________________
प्रत्येकं सातं च, पृथक्छन्दा इह मानवास्तेषां पृथग्दुःखं प्रवेदितम् । एवं सति स अनारम्भजीवी अविहिंसन् अनपवदन्-मृषावादमब्रुवन् स्पृष्टः परिषहोपसर्गः स्पर्शान्-शीतोष्णादीन् – सहिष्णुतया विप्रणोदयेत् न दुःखासिकयाऽऽत्मानं भावयेदिति ॥१४७||
यो हि सम्यक्करणतया परिषहान् सहते स किंगुणः स्यादित्याह -
एष समिया परियाए वियाहिए, जे असत्ता पावेहिं कम्मेहिं उदाहु ते आयंका फुसंति, इति उदाहु धीरे ते फासे पुट्ठो अहियासइ, से पुवं पेयं पच्छापेयं भेउरधम्म, विद्धंसणधम्ममधुवं, अणिइयं, असासयं चयावचइयं, विप्परिणामधम्म, पासह चेयं स्वसंधिं ॥१४॥
एष सम्यक् शमिता वा- शमिनो भावो वा पर्यायः - प्रवज्या व्याख्यातः, ये असक्ताः पापेषु कर्मसु कदाचित् तान् आतङ्काः स्पृशन्ति । इति- एतद्वक्ष्यमाणम् उदाहृतवान् धीरः - तीर्थकृत् तद्यथा - तान् स्पर्शान् स्पृष्टः सन् अध्यासयेत्-सहेत, किमाकलय्येत्याह - स एतद् भावयेत्पूर्वमप्येतत् पश्चादप्येतद् मयैव सोढव्यं, अपि च एतच्छरीरं भिदुरधर्म -विध्वंसनधर्ममध्रुवमनित्यमशाश्वतं चयापचयिकं विपरिणामधर्मं, इत्यत्र का मुर्छा ? अपि तु साफल्यं नय, एतदेवाह- पश्यतैनं रूपसन्धिंकुशलाऽनुष्ठानाऽवसरमिति ॥१४८।।
एतत्पश्यतश्च यत्स्यात्तदाह -
समुप्पेहमाणस्स इक्काययणरयस्स इह विप्पमुक्कस्स नत्थि मग्गे विरयस्स त्ति बेमि ॥१४९॥
समुत्प्रेक्षमाणस्य - पश्यतो भिदुरधर्मादिकं शरीरम् एकायतनरतस्य ज्ञानादित्रयरतस्य, इह विप्रमुक्तस्य नास्ति नरकादिमार्गो विरतस्येति ब्रवीमि ।।१४९।।
अनन्तरं विरत उक्तस्तद्विपरीतस्तु परिग्रहवानित्याह -
आवंती केयावंती लोगंसि परिग्गहावंती, से अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतं वा अचित्तमंतं वा एएसु चेव परिग्गहावंती, एतदेव एगेसिं महन्भयं भवइ, लोगवित्तं च णं उवेहाए, एए संगे अवियाणओ ॥१५०॥
यावन्तः केचन लोके परिग्रहवन्तः, तद्-परिग्रहवत्वम् अल्पं वा बहु वा
६०
* श्री आचारागसूत्रम् (अक्षरगमनिका)