लादिकेन आहारं संवर्तयेत्-संक्षिपेत् आनुपूर्व्या षष्ठाष्टमदशमद्वादशादिकेन आहारं संवर्त्य कषायान् प्रतनुकान् कृत्वा समाहितार्चः सम्यगाहिता - व्यवस्थिता अचा. शरीरं येन स नियमितकायव्यापार इत्यर्थः यद्वा अर्चा - लेश्या, सम्यगाहिता - जनिता लेश्या येन स अतिविशुद्धाध्यवसाय इत्यर्थः, यदिवा अर्चा -
९६
* श्री आचाराङ्गसूत्रम् (अक्षरगमनिका)
Page #106
--------------------------------------------------------------------------
________________
कषायज्वाला समाहिता - उपशमिता अर्चा येन स तथा फलकावस्थायी - तक्ष्यमाणोऽपि दुर्वचनवास्यादिभिः कषायाभावतया फलकवदवतिष्ठते इति फलकावस्थायी - वासीचन्दनंकल्प इत्यर्थः, फलकापदर्थी फलं कर्मक्षयरूपं तदेव फलकं तेन आपदि संसारभ्रमणरूपायाम् अर्थः स विद्यते तस्य तथा फलकाऽऽपदर्थी । यदिवा फलकवत् वास्यादिभिरुभयतो बाह्यतोऽभ्यन्तरतश्चावकृष्टः अभ्युद्यतमरणार्थमुत्थाय भिक्षुरभिनिर्वत्तार्चः शरीरसन्तापरहित इङ्गितमरणं कुर्यादिति ॥२१८।। __कथं कुर्यादित्याह -
अणुपविसित्ता गामं वा नगरं वा खेडं वा कब्बडं वा मडंबं वा पट्टणं वा दोणमुहं वा आगरं वा आसमं वा सन्निवेसं वा नेगमं वा रायहाणिं वा तणाई जाइजा तणाई जाइत्ता से तमायाए एगंतमवक्कमिजा, एगंतमवक्कमित्ता अप्पंडे अप्पपाणे अप्पबीए अप्पहरिए अप्पोसे अप्पोदए अप्पुत्तिंगपणगदगमट्टियमक्कडासंताणए पडिलेहिय २ पमज्जिय २ तणाई संथरिजा, तणाई संथरित्ता इत्थवि समए इत्तरियं कुजा, तं सचं सच्चवाई ओए तिन्ने छिन्नकहकहे आईयढे अणाईए चिच्चाण भेउरं कायं संविय विरूवरूवे परीसहोवसग्गे अस्सि विस्संभणयाए भेरवमणुचिन्ने तत्थवि तस्स कालपरियाए जाव आणुगामियं त्ति बेमि ॥सू० २१९॥
अनुप्रविश्य ग्रामं वा नगरं वा खेटं वा कर्बर्ट वा मडम्बं वा पत्तनं वा द्रोणमुखं वा आकरं वा आश्रमं वा सन्निवेशं वा नैगमं वा राजधानी वा तृणानि याचेत । तृणानि याचित्वा स नानि आदाय एकान्तं-गिरिगुहादिकम् अपक्रामेत्, एकान्तमपक्रम्य अल्पाण्डे अल्पशब्दः सर्वत्राऽभाववाची अल्पप्राणे अल्पबीजे अल्पहरिते अल्पावश्याये अल्पोदके अल्पोत्तिङ्गपनकोदकमत्तिकामर्कटसन्तानके महास्थण्डिले प्रत्युपेक्ष्य २ प्रमृज्य २ तृणानि संस्तरेत् । तृणानि संस्तीर्य उच्चारप्रस्रवणभूमिं च प्रत्युपेक्ष्य पूर्वाभिमुखसंस्तारकगतः करललाटस्पर्शिघृतरजोहरणः कृतसिद्धनमस्कारः आवर्तितपञ्चनमस्कारः अत्रापि समये इत्वरिकं - नियतप्रदेश-प्रचाराऽभ्युपगमादिङ्गितमरणं न तु साकारं प्रत्याख्यानं कुर्यात्, तद् इङ्गितमरणं सत्यं - सद्भ्यो हितं सुगतिगमनाऽविसंवादित्वात् सर्वेज्ञोपदेशाच्च । तथा स्वतोऽपि सत्यवादी • ओजस्तीर्णः छिन्नकथंकथः - छिन्ना कथमपि कथा विकथारूपा येन स
श्री आचाराङ्गसूत्रम् (अक्षरगमनिका) *
९७
Page #107
--------------------------------------------------------------------------
________________
तथा, यदिवा कथमहमिङ्गितमरणप्रतिज्ञां निर्वहिष्ये इत्येवंरूपा कथा सा छिन्ना येन स तथा महापुरुषतया व्याकुलतारहित इत्यर्थः । आतीतार्थः अतीव इताः ज्ञाता अर्था येन सोऽयम् आतीतार्थः, यद्वा अतीता अतिक्रान्ता अर्थाः - प्रयोजनानि यस्य स तथा उपरतव्यापार इत्यर्थः, आदत्तार्थो वा, अनातीतः-आसमन्तादतीव इतो गतोऽनाद्यनन्ते संसारे आतीतः, न आतीतः अनातीतः, यदिवा अनादत्तः संसारो येन स तथा, त्यक्त्वा भिदुरं कायं, संविधूय विरुवरूपान् परीषहोपसर्गान्, अस्मिन - सर्वज्ञप्रणीताऽऽगमे विस्रम्भणतया भैरवमनुचीर्णवान् । तत्रापि ग्लानतयाऽऽहितेङ्गितमरणेऽपि तस्य कालपर्यायः । सोऽपि तत्र व्यन्तिकारक इत्यादि पूर्ववद् यावद् आनुगामिकमिति ब्रवीमि ॥२१९।।
॥ अध्ययनं-८ : उद्देशकः-७ ॥ अनन्तरमिङ्गिमरणमभिहितम् इहापि अभिग्रहाधिकारो वर्तते - जे भिक्खू अचेले परिखुसिए तस्स णं भिक्खुस्स एवं भवइ - चाएमि अहं तणफासं अहियासित्तए सीयफासं अहियासित्तए तेउफासं अहियासित्तए दंसमसगफासं अहियासित्तए एगयरे अन्नतरे विरूवरूवे फासे अहियासित्तए हिरिपडिच्छायणं चऽहं नो संचाएमि अहियासित्तए, एवं से कप्पेइ कडिबंधणं धारित्तए ।सू० २२०॥
यो भिक्षुरचेलः पर्युषितस्तस्य भिक्षोरेव भवति - शक्नोमि अहं तृणस्पर्शम् अध्यासयितुं, शीतस्पर्शम् अध्यासयितुं तेजः-स्पर्शम् अध्यासयितुं, दंशमशकस्पर्शम् अध्यासयितुम्, एकतरान् अन्यतरान् विरूपरूपान् स्पर्शान् अध्यासयितुं, ह्रीप्रतिच्छादनं ह्री - लज्जा तया गृप्तप्रदेशस्य प्रच्छादनं चाहं न शक्नोमि अध्यासयितुं, त्यक्तुं न शक्नोमीत्यर्थः, एवं प्रकृतिलज्जालुतया साधनविकृतिरूपतया वा तस्य कल्पते कटिबन्धनं-चोलपट्टकं धारयितुमिति ॥२२०॥
पुनरेतानि कारणानि न स्युस्ततोऽचेल एव पराक्रमेत । अचेलतया शीतादिस्पर्श सम्यगघिसहेतेति । एतत्प्रतिपादयितुमाह -
अदुवा तत्थ परक्कमंतं भुजो अचेलं तणफासा फुसन्ति सीयफासा फुसन्ति तेउफासा फुसन्ति दंसमसगफासा फुसन्ति एगयरे अन्नयरे विरूवरूवे फासे अहियासेइ, अचेले लापवियं आगममाणे जाव समभिजाणिया ॥सू० २२१॥
९८
* श्री आचाराङ्गसूत्रम् (अक्षरगमनिका)
Page #108
--------------------------------------------------------------------------
________________
अथवा तत्र संयमे पराक्रममाणं भूयोऽचेलं तृणस्पर्शाः स्पृशन्ति, शीतस्पर्शा स्पृशन्ति, तेज: स्पर्शा स्पृशन्ति, दंशमशकस्पर्शाः स्पृशन्ति तदा एकतरान् अन्यतरान् विरूपरूपान स्पर्शान् अधिसहते अचेलो लाघविकम् आगमयन् यावत् समभिजानीयादिति ॥२२१।।
किंच-उक्त स्वरूपप्रतिमाप्रतिपन्न एवाऽपरान् प्रतिमाप्रतिपन्नानाश्रित्य विशिष्टमभिग्रहं गृह्णीयात्, तयथा -
जस्स णं भिक्खुस्स एवं भवइ- अहं च खलु अन्नेसिं भिक्खूणं असणं वा ४ आहटु दलइस्सामि आहडं च साइजिस्सामि (१), जस्स णं भिक्खुस्स एवं भवइ- अहं च खलु अन्नेसिं भिक्खूणं असणं वा ४ आहटु दलइस्सामि आहडं च नो साइस्सामि (२) जस्स णं भिक्खुस्स एवं भवइ-अहं च खलु असणं वा ४ आहटु नो दलइस्सामि आहडं च साइजिस्सामि (३) जस्स गं भिक्खुस्स एवं भवइ-अहं च खल अन्नेसिं भिक्खणं असणं वा ४ आहट्ट नो दलइस्सामि आहडं च नो साइजिस्सामि (४) अहं च खलु तेण अहाइरित्तेण अहेसणिज्जेण अहापरिग्गहिएणं असणेण वा ४ अभिकंख साहम्मियस्स कुञा वेयावडियं करणाए, अहं वावि तेण अहाइरित्तेग अहेसणिज्जेण अहापरिग्गहिएणं असणेण वा ४ अभिकंख साहम्मिएहिं कीरमाणं वेयावडियं साइन्जिस्सामि लापवियं आगममाणे जाव सम्मत्तमेव समभिजाणिया ॥सू० २२२॥ ___ यस्य भिक्षोरेवं भवति-अहं च खलु अन्येभ्यो भिक्षुभ्यः अशनं वा ४ आहृत्य दास्यामि आहृतं च स्वादयिष्यामि ।।१।। यग्य भिक्षोरेवं भवति-अहं च खलु अन्येभ्यो भिक्षुभ्योऽशनादिकमाहृत्य दास्यामि अपराहृतं च न स्वादयिस्यामि ॥२॥ यस्य च भिक्षोरेवं भवति-अहं च खलु अन्येभ्यो भिक्षुभ्यः अशनं वा ४ आहृत्य न दास्यामि आहृतं च स्वादयिष्यामि ।।३।। यस्य भिक्षोरेवं भवति-अहं च खलु अन्येभ्यो भिक्षुभ्यः अशनं वा ' 'आहृत्य न दास्यामि आहृतं च न स्वादयिष्यामि ॥४॥ इत्येवं चतुर्णामभिग्रहाणामन्यतरमभिग्रहं गृह्णीयात्, अथवा एतेषामेवाद्यानां त्रयाणां भङ्गानामेकपदेनैव कश्चिदभिग्रहं गृह्णीयात् इति दर्शयितुमाह -
अहं च खलु तेन तथाऽतिरिक्तेन यथैषणीयेन यथापरिगृहीतेन अशनेन वा ४ निर्जरामभिकाङ्क्षय कुर्यां वैयावृत्त्यमुपकारस्य करणाय ।
पक्षान्तरमाह. अहं - चाऽपि . च पुनस्तेन यथाऽतिरिक्तेन
श्री आचारागसूत्रम् (अक्षरगमनिका) *
९९
Page #109
--------------------------------------------------------------------------
________________
यथापरिगृहितेन अशनेन वा ४ निर्जरामभिकाङ्ग्य साधर्मिकैः क्रियमाणं वैयावृत्यं स्वादयिष्यामि अभिलषिष्यामि, यो वाऽन्यः साधर्मिकोऽन्यस्य करोति तं चानुमोदयिष्यामि लाघविकम् आगमयन् यावत् सम्यक्त्वमेव समत्वमेव वा समभिजानीयादिति ॥२२२॥
तदेवमन्यतराभिग्रहवान् भिक्षुरचेलः सचेलो वा शरीरपीडायां सत्यामसत्यां वा आयुःशेषतामवगम्य उद्यतमरणं विदध्यादिति दर्शयितुमाह -
जस्स णं भिक्खुस्स एवं भवइ-से गिलामि खलु अहं इमम्मि समए इमं सरीरगं अणुपुबेणं परिवहित्तए, से अणुपुब्वेणं आहारं संवट्टिज्जा (२) कसाए पयणुए किच्चा समाहियच्चे फलगावयट्ठी उट्ठाय भिक्खू अभिनिबुडच्चे अणुपविसित्ता गामं वा नगरं वा जाव रायहाणिं वा तणाई जाइजा जाव सन्थरिजा, इत्थवि समए कायं च जोगं च ईरियं च पचक्खाइजा, तं सचं सच्चावाई ओए तिन्ने छिन्नकहकहे आईयढे अणाईए चिचाणं भेउरं कायं संविहुणिय विरूवसवे परीसहोवसग्गे अस्सि विस्संभणाए भेरवमणुचिन्ने तत्थवि तस्स कालपरियाए, सेवि तत्थ विअन्तिकारए, इच्चेयं विमोहाययणं हियं सुहं खमं निस्सेसं आणुगामियं तिबेमि ॥सू० २२३॥
यस्य भिक्षोरेवं भवति-अथ ग्लायामि च खल्वहम्, अस्मिन् समये न शक्नोमि इदं शरीरकमानुपूर्व्या परिवोढुं स आनुपूर्व्या आहारं संवर्तयेत् संक्षिपेत् । आनुपूर्व्या आहारं संवृत्य कषायान् प्रतनुकान् कृत्वा समाहितार्चः फलकावस्थायी फलकापदर्थी वाऽभ्युद्यतमरणार्थमुत्थाय भिक्षुरभिनिर्वत्तार्चः अनुप्रविश्य ग्रामं वा नगरं वा यावद् राजधानी वा तृणानि याचेत । याचित्वा यावत् संस्तरेत् । संस्तीर्य तणानि चाऽत्रापि समये संस्तारकमारुह्य सिद्धसमक्षं स्वतः पञ्चमहाव्रतारोपणं करोति । ततश्चतुर्विधमप्याहारं प्रत्याचष्टे । ततः पादपोगमनाय कायं च योगं च ईर्यां च प्रत्याचक्षीत । तत सत्यं सत्यवादी ओजस्तीर्ण छिन्नकथंकथ आतीतार्थ आदत्तार्थो वा अनातीत अनादत्तो वा त्यक्त्वा भिदुरं कायं, संविधूय विरूपरूपान् परीषहोपसर्गान्, अस्मिन्-सर्वज्ञप्रणीताऽऽगमे विस्रम्भणतया भैरवमनुचीर्णवान् । तत्रापि तस्य कालपर्यायः । सोऽपि तत्र व्यन्तिकारक इत्येतद् विमोहायतनं हितं सुखं क्षम निश्रेयसम् आनुगामिकमिति ब्रवीमि ॥२२३॥
*
१००
* श्री आचारागसूत्रम् (अक्षरगमनिका)
Page #110
--------------------------------------------------------------------------
________________
॥ अध्ययनं-८ : उद्देशकः-८॥ अनन्तरं रोगादिसंभवे उद्यतमरणविधानमुक्तं इह तु तदेवानुपूर्विविहारिणामुच्यते -
अणुपुब्वेण विमोहाई, जाई धीरा समासज्ज वसुमन्तो मइमन्तो, सव्वं नचा अणेलिसं ॥१॥ दुविहंपि विइत्ता णं, बुद्धा धम्मस्स पारगा । अणुपुब्बीइ संखाए, आरंभाओ (य) (कम्मुणाओ) तिउट्टइ ॥२॥ कसाए पयणू किच्चा, अप्पाहारे तितिक्खए । अह भिक्खू गिलाइजा, आहारस्सेव अन्तियं ॥३॥ जीवियं नाभिकंखिजा, मरणं नोवि पत्थए, दुहओऽविन सजिजा, जिवीए मरणे तहा ॥४॥ ____ आनुपूर्व्या विमोहानि यानि - भक्तपरिजेङ्गितमरणपादपोपगमनानि समासाद्य धीरा वसुमन्तः संयमिनो मतिमन्तः सर्व-कृत्याकृत्यं ज्ञात्वाऽअनीदृशं समाधिमनुपालयेत् ॥१॥ किंच-द्विविधमपि बाह्यान्तरभेदभिन्नतपो विदित्वाआसेव्य यद्वा बाह्य-शरीरोपकरणादि आभ्यन्तरं-रागादि त्यक्त्वा बुद्धा धर्मस्य पारगा आनुपूर्व्या मरणकालं संख्याय - ज्ञात्वा आरम्भतश्च शरीरधारणायाऽन्नपानाद्यन्वेषणात्मकात् त्रुट्यति पाठान्तरं - 'कम्मुणाओ तिउट्टइ' सुगमम् ॥२॥ स चाऽभ्युद्यतमरणाय संलेखनां कुर्वन् प्रधानभूतां भावसंलेखना कुर्यादित्येतद्दर्शयितुमाह - ___कषायान् प्रतनून् कृत्वा अल्पाहारस्तितिक्षते । अथ भिक्षुग्लायेत्, आहारस्यैवान्तिकं पर्यवसानं व्रजेद, समीपं वा न व्रजेत्, तथाहि . क्षणे मूर्च्छन्नाहारस्यैवान्तिकं - पर्यवसानं व्रजेदिति संलेखनाक्रमं विहायाशनं विदध्यादित्यर्थः, यदिवा ग्लानतामुपगतः सन्नाहारस्यान्तिक-समीपं न व्रजेत् ॥३॥ किंच तत्र संलेखनायां व्यवस्थितः सर्वदा वा जीवितं नाभिकाङ्केत्, मरणं नाऽपि प्रार्थयेत् । उभयतोऽपि न सजेत् जीविते मरणे तथा ॥४॥
किभूतस्तर्हि स्यादित्याह -
मज्झत्थो निजरापेही, समाहिमणुपालए अन्तो बहिं विऊस्सिन्ज, अज्झत्थं सुद्धमेसए ॥५॥ जं किंचुवक्कम जाणे, आउखेमस्समप्पणो । तस्सेव अन्तरद्धाए, खिप्पं सिक्खिज पंडिए ॥६॥ गामे वा अदुवा रणे, थंडिलं पडिलेहिया । अप्पपाणं तु विन्नाय, तणाई संथरे मुणी ॥७॥ अणाहारो तुयट्टिन्जा, पुट्ठो तत्थऽहियासए । नाइवेलं उवचरे, माणुस्सेहि विपुट्ठवं ॥८॥ संसप्पगा य जे पाणा, जे य उड्डमहाचरा । भुंजन्ति मंससोणियं, न छणे न पमजए ॥९॥ पाणा देहं विहिंसन्ति, ठाणाओ नवि उन्भमे आसवेहि विवित्तेहिं, तिप्पमाणोऽहियासए ॥१०॥
श्री आचारागसूत्रम् (अक्षरगमनिका) *
१०१
Page #111
--------------------------------------------------------------------------
________________
मध्यस्थो निर्जराऽपेक्षी, समाधिमनुपालयेत् । अन्तः कषायान् बहिः शरीरोपकरणादिकम् व्युत्सृज्य शुद्धम् अध्यात्मम् अन्तःकरणम् अन्वेषयेत् प्रार्थयेत् ||५|| किंच आयुः क्षेमस्याऽऽत्मनः जीवितस्य यं कश्चनमुपक्रमम् उपायम् एषणीयविधिनाऽभ्यङ्गादिकं यदिवा यत्किमपि आयुः पुद्गलानां संवर्त्तनं समुपस्थितम् तज्जानीयात् तस्यैव अन्तरद्धायां संलेखनाकालस्य -मध्ये क्षिप्रं शिक्षेत समाधिमरणमभिकाङ्क्षन् तदुपशमोपायमेषणीयविधिनाऽभ्यङ्गादिकं विदध्यात्, - पुनरपि संलिखेत् यदिवा भक्तपरिज्ञादिकमासेवेत पण्डितः । एतदुक्तं भवति समाधेरुपायं जानीत व्यापारयेच्चेति ||६|| तमुपक्रमं ज्ञात्वा किं कुर्यादित्याह गामे वा अथवाऽरण्ये, स्थण्डिलं प्रत्युपेक्ष्य अल्पप्राणं प्राणिरहितं स्थण्डिलं . तु विज्ञाय तृणानि संस्तरेन्मुनि ||७|| संस्तीर्य तृणानि यत्कुर्यात्तदाह- अनाहारस्त्वग्वर्तेत त्वग्वर्तनं कुर्यात् । स्पृष्टस्तत्र अध्यासयेत् । नाऽतिवेलं - मर्यादाम् उपचरेत् नोल्लंघेत मानुष्यैः परीषहोपसर्गैर्विस्पृष्टवान् ॥८॥
एतदेव दर्शयितुमाह -
संसर्पकाश्चः संसर्पन्तीति संसर्पकाः पिपीलीकाक्रोष्ट्रादयो ये प्राणिनः, ये च ऊर्ध्वमधश्चराः । भुञ्जते मांसशोणितं तान् न क्षणुयान्न च रजोहरणादिना प्रमार्जयेत् ||९|| प्राणिनो देहं विहिंसन्ति न तु ज्ञानादि, तस्मात् स्थानान्नापि उदभ्रमेत् नान्यत्र यायात् 1 आश्रवैर्विविक्तैः पृथग्भूतैरविद्यमानैः शुभाध्यवसायी तैर्भक्ष्यमाणोऽपि अमृतादिना तृप्यमाण इव वेदनां तैस्तप्यमानो वाऽध्यासयेत् - अधिसहेत ॥१०॥
=
१०२
गन्थेहिं विवित्तेहिं, आउकालस्स पारए पग्गहियतरगं चेयं, दवियस्स वियाणओ ||११|| अयं से अवरे धम्मे, नायपुत्तेण साहिए । आयवज्जं पडीयारं, विजहिज्जा तिहा तिहा ॥ १२ ॥ हरिएसु न निवज्जिज्जा, थंडिलं मुणिया सए । विओसिज अणाहारो, पुट्ठो तत्थऽहियासए ॥ १३ ॥ इन्दिएहिं गिलायन्तो, समियं आहरे मुणी । तहावि से अगरिहे, अचले जे समाहिए ||१४|| अभिक्कमे पडिक्कमे, संकुचए पसारए । कायसाहारणट्टाए, इत्थं वावि अचेयणो ॥१५॥ परिक्कमे परिकिलन्ते, अदुवा चिटठे अहायए । ठाणेण परिकिलन्ते, निसीइज्जा य अंतसो ॥१६॥
किंच- ग्रन्थैर्विविक्तैः ग्रन्थैः सबाह्याभ्यन्तरैः शरीररागादिभिः
-
-
* श्री आचाराङ्गसूत्रम् (अक्षरगमनिका)
-
Page #112
--------------------------------------------------------------------------
________________
विविक्तैस्त्यक्तैः सद्भिर्ग्रन्थैर्वा-अङ्गानङ्गप्रविष्टैरात्मानं भावयन् आयुःकालस्यमृत्युकालस्य पारगः पारगामी स्यात् एतन्मरणविधानकारी सिद्धिं त्रिविष्टपं वा प्राप्नुयादिति गतं भक्तपरिज्ञामरणं । साम्प्रतमिङ्गितमरणं श्लोकार्धादिनोच्यते - प्रगृहीततरकं प्रकर्षेण गृह्यते इति प्रगृहीततरकं चेदम्-इङ्गितमरण द्रविकस्य द्रव्यं संयमः स विद्यते यस्याऽसौ द्रविकस्तस्य संयमिनो विजानतः गीतार्थस्य जघन्यतो नवपूर्वविशारदस्य भवति ॥११॥
अयमपरो विधिरित्याह -
अयं स अपरो धर्मः, ज्ञातपुत्रेण - वर्धमानस्वामिना स्वाहितः सुष्ट्रपलब्धः । आत्मवर्जं प्रतिचारम् अङ्गव्यापारं विजह्यात् त्रिधा त्रिधा । स्वयमेव चोद्वर्तनपरिवर्तनादिकं विधत्ते ॥१२॥
सर्वथा प्राणिसंरक्षणं पौनःपुन्येन विधेयमिति दर्शयितुमाह -
हरितेषु न शयीत, स्थण्डिलं ज्ञात्वा शयीत । सबाह्याभ्यन्तरमुपधिं व्युत्सृज्याऽनाहारः सन् स्पृष्टः परीषहोपसर्गस्तत्र-संस्तारकेऽध्यासयेद् अधिसहेत ॥१३॥ इन्द्रियैग्ायन् शमितां साम्यं वाऽऽत्मनि आहरेद् व्यवस्थापयेन्नार्तध्यानोपगतो भूयादिति । सङ्कोचननिर्विण्णो हस्तादिकं प्रसारयन्नुपविशन् यथेङ्गितप्रदेशे वा सञ्चरन्नास्ते तथापि स अगीः अचलो यः समाहितः ॥१४।। भावाचलितश्चेङ्गितप्रदेशे चक्रमणादिकमपि कुर्यादिति एतद्दर्शयितुमाह अभिक्रामयेत् प्रतिक्रामयेत् सङ्कोचयेत् प्रसारयेत् । कायसाधारणार्थं, इत्थं च सक्रियोऽपि अचेतनो-निष्क्रिय एव यदिवा 'अत्रापि' इङ्गितमरणेऽचेतनवत् सर्वक्रियारहितो यथा पादपोगमने तथा सति सामर्थ्य तिष्ठेत् ॥१५॥ सामथ्यार्भावे चैतत् कुर्यात् परिक्रामेत् परिक्लान्तः सन, अथवा तिष्ठेद् यथायतः यथाप्रणिहितगात्रः, स्थानेन परिक्लान्तो निषीदेच्चाऽन्तशः ॥१६॥ किंच -
आसीणेऽणेलिसं मरणं, इन्दियाणि समीरए । कोलावासं समासज्ज वितहं पाउरेसए ॥१७॥ जओ वजं समुष्पजे, न तत्थ अवलम्बए, तउ उक्कसे अप्पाणं, फासे तत्थऽहियासए ॥१८॥ अयं चाययतरे सिया, जो एवमणुपालए सबगायनिरोहेऽवि, ठाणाओ नवि उन्भमे ॥१९॥ अयं से उत्तमे धम्मे, पुवट्ठाणस्त पग्गहे । अचिरं पडिलेहित्ता, विहरे चिट्ठ माहणे ॥२०॥
आसीनः आश्रितः -अनीदृशं मरणम् इन्द्रियाणि समीरयेत्
श्री आचारागसूत्रम् (अक्षरणमनिका) *
१०३
Page #113
--------------------------------------------------------------------------
________________
रागद्वेषाऽकरणतया प्रेरयेत् 1 कोलावासं
घुणकीटकाऽऽवासस्तं घुणक्षतमुद्देहिकानिचितं वा फलकं समासाद्य वितथं प्रादुरेषयेत् प्रकटमशुषिरं फलकमवष्टम्भनायान्वेषयेत् ॥१७॥ यतो वज्रं वज्रवत् गुरुत्वात् कर्म अवद्यं वा समुत्पद्येत, न तत्र अवलम्बे । तत उत्कर्षेद्-उत्क्रामयेत् आत्मानं, स्पर्शान तत्र इङ्गितमरणे अध्यासयेत् ॥ १८ ॥ गत इङ्गितमरणाधिकारः । साम्प्रतं पादपोपगमनमाश्रित्याह अयं पादपोपगमनविधिः आयततर आत्ततरो वाऽतिशयेनाऽऽत्तो गृहीत आत्ततरो यत्नेनाऽध्यवसित स्यात् । य एवमनुपालयेत् स सर्वगात्रनिरोधेऽपि उतप्यमानकायोपि मूर्च्छन्नपि मरणसमुद्घातगतो वा भक्ष्यमाणमांसशोणितोऽपि क्रोष्टुगृध्रपिपीलकादिभिः स्थानान्नाऽपि उद्भ्रमेत्-द्रव्यभावोभयतः स्थानान्तरं न यायात् ||१९|| किं च अयं स उत्तमो धर्मः अन्तःकरणनिष्पन्नत्वात् पूर्वस्थानात् प्रग्रहः-प्रगृहीततरं परिस्पन्दनरहितं चिलातीपुत्रवत् । अचिरं स्थण्डिलं प्रत्युपेक्ष्य विहरेत् तिष्ठेन्माहनः ||२०|
एतदेव प्रकान्तरेण दर्शयितुमाह -
अचित्तं तु समासज्ज, ठावए तत्थ अप्पगं । वोसिरे सव्वसो कार्य, न मे देहे परीसहा, ॥२१॥ जावज्जीवं परीसहा, उवसग्गा इति संखया संबुडे देह भेयाए, इय पन्नेऽहियास ||२२|| भेउरेसु न रज्जिज्जा, कामेसु बहुतरेसुवि इच्छालोभं न सेविज्जा, ध्रुववन्नं सपेहिया ॥ २३ ॥ सासएहिं निमन्तिज्जा, दिव्वमायं न सद्दहे । तं पडिबुज्झ माहणे, सव्वं नूमं विहूणिया ||२४|| सव्वद्वेहिं अमुच्छिए, आउकालस्स पारए । तितिक्खं परमं नच्चा, विमोहन्नयरं हियं ॥ २५॥ त्तिबेमि ॥
अचित्तं स्थण्डिलं फलकादि वा तु समासाद्य स्थापयेत् तत्राऽऽत्मानम् । व्युत्सृज्य सर्वशः कायं न मे देहे परीषहाः, देहस्य परित्यक्तत्वाद् यदिवा परीषहकृतपीडयोद्वेगाभावात् ॥२१॥
-
ते पुनः कियन्त कालं सोढव्या इत्याह
यावज्जीवं परीषहाः उपसर्गा इति संख्याय - ज्ञात्वा संवृत-उत्थितो देहभेदाय इति प्राज्ञः अधिसहेत ||२२||
एवंभूतं च साधुमुपलभ्य कश्चिद्राजादिर्भोगैर्निमन्त्रयेत्, तत् प्रतिविधानार्थमाह -
१०४
* श्री आचाराङ्गसूत्रम् (अक्षरगमनिका)
Page #114
--------------------------------------------------------------------------
________________
भिदुरेषु न रज्येत् कामेषु बहुतरेषु अपि पाठान्तरं वा कामेसु बहुलेसु अनल्पेष्वपीत्यर्थ इच्छालोभं इच्छारूपो लोभश्च चक्रवर्तित्वाद्यभिलाषादिको निदानस्तम् न सेवेत, ध्रुववर्ण-संयमं मोक्षं वा यद्वा शाश्वतीं यशःकीर्तिम् सम्प्रेक्ष्य ||२३|| किंच -
कश्चित् यावज्जीवमपरिक्षयात् शाश्वतैर्निमन्त्रयेत् तथा दिव्यां मायां न श्रद्दधीत । तां प्रतिबुध्यस्व । माहनः साधुः सर्वं नूमं कर्म मायां वा विधूनीयात् ||२४|| किंच -
सर्वार्थैः सर्वार्थेषु वाऽमूर्च्छितः, आयुः कालस्य पारगः तितिक्षां परमां-प्रधानां ज्ञात्वा विमोहान्यतरद्-विगतमोहानां भक्तपरिज्ञेङ्गितमरणपादपोपगमनानां त्रयाणामन्यतरत् हितमतो विधेयमिति ब्रवीमि ॥ २५॥
* * *
॥ उपधानश्रुताख्यमध्यनं ९ : उद्देशकः १ ॥
इहानन्तरोक्तोऽर्थः सर्वाऽपि भगवता वर्धमानस्वामिना स्वत एवाचीर्ण इत्येतदत्र प्रतिपाद्यते - अहासुयं वइस्सामि जहा से समणे भगवं उट्ठाए । संखाए तंसि हेमंते अहुणा पव्वइए इत्था || १ || णो चेविमेण वत्थेण पिहिस्सामि तंसि हेमंते । से पारए आवकहाए, एवं खु अणुधम्मियं तस्स ॥ २॥ चत्तारि साहिए मासे, बहवे पाणजाइया आगम्म । अभिरुज्झ कायं विहरिंसु, आरुसिया णं तत्थ हिंसिंसु ॥ ३ ॥ संवच्छरं साहियं मासं जं न रिक्कासि वत्थगं भगवं । अचेलए तओ चाइ तं वोसिज्ज वत्थमणगारे ॥४॥
यथाश्रुतं यथासूत्रं वा वदिष्यामि यथा स श्रमणो भगवान् उत्थाय । संख्याय-ज्ञात्वा तस्मिन् हेमन्ते अधुना प्रव्रजितो रीयतेस्म - विहरति स्म ॥१॥ अत्र च सामायिकारोपणसमनन्तरमेव सुरपतिना भगवदुपरि देवदूष्यं चिक्षिपे, भगवताऽपि गरीयस्त्वात्सचेलस्य धर्मस्याऽन्यैः तथागतैः शिष्यस्य प्रत्ययाच्चैव, वस्त्रं दध्रे न लज्जया । एतद्दर्शयितुमाह - नो चैवाऽनेन वस्त्रेण पिधास्यामि तस्मिन हेमन्ते । स पारगो यावत्कथम् एतत् - वस्त्रं खलु तस्य अनुधार्मिकम् - अपरैरपि तीर्थकृद्भिः समाचीर्णमित्यर्थः ॥२॥ चतुरः साधिकान् मासान्, बहवः प्राणिजातिका आगत्य । अभिरुह्य कायं विजहुः, आरुह्य आरुष्टा वा तत्र काये अहिंसन् । कियत्कालं तद्देवदूष्यं भगवति स्थितमित्येतद्दर्शयितुमाह - संवत्सरं साधिकं मासं यन्न त्यक्तवान वस्त्रं भगवान् । अचेलकोऽभूत तत उर्ध्वं त्यागी तद् व्युत्सुज्य वस्त्रम् अनगारः । ||४||
श्री आचाराङ्गसूत्रम् (अक्षरगमनिका) * १०५
Page #115
--------------------------------------------------------------------------
________________
किंच -
अदु पोरिसिं तिरियं भित्तिं, चक्खुमासज्ज अन्तसो झायइ । अह चक्खुभीया संहिया ते, हन्ता हन्ता बहवे कंदिसु ॥५॥ सयणेहिं वितिमिस्सेहि इथिओ तत्थ से परिन्नाय सागारियं न सेवेइ य, से सयं पवेसिया झाइ ॥६॥ जे के इमे अगारत्था मीसीभावं पहाय से झाइ । पुट्ठोवि नाभिभासिंसु गच्छइ नाइवत्तइ अंजू (पुट्ठो व सो अपुट्ठो व नो अणुन्नाइ पावगं भगवं) ॥७॥ णो सुकरमेयमेगेसिं नाभिभासे य अभिवायमाणे । हयपुचे तत्थ दंडेहिं लूसियपुब्बे अप्पपुण्णेहिं ॥८॥
अथ पौरुषीं-पुरुषप्रमाणां वीथीं तिर्यग्भित्ति-शकटोर्द्धिवच्चक्षुः समासाद्य-दत्त्वाऽन्तशो-मध्ये ध्यायति-ईयासमितो गच्छति । अथ चक्षुर्भीता - दर्शनभीताः संहितास्ते मिलिताः कुमारादयो हत्वा हत्वा पांशुमुष्ठ्यादिभिबहवश्चक्रन्दुः हलबोलं चक्रुः ॥५॥ शयनेषु - वसतिषु गृहस्थतीर्थिकै
य॑तिमिश्रेषु स्त्रियस्तत्राऽसौ परिज्ञाय मोक्षमार्गाऽर्गलाभूताः । सागारिकं मेथुनं न सेवेत । स स्वयं वैराग्यमार्ग प्रवेश्य ध्यायति ।।६।। ये केचन इमे अगारस्थाः-गृहस्थास्तैर्मिश्रीभावमुपगतोऽपि मिश्रीभावं प्रहाय स ध्यायति । पृष्टोऽपि नाभिभाषते स्म गच्छत्येव मोक्षपथं नातिवर्तते ऋजुः ॥७॥ न सुकरमेतदेकेषां यन्नाभिभाषते चाऽभिवादयतः । हतपूर्वश्च दण्डैषितपूर्वश्चाऽल्पपुण्यैः - पुण्यहीनैः अनायः ॥८॥ किंच
फरुसाइं दुत्तितिक्खाइ अइअच्च मुणी परक्कममाणे । आघाय नट्टगीयाई दण्डजुधाई मुट्ठिजुद्धाइं ॥९॥ गढिए मिहुकहासु समयंमि नायसुए विसोगे अदक्खु । एयाइ से उरालाई, गच्छइ नायपुत्ते असरणयाए ॥१०॥ अवि साहिए दुवे वासे सीओदं अभुच्चा निक्खन्ते । एगत्तगए पिहियच्चे से अहिन्नायदंसणे सन्ते ॥११॥
परुषाणि-वाग्दुष्टानि दुस्तितिक्षाणि अतिगत्य मुनि पराक्रममाणस्तितिक्षते । आख्यातगीतनृत्यानि दण्डयुद्धानि मुष्टियुद्धानि उद्दिश्य कौतुकादिरहितो भवति ॥९॥ गृद्धान् मिथःकथासु तस्मिन् समये ज्ञातसुतः वर्धमानस्वामी विशोकः - मध्यस्थोऽद्राक्षीत् । एतानि दुःखानि उदारणि - दुष्प्रधृष्याणि अस्मरन् गच्छति - पराक्रमते ज्ञातपुत्रः अस्मरणाय अशरणाय वा शरणं-गृहं नात्र शरणमस्तीत्यशरणः संयमस्तस्मै ॥१०॥ अपि साधिके द्वे वर्षे
१०६
* श्री आचाराङ्गसूत्रम् (अक्षरगमनिका)
Page #116
--------------------------------------------------------------------------
________________
शीतोदकमभुक्त्वा निष्क्रान्तः एकत्वगतः पिहितार्चः-पिहितक्रोधज्वालो गृप्ततनुर्वा स अभिज्ञातदर्शनः शान्तः ||११||
स एवम्भूतो भगवान् गृहवासेऽपि सावद्यारम्भत्यागी, किं पुनः प्रव्रज्यायामिति दर्शयितुमाह -
पुढविं च आउकायं च तेउकायं च वाउकायं च । पणगाई बीयहरियाई तसकायं च सव्वसो नच्चा ॥ १२॥ एयाइं सन्ति पडिलेहे, चित्तमन्ताइ से अभिन्नाय । परिवज्रिय विहरित्था इय संखाय से महावीरे ||१३|| अदु थावरा य तसत्ताए, तसा य थावरत्ताए । अदुवा सव्वजोणिया सत्ता कम्मुणा कप्पिया पुढो बाला || १४ || भगवं च एवमन्नेसिं सोवहिए हु लुप्पइ बाले । कम्मं च सव्वसो नच्चा तं पडियाइक्खे पावगं भगवं ॥ १५ ॥ दुविहं समिच्च मेहावी किरीयमक्खायऽणेलिसं नाणी । आयाणसोयमइवायसोयं जोगं च सव्वसो णचा ॥१६॥
पृथ्वीं चाऽप्कायं च तेजः कायं च वायुकायं च पनकानि बीज - हरितानि सकायं च सर्वशो ज्ञात्वा तदारम्भं परिवर्ज्य विजहार स भगवानिति सम्बन्धः ॥ १२ ॥ एतानि भूतानि सन्तीत्येवं प्रत्युपेक्ष्य तथा चित्तवन्ति स अभिज्ञाय परिवर्ज्य विजहार एतत् संख्याय स महावीरः ॥१३॥ अथ स्थावराश्च त्रसतया, त्रसाश्च स्थावरतया विपरिणमन्ते अथवा सर्वयोनिकाः सत्वाः कर्मणा कल्पिताः-व्यवस्थिताः पृथक्तया बाला:रागद्वेषाSS कलिता 119811 भगवाश्चैवममन्यत सोपधिकः द्रव्यभावोपधियुक्तः खलु लुप्यते बालः कर्मणेति, कर्म च सर्वशो ज्ञात्वा तत्-कर्म प्रत्याख्यातवान् तदुपादानं च पापकर्मानुष्ठानं भगवान् ॥१५॥ द्विविधं कर्म ईर्याप्रत्ययं साम्परायिकं च समेत्य मेधावी क्रियां संयमानुष्ठानरुपाम् आख्यातवान् अनीदृशीं ज्ञानी । आदीयते कर्मानेनेति आदानं दुष्प्रणिहितमिन्दियम् आदानं च तत् श्रोतश्चादानश्रोतस्तत्, अतिपातस्रोतः प्राणातिपातस्रोत उपलक्षणार्थत्वादस्य मृषावादादिकमपि ज्ञात्वा योगं मनोवाक्कायलक्षणं च सर्वशो ज्ञात्वा || १६|| किंच -
अइवत्तियं अणाउट्टि सयमन्नेसिं अकरणयाए । जस्सित्थिओ परिन्नाया सव्वकम्मावहा उसे अदक्खु ॥१७॥ अहाकडं न से सेवे सव्वसो कम्म (कम्मुणा) अदक्खू । जं किंचि पावगं भगवं तं अकुव्वं वियर्ड भुंजित्था ॥ १८ ॥ जो सेवइ य परवत्थं परपाए वि से न भुंजित्था । परिवज्जियाण उमाणं गच्छइ
श्री आचाराङ्गसूत्रम् (अक्षरगमनिका ) * १०७
Page #117
--------------------------------------------------------------------------
________________
संखडिं असरणयाए ॥१९॥ मायण्णे असणपाणस्स नाणुगिढे रसेसु अपडिन्ने । अच्छिपि नो पमजिजा नोवि य कंडूयए मुणी गायं ॥२०॥ अप्पं तिरियं पेहाए अप् िपिट्ठओ पेहाए । अप्पं बुइएऽपडिभाणी पंथपेही चरे जयमाणे ॥२१॥ सिसिरंसि अद्धपडिवन्ने तं वोसिज्ज वत्थमणगारे । पसारित्तु बाहुं परक्कमे नो अवलम्बियाण कंधमि ॥२२॥ एस विही अणुक्वन्तो माहणेण मइमया । बहुसो अपडिन्नेण भगवया एव रियंतिं ॥२३॥ त्तिबेमि ॥
पातकाद् अतिव्रत्तिकाम्-अतिक्रान्तां निर्दोषाम् अनाकुट्टीम् अहिंसामाश्रित्य स्वयमन्येषां चाऽकरणतया प्रवृतः । यस्य स्त्रियः परिज्ञाताः सर्वकर्मावहाः सर्वपापोपादानभूताः स एव अद्राक्षीत् ॥१७|| यथाकृतम् आधाकर्मादि नाऽसौ सेवते च सर्वशः कर्म अद्राक्षीत् । यत्किञ्चित् पापकं पापोपादानकारणं भगवान् तदकुर्वन विकटं-प्रासुकम् अभुङ्क्त ॥१८॥ नो सेवते च परवस्त्रं प्रधानं वस्त्रं परस्य वा वस्त्रम्, परपात्रेऽपि असौ न भुङ्क्ते स्म परिवर्य-अवगणय्य अपमानं गच्छति संखण्डिम् आहारपाकस्थानभूताम् अशरणतया-अदीनमनस्कतया ॥१९॥ मात्रज्ञः अशनपानस्य, न अनुगृद्धो रसेषु, ग्रहणं प्रति अप्रतिज्ञः । अक्षि अपि न प्रमाजयेत् नाऽपि च कण्डूयते मुनिर्गात्रम् ॥२०॥ किंच -
अल्पं तिर्यक् प्रेक्षते, अल्पं पृष्ठतः प्रेक्षते । अल्पं बूते अप्रतिभाषी, अल्पशब्दोऽभावे वर्तत इति पथिप्रेक्षी चरेद् यतमानः ॥२१॥ अध्वप्रतिपन्ने शिशिरे सति तद् व्युत्सृज्य वस्त्रं-देवदृष्यमनगारः । प्रसार्य बाहू पराक्रमते नाऽवलम्ब्य स्कन्धे तिष्ठति ॥२२॥ एष विधिरनुक्रान्तः-अनुचीर्णो माहनेन मतिमता । बहुशः' अप्रतिज्ञेन-अनिदानेन भगवता । एवं रीयन्ते अन्ये मुमुक्षव इति ब्रवीमि ।। २३ ॥
॥ अध्ययनं ९ : उद्देशकः २ ॥ अनन्तरं भगवतश्चर्याऽभिहता, इह तु शय्या प्रतिपायते -
चरियासणाई सिजाओ एगइयाओ जाओ बुइयाओ । आइक्ख ताई सयणासणाई जाइं सेवित्था से महावीरे ॥१॥ आवेसणसभापवासु पणियसालासु एगया वासो । अदुवा पलियठाणेसु पलालपुंजेसु एगया वासो ॥२॥ आगन्तारे आरामागारे तह य नगरे व एगया वासो । सुसाणे सुण्णगारे वा रुक्खमूले व
१०८
* श्री आचाराङ्गसूत्रम् (अक्षरगमनिका)
Page #118
--------------------------------------------------------------------------
________________
एगया वासो ॥३॥ एएहिं मुणी सयणेहिं समणे आसि पतेरसवासे । राइं दिवंपि जयमाणे अपमत्ते समाहिए झाइ ॥४॥ णिपि नो पगामाए, सेवइ भगवं उट्ठाए । जग्गावइ य अप्पाणं इसि साइ य अपडिन्ने ॥५॥ संबुज्झमाणे पुणरवि आसिसु भगवं उट्ठाए । निक्खम्म एगया राओ बहि चंकमिया मुहुत्तागं ॥६॥ सयणेहिं तत्थुवसग्गा भीमा आसी अणेगरूवा य । संसप्पगा य जे पाणा अदुवा जे पक्खिणो उवचरन्ति ॥७॥ अदु कुचरा उवचरन्ति गामरक्खा य सत्ति-हत्था य । अदु गामिया उवसग्गा इत्थी एगइया पुरिसा य ॥८॥ इहलोइयाई परलोइयाई भीमाइं अणेगरूवाइं । अवि सुभिदुन्भिगन्धाइं सहाई अणेगरूवाइं ॥९॥
चर्यायाम् आसनानि शय्याश्च एका या उक्ता आचक्ष्व तानि शय्याऽऽसनानि यानि - सेवितवानसौ महावीरः ॥१॥ प्रश्नप्रतिवचनमाह-आवेशने-सकुड्यशून्यगृहे सभाप्रपासु पण्यशालासु एकदा वासः । अथवा पलितस्थानेषु-अयस्कारादिकर्मस्थानेषु मञ्चोपरिव्यवस्थितपलालपुञानामध एकदा वासः ॥२॥ आगान्तारे प्रसङ्गायाता आगत्य वा यत्र तिष्ठन्ति तत्तथा तस्मिन् आरामगारे तथा च नगरे वा एकदा वासः । श्मशाने शून्यागारे कुड्यरहितगृहे वा वृक्षमूले वा एकदा वासः ॥३॥ एतेषु मुनि शयनेषु समनाः श्रमणो वाऽऽसीत् प्रत्रयोदशवर्षाणि प्रकर्षण त्रयोदशं वर्षं यावत् । रात्रिं च दिवाऽपि यतमानः अप्रमत्तः समाहितो ध्यायति ॥४॥ किंच-निद्रामपि न प्रकामतः सेवते भगवान् उत्थाय । जागरयति चाऽऽत्मानम् ईषत् स्वापी - अस्थिकग्रामे व्यन्तरोपसर्गान्ते अन्तर्मुहूर्त सकृन्निद्राप्रमाद आसीत् । अपि चाऽप्रतिज्ञः-स्वापाभ्युपगमपूर्वकं न शयितेति ॥५॥ संबुध्यमानः पुनरपि अप्रमत्त आसीद् भगवानुत्थाय । निष्क्रम्य एकदा रात्रौ बहिश्चक्रम्य मुहूर्तं निद्राप्रमादाऽपनयनार्थं ध्याने स्थितवान् इति ॥६॥ शयनेषु वसतिषु तत्र उपसर्गा भीमा आसन्ननेकरूपाश्च । संसर्पकाश्च-अहिनकुलादयो ये प्राणिनोऽथवा ये पक्षिणस्ते उपचरन्ति-उपसर्गयन्ति ।।७।। अथ कुचराः चौर पारदारिकादय उपचरन्ति ग्रामरक्षाश्च शक्तिहस्ताश्च .. शक्तिकुन्तादिहस्ताः । अथ ग्रामिकाः ग्रामधर्माश्रिता रूपदर्शनादिना उपसर्गाः स्यु । स्त्री काचित् पुरुषाश्चोपसर्गयेयुः ॥८॥ ... किंच -
. श्री आचारागसूत्रम् (अक्षरगमनिका) *
१०९
Page #119
--------------------------------------------------------------------------
________________
ऐहलौकिकान् मनुष्यकृता दण्डप्रहारादयस्तान् पारलौकिकान् दिव्यास्तैरश्चाश्च तान् यदिवा परत्र... पीडयन्ति कामभोगाः अनुकुलोपसर्गास्तानित्यर्थः, भीमाननेकरूपान् स्पर्शान् अपि सुरभिगन्धान् दुर्गन्धान् शब्दाननेकरूपानधिसहते ॥९॥
अहियास सया समिए फासाई विरूवरूवाई । अरई रई अभिभूय रीयइ माहणे अबहुवाई ॥१०॥ स जणेहिं तत्थ पुच्छिंसु एगचरावि एगया राओ । अव्वाहिए कसाइत्था पेहमाणे समाहिं अपनेि ॥११॥ अयमंतरसि को इत्थ ? अहमंसित्ति भिक्खु आट्टु । अयमुत्तमे से धम्मे तुसिणीए कसाइए झाइ ||१२|| जंसिप्पेगे पवेयन्ति सिसिरे मारुए पवायन्ते । तंसिप्पेगे अणगारा हिमवाए निवायमेसन्ति ॥ १३ ॥ संघाडीओ पवेसिस्सामो एहा य समादहमाणा । पिहिया च सक्खामो अइदुक्खे हिमगसंफासा ॥ १४ ॥ तंसि भगवं अपडिने अहे विगडे अहियासए । दविए निक्खम्म एगया राओ ठाइए भगवं समियाए || १५ || एस विही अणुक्कन्तो माहणेण मइमया । बहुसो अपडिण्णेण भगवया एवं रीयन्ति ॥ १६ ॥ त्तिबेमि ।
-
संयमेऽरति अध्यास्ते सदा समितः स्पर्शान् विरूपरूपान् । अरतिं रतिमभिभूय - उपभोगाभिष्वङ्गे च रतिं तिरस्कृत्य रीयते माहनः अबहुवादी कुतश्चिन्निमित्ते एकद्विव्याकरणं कृतवान् इति || १० || स जनैस्तत्र - शून्यगृहादौ पृष्टः, एकचराः उपपत्याद्या अपि पप्रच्छुः एकदा रात्रौ । अव्याहृते च भगवता ते कषायिता दण्डमुष्ट्यादिभिस्ताडयन्ति तत् प्रेक्षमाणः समाधिम् अप्रतिज्ञः वैरनिर्यातनाभावात् तितिक्षते 119911 अयमन्तः कोऽत्र व्यवस्थितः ? इति पुष्टः क्वचिज्जल्पत्यपि, तथाहि अहं भिक्षुरस्मीति, तूर्णमितो आहृत्य-जल्पित्वा तिष्ठति तदा ते अभिप्रेतार्थव्याघाताद् ब्रूयुः निर्गच्छ । ततोऽचियत्तावग्रहः अप्रीतिस्थानमिति कृत्वा निर्गच्छत्येव । यदिवा न निर्गच्छत्येव, किन्तु अयम् उत्तमो धर्मः आचार इति कृत्वा स तूष्णीकः कषायितेऽपि गृहस्थे ध्यायति ध्यानान्न प्रच्यवते ||१२||
-
-
-
-
-
-
-
यस्मिन्नप्येके प्रवेपन्ते प्रवेदयन्ति वा दुःखमनुभवन्ति शिशिरे मारुते प्रवाति सति तस्मिन्नप्येके अनगाराः - पार्श्वनाथतीर्थप्रव्रजिता गच्छ्वासिनो हिमवाते निवातमेषन्ति - वातायनादिरहिता वसतीः प्रार्थयन्ति ||१३|| किंच संघाटीः कल्पद्वयं त्र्यं वा प्रवेक्ष्यामः, एवं शीतार्दिता अनगारा अपि विदधति, तीर्थिकप्रव्रजितास्त्वेधाः समिधश्च-काष्ठानि समादहन्तः तथा सङ्घाट्या वा पिहिताः शक्ष्यामः अतिदुःखान् हिमस्पर्शान् सोढुमिति
११० * श्री आचाराङ्गसूत्रम् ( अक्षरगमनिका )
Page #120
--------------------------------------------------------------------------
________________
चिन्तयन्ति ॥१४॥ तस्मिन शिशिरे भगवान् अप्रतिज्ञः - न विद्यते निवातवसतिप्रार्थनादिका प्रतिज्ञा यस्य सः अधो वृक्षादेर्विकटे - कुड्यादिरहितेऽध्यास्ते । द्रविकः - संयमी निष्क्रम्य एकदा रात्रौ बहिर्मुहूर्तमात्रं स्थित्वा पुनः प्रविश्य भगवान् शमितया अधिसहते ।।१५।। एष विधिरनुक्रान्तः अनुचीर्णो माहनेन मतिमता बहुशः अप्रतिज्ञेन भगवता । एवं रीयन्ते अन्ये मुमुक्षव इति ब्रवीमि ।।१६।।
. ॥ अध्ययनं ९ : उद्देशकः ३ ॥ अनन्तरोद्देशके भगवतः शय्याः प्रतिपादिताः । इह तु तासु व्यवस्थितेन भगवता ये यथोपसर्गाः परीषहाश्च सोढास्ते तथा प्रतिपायन्ते ।
तणफासे सीयफासे य तेउफासे य दंसमसगे य । अहियासए सया समिए फासाई विरूवरूवाइं ॥१॥ अह दुचरलाढमचारी वजभूमि च सुब्भभूमि च । पंतं सिज्जं सेविंसु आसणगाणि चेव पंताणि ॥२॥ लाढेहिं तस्सुवसग्गा बहवे जाणवया लूसिंसु । अह लूहदेसिए भत्ते कुक्कुरा तत्थ हिंसिंसु निवइंसु ॥३॥ अप्पे जणे निवारेइ लूसणए सुणए दसमाणे छुच्छुकारिति आहंसु समणं कुक्कुरा दसंतुत्ति ॥४॥ एलिक्खए जणा (जणे) भुजो बहवे वजभूमि फरुसासी । लहिँ गहाय नालियं समणा तत्थ य विहरिंसु ॥५॥ एवंपि तत्थ विहरन्ता पुट्टपुब्बा अहेसि सुणिएहिं । संतुंचमाणा सुणएहिं दुचराणि तत्थ लाढेहिं ॥६॥ निहाय दण्डं पाणेहिं तं कायं वोसरिजमणगारे । अह गामकण्टए भगवन्ते अहिआसए अभिसमिचा ॥७॥
तृणस्पर्शान् शीतस्पर्खाश्च तेजःस्पर्शाश्च दंशमशकांश्च अध्यास्ते सदा समितः स्पर्शान् विरूपरूपान् ॥१॥ अथ दुश्चरलाढं जनपदविशेषो यत्र दुखेन चर्यते स च द्विरुपो-वज्रभूमिः शुभ्रभूमिश्च तं विहृतवान् । प्रान्ताम्-अनेकोपद्रवोपद्रुतशून्यगृहादिकां शय्यां सिषेवे आसनानि चैव प्रान्तानि प्रांशूत्करशर्करालोष्टाधुपचितानि ॥२।। लाढेषु तस्य भगवत उपसर्गा बहव आसन् । तथा जानपदा लुलूषुः - जिहिंसुः । अथशब्दोऽपिशब्दार्थं स चैवं द्रष्टव्यः भक्तमपि तत्र रूक्षकल्पम् अन्तप्रान्तमिति । तथा तत्र कुर्करा जिहिंसुः उपरि च निपेतुः ॥३॥ अल्पः सहस्रामेको यदिवा नास्त्येवासौ यस्तान् निवारयति जनो लुषकान् शुनो दशतः अपि तु तत्प्रेरणाय छुच्छुकारयन्ति । कथमिति चेत्, दण्डप्रहारादिभिर्भगवन्तमाहत्य 'श्रमणं कुर्करा दशन्तु' इति ।।४।। . ---
-
श्री आचाराङ्गसूत्रम् (अक्षरगमनिका) *
१११
Page #121
--------------------------------------------------------------------------
________________
एवंविधे जननदे षण्मासावधिं कालं स्थितवान् । किंच - ......
ईदृक्षो जनो यत्र तत्र भगवान् विहतवान भूयो, बहवो जना वज्रभूमौ पुरुषाशिनः रूक्षभोजिनोऽत एव प्रकृतिक्रोधनास्ततो यतिरूपमुफ्लभ्य कदर्थयन्ति अत एव यष्टिं गृहीत्वा नालिकां वा गृहीत्वाऽन्ये श्रमणाः - शाक्यादयस्तत्र च विजयुः ॥५॥ एवं यष्ट्यादिकयाऽपि विहरन्तः स्पृष्टपूर्वाः पीडिता आसन् श्वभिः शौनिकैर्वा तथा संलुच्यमानाः - भक्ष्यमाणाः श्वभिरासन्, दुश्चराणि ग्रामादीनि तत्र लाढेष्विति ॥६।। निधाय - त्यक्त्वा मनोवाक्कायलक्षणं दण्डं प्राणिषु तथा तं कायं व्युत्सृज्याऽनगारः । अथ ग्रामकण्टकान् नीचजनरूक्षाऽऽलापान् भगवानध्यास्ते तान् । निर्जरामभिसमेत्य ।।७।। कथमधिसहत इति दृष्टान्तद्वारेण दर्शयितुमाह
नागो संगामसीसे वा पारए तत्थ से महावीरे । एवंपि तत्थ लाढेहिं अलद्धपुब्बोवि एगया गामो ॥८॥ उवसंकमन्तमपडिन्नं गामंतियम्मि अप्पत्तं । पडिनिक्खमित्तु लूसिंसु एयाओ परं पलेहित्ति ॥९॥ हयपुब्बो तत्थ दण्डेण अदुवा मुट्ठिणा अदु कुन्तफलेण । अदु लेलुणा कवालेण हन्ता हन्ता बहवे कन्दिसु ॥१०॥ मंसाणिं (मंसूणि) छिन्नपुवाणि उटुंभिया एगया कायं । परीसहाई लुंचिंसु अदुवा पंसुणा उवकरिंसु ॥११॥ उच्चालइय निहणिंसु अदुवा आसणाउ खलइंसु । वोसट्टकायपणयाऽऽसी दुक्खसहे भगवं अपडिन्ने ॥१२॥ सूरो संगामसीसे वा संवुडे तत्थ से महावीरे । पडिसेवमाणे फरुसाइं अचले भगवं रीयित्था ॥१३॥ एस विही अणुक्कन्तो माहणेण मइमया । बहुसो अपडिण्णेण भगवया एवं रीयंति ॥१४॥ त्ति बेमि ॥
नागः सङ्गामशीर्षे इव पारगस्तत्राऽसौ महावीरः अधिसहते । एवमपि तत्र लाढेषु पारगोऽभूत । किं च - तत्र विरलत्वाद् ग्रामाणां क्वचिदेकदा वासायाऽलब्धपूर्वो ग्रामोऽपि भगवता ॥८॥ किंच - उपसङ्क्रामन्तमप्रतिज्ञ ग्रामान्तिकमप्राप्तं ते जना ग्रामात् प्रतिनिष्क्रम्य भगवन्तमलूषिषुः एतच्चोचुः - इतः परं-दूरतरं स्थानं पर्येहि - गच्छेति ॥९॥ हतपूर्वस्तत्र दण्डेन अथवा मुष्टिना अथवा कुन्तादिफलेन अथवा लेष्टुना कपालेन वा हत्वा हत्वा बहवः अनार्याश्चक्रन्दुः ।।१०।। भगवतो मांसानि छिन्नपूर्वाणि, अवष्टभ्य - आक्रम्य एकदा कायम्, तथा परीषहा भगवन्तमलुञ्चिषुः, अथवा पांशुनाऽवकीर्णवन्तः ॥११॥ किंच - भगवन्तमुच्चालयित्वा निहतवन्तः अथवा आसनाच्च स्खलितवन्तः । स तु पुनर्युत्सृष्टकायः परीषहसहनं प्रति प्रणतः आसीत् दुःखसहो भगवान् अप्रतिज्ञः नास्य दुःखचिकित्साप्रतिज्ञा इति ।।१२।।
११२
* श्री आचाराङ्गसूत्रम् (अक्षरगमनिका)
Page #122
--------------------------------------------------------------------------
________________
कथं दुःखसहो भगवान् इत्येतद् दृष्टान्तद्धारेण दर्शयितुमाह -
शूरः सङ्गामशिरसीव संवृतस्तत्र-लाढादिजनपदे स महावीरः । प्रतिसेवमानः परुषान् दुःखविशेषान् अचलो भगवान् रीयते स्म ॥१३॥ एष विधिरनुक्रान्तो यावत् रीयन्ते पूर्ववत् ।।१४।। इति ब्रवीमि ।
॥ अध्ययनं ९ : उद्देशकः ४ ॥ ___इहानन्तरोद्देशे भगवन्तः परीषहोपसर्गाधिसहनं प्रतिपादितं तदिहापि रोगातकपीडाचिकित्साव्युदासेन सम्यगधिसहते तदुत्पत्तौ च नितरां तपश्चरणायोयच्छतीत्येतत्प्रतिपाद्यते -
ओमोयरियं चाएइ अपुढेवि भगवं रोगेहिं । पुढे वा अपुढे वा नो से साइजइ तेइच्छं ॥१॥ संसोहणं च वमणं च गायब्भंगणं च सिणाणं च । संबाहणं च न से कप्पे दन्तपक्खालणं च परिन्नाए(य) ॥२॥ विरए गामधम्मेहिं रीयइ माहणे अबहुवाइ । सिसिमि एगया भगवं छायाए झाइ आसीय ॥३॥ आयावइ य गिम्हाणं अच्छइ उक्कुडुए अभितावे । अदु जाव इत्थ लूहेणं ओयणमंथुकुम्मासेणं ॥४॥ एयाणि तिन्नि पडिसेवे अट्टमासे अ जावयं भगवं । अपि इत्थ एगया भगवं अद्धमासं अदुवा मासंपि ॥५॥ अवि साहिए दुवे मासे छप्पि मासे अदुवा विहरित्था (अपिबित्ता) । राओवरायं अपडिन्ने अन्नगिलाणमेगया भुंजे ॥६॥ छटेण एगया भुंजे अदुवा अट्ठमण दसमेणं । दुवालसमेण एगया भुंजे पेहमाणे समाहि अपडिन्ने ॥७॥ णचा णं से महावीरे नोऽविय पावगं सयमकासी । अन्नेहिं वा ण कारित्था कीरंतंपि नाणुजाणित्था ॥८॥
अवमोदरतां शक्नोति कर्तुमस्पृष्टोऽपि भगवान् रोगैः । श्वभक्षणादिभिः स्पृष्टो वा कासश्वासादिभिरस्पृष्टो वा न स स्वादयति-अभिलषति चिकित्साम् ॥१॥ संशोधनं-विरेचनं च वमनं च गात्राऽभ्यङ्गनं च स्नानं च । संबाधनं च न तस्य कल्पते दन्तप्रक्षालनं च शरीरशुच्यात्मकमिति परिज्ञया ॥२॥ विरतो ग्रामधर्मेभ्यः - विषयेभ्यो रीयते माहनः अबहुवादी । शिशिरे एकदा भगवान् छायायां ध्यायी आसीत् च ॥३।। आतापयति च ग्रीष्मेषु तिष्ठति उत्कुटुकः अभितापम् । अथ यापयति स्म देहं रूक्षेण ओदनमन्थकुल्माषेण ॥४॥ एतदेव कालावधिविशेषणतो दर्शयितुमाह - एतानि - ओदनादीनि त्रीणि-ओदनमन्थुकुल्माषरूपाणि प्रतिसेवते । एवम् आत्मानं ऋतुबद्धसंज्ञकान् अष्ट मासान् अयापयत् भगवान् । पीतवान् पानम् एकदा भगवान् अर्धमासं अथवा मासमपि ।।५।। अपि साधिकौ द्वौ मासौ अथवा षडपि मासान्
श्री आचाराङ्गसूत्रम् (अक्षरगमनिका) *
११३
Page #123
--------------------------------------------------------------------------
________________
पानकमप्यपीत्वा विजहार । रात्रोपरागम् - अहर्निशम् अप्रतिज्ञः पानाऽभ्युपगमरहितो ग्लानाऽन्नं - पर्युषितम् एकदा भुक्तवान् ॥६।। षष्ठेनैकदा भुङ्क्ते, अथवा अष्टमेन दशमेन । द्वादशमेनैकदा भुङ्क्ते प्रेक्षमाणः समाधिम् अप्रतिज्ञः अनिदानः ॥७॥ ज्ञात्वा हेयोपादेयं स महावीरो नाऽपि च पापकं कर्म स्वयमकार्षीत् । अन्यैर्वा नाऽचीकरत्, क्रियमाणमपि नानुज्ञातवान् ।।८।। किंच
गामं पविसे नगरं वा घासमेसे कडे परवाए । सुविसुद्धमेसिया भगवं आयतजोगयाए सेवित्था ॥९॥ अदु वायसा दिगिछत्ता जे अन्ने रसेसिणो सत्ता । घासेसणाए चिट्ठति सययं निवइए य पेहाए ॥१०॥ अदुवा माहणं च समणं वा गामपिण्डोलगं च अतिहिं वा । सोवागमूसियारि वा कुकुरं वावि विट्ठियं पुरओ ॥११॥ वित्तिच्छेयं वजन्तो तेसिमप्पत्तियं परिहरन्तो । मन्दं परक्कमे भगवं अहिंसमाणो घासमेसित्था ॥१२॥ अवि सूइयं वा सुकं वा सीयं पिंडं पुण्णकुम्मासं । अदु बुक्कसं पुलागं वा लद्धे पिंडे अलद्धे दविए ॥१३॥ अवि झाइ से महावीरे आसणत्थे अकुक्कुए झाणं । उडुढं अहे तिरियं च पेहमाणे समाहिमपडिन्ने ॥१४॥ अकसाइ विगयगेही य सहरूवेसु अमुच्छिए झाइ । छउमत्थोऽवि परक्कममाणो न पमायं सइंपि कुवित्था ॥१५॥ सयमेव अभिसमागम्म आयतजोगमायसोहीए । अभिनिबुडे अमाइल्ले आवकहं भगवं समियासी ॥१६॥ एस विही अणुक्कतो, माहणेण मइमया । बहुसो अपडिन्नेण, भगवया एवं रीयन्ति ॥१७॥ तिबेमि ।
ग्रामं प्रविश्य नगरं वा ग्रासमेषयेत् कृतं-निष्पन्नं परार्थाय । सुविशुद्धमेषित्वा भगवान् आयतयोगतया-संयतयोगतया सेवितवान् ॥९॥
अथ श्लोकत्रयेण एषणाविधिमाह - अथ वायसा बुभुक्षार्ता येऽन्ये रसैषिणः पानार्थिनः पारापतादयः सत्त्वाः प्राणिनः । ग्रासैषणतया तिष्ठन्ति तान् सततं निपतितान् च प्रेक्ष्य ।।१०।। अथवा ब्राह्मणं च श्रमणं वा ग्रामपिण्डोलगं - द्रमकं चाऽतिथिं वा । श्वपाकं मार्जारी वा कुकुर वाऽपि विस्थितं पुरतः
॥११॥ वृत्तिच्छेदं वर्जयन् तेषामप्रीतिकं च परिहरन् । मन्दम् आहारार्थी पराक्रमते तथा भगवान् कुन्थुकादीन् अहिंसन् ग्रासमेषितवान् ।।१२।।
अपि स्वेदितम्-आर्टीकृतं वा शुष्कं वा शीतं पिण्डं पुराणकुल्माषम् अथवा बुक्कसं-गोधूममण्डकादि पुलाकं - यवनिष्पावादि वा लब्धे पिण्डे अलब्धे वा द्रविकः-रागद्वेषरहितः सन् आत्मानं दातारं वा न जुगुप्सते ।।१३।। अपि तु ध्यायति स महावीर आसनस्थः अकौत्कुचः मुखविकारादिरहितो
११४
* श्री आचारागसूत्रम् (अक्षरगमनिका)
Page #124
--------------------------------------------------------------------------
________________
ध्यानम् । उर्ध्वमधस्तिर्यग् लोकस्य व्यवस्थितान् जीवपरमाण्वादीन् भावान ध्येयरूपेण, कथंभूतः सन इत्याह - प्रेक्षमाणः समाधिमप्रतिज्ञः ।।१४।। अकषायी विगतगृद्धिश्च शब्दरूपेष्वमूर्छितो ध्यायति । छद्मस्थोऽपि पराक्रममाणो न प्रमादं सकृदपि अकार्षीत् ॥१५।। स्वयमेव तत्त्वम् अभिसमागम्य - तीर्थप्रवर्तनायोद्यतवान् आयतयोगं सुप्रणिहितयोगं आत्मशुद्ध्या । अभिनिवृत्तः शीतीभूतः अमायी यावत्कथं भगवान् समित आसीत् ।।१६।। एष विधिरनुक्रान्तो भगवता रीयते - पराक्रमतेऽपरोऽपि मुमुक्षुरनेनैव पथा ॥१७।। इति ब्रवीमि ।
इति ब्रह्मचर्यश्रुतस्कन्धः ॥ श्रीदेव-गुरु-वाग्देवी-प्रसादानिर्मिता मया । आचाराङ्गाद्यभागस्याऽक्षरगमनिकाऽमला ॥१॥
श्री आचारागसूत्रम् (अक्षरगमनिका) *
११५
Page #125
--------------------------------------------------------------------------
Page #126
--------------------------------------------------------------------------
________________ 9-00 હર પૂજ્ય આચાર્યદેવ શ્રી વિજય ભુવનભાનુસૂરીશ્વરજી મહારાજ આલેખિત સાહિત્ય 1. પરમતેજ ભાગ-૧ આવૃત્તિ-૩ રૂ. 70-00 ર. શ્રી ભગવતીસૂત્ર વિવેચન - ભાગ-૧ 22-00 3. યોગદષ્ટિ સમુચ્ચય - ભાગ-૨ 30-00 4. નવપદ પ્રકાશ - અરિહંતપદ 10-00 5. નવપદ પ્રકાશ - સિદ્ધપદ 20-00 6. નવપદ પ્રકાશ - આચાર્યપદ 8-00 7. સીતાજીના પગલે પગલે - ભાગ-૧ 7-50 8. સીતાજીના પગલે પગલે - ભાગ-૨ 7-50 9. મનના મિનારેથી મુક્તિના કિનારે - ભાગ-૧ 15-00 10. મનના મિનરેથી મુક્તિના કિનારે - ભાગ-૨ 15-00 11. જોજે ડુબી જાય ના 4-00 12. યશોધર ચરિત્ર - ભાગ-૧ 12-00 13. યશોધર ચરિત્ર - ભાગ-૨ 14. પ્રિતમ કેરો પંથ નિહાળો 10-00 15. તિમિર ગયું ને જ્યોતિ પ્રકાશી પ-૦૦ 16. તાપ હરે તન-મનનાં 10-00 17. ગણધરવાદ - આવૃત્તિ 3 10-00 18. કડવા ફળ છે ક્રોધના 19. માનવ જાતિને જૈન ધર્મની બક્ષીસ 8-00 20. भेदी आकाशवाणी (कुवलयमाला-१) 29-00 21. मानव तुं मानव बन 20-00 22. मानव जीवन में ध्यान का महत्व 20-00 23. સમરાદિત્ય ચરિત્ર - ભવ 1-2 30-00 પ્રાપ્તિસ્થાન દિવ્યદર્શાના ટ્રસ્ટ C/o. કુમારપાળ વિ. શાહ ભરતકુમાર ચતુરદાસ શાહ ૩૬કલિકુંડ સોસાયટી 868, કાળુશીની પોળ ધોળકા 387810 કાળુપુર, અમદાવાદ-૩૮૦૦૦૧ 000000 20-00 ope0% ર - S S JeevoVouT ર ર ર ર ર છે S LS S બાર !