________________
पश्यत एकान् रूपेषु गृद्धान् इन्द्रियैर्विषयाभिमुखं नरकादियातनास्थानेषु वा परिणाीयमानान् । अत्र-संसारे दुःखान् स्पर्शान् पुनः पुनः प्राप्नुयुः पाठान्तरं वा ‘एत्थ मोहे पुणो पुणो' संसारे अज्ञानरूपमोहे चारित्रमोहे वा पुनः पुनः भवेयुरिति । यावन्तः केचन लोके आरम्भजीविनः, एतेषु चैव पार्श्वस्थादिः आरम्भजीवी पूर्वोक्तदुःखभाग् भवति । अत्रापि संयमेऽपि बालो विषयपिपासया परिपच्यमानो रमते पापैः कर्मभिः सावद्यानुष्ठानं यद् अशरणमेव तत् शरणमिति मन्यमानः । इह एकेषाम् एकचर्या - एकाकिनो विहरणं भवति । स एकाकी बहुक्रोधः, बहुमानः, बहुमायी, बहुलोभी, बहुरजाः, बहुनटः, बहुशठः, बहुसङ्कल्पः , आश्रवसक्ती- हिंसाधनुषङ्गवान्, पलितावच्छन्नः-कर्मावच्छन्न उत्थितवादं - धर्मचरणायोद्यतः अहमित्यादि प्रवदन् मा माम् - अकार्यकारिणं केचन अद्राक्षुरिति प्रछन्नमकार्यं सेवते । एतच्चाकार्यम् अज्ञानप्रमाददोषेण विधत्ते । किञ्च - सततं मूढो धर्मं नाभिजानाति । तत एव आर्ता विषयकषायैः प्रजाः-जन्तवो मानव ! कर्मकोविदाः - कर्मबन्धे कोविदा ये अनुपरताः सावद्यानुष्ठानेभ्योः ये च अविद्यातः परिमोक्षमाहुस्ते धर्ममजानाना आवर्तमेव-संसारमनुपरिवर्तन्त इति ब्रवीमि ॥१४६।।
॥ अध्ययनं-५ : उद्देशकः-२ ॥ अनन्तरं विरतेरभावान्न मुनिस्त्युिक्तम् । इह तु तद्विपर्ययेण यथा मुनिभावः स्यात्तथोच्यते -
आवन्ती केयावन्ती लोए अणारंभजीविणो तेसु, एत्थोवरए तं झोसमाणे, अयं संधीति अदक्खू, जे इमस्स विग्गहस्स अयं खणे त्ति अन्नेसी एस मग्गे आरिएहिं पवेइए, उठ्ठिए नो पमायए, जाणित्तुं दुक्खं पत्तेयं सायं, पुढोछंदा इह माणवा पुढो दुक्खं पवेइयं, से अविहिंसमाणे अणवयमाणे, पुट्ठो फासे विपणुन्नए ॥१४७॥
__ यावन्तः केचन लोके अनारम्भजीविनस्ते तेषु- गृहिषु साधवः पङ्कजवत् निर्लेपा भवन्ति । अत्र- आर्हते धर्मे व्यवस्थित उपरतः पापारम्भात् तत्-कर्म क्षपयन् मुनिभावं भजते । अयं सन्धिः-अवसर इति अद्राक्षीद् भवानित्यतः क्षणमप्येकं न प्रमादयेत् । कश्च न प्रमादयेद् इत्याह - यः अस्यौदारिकस्य विग्रहस्य-शरीरस्य अयं प्रमादविधुननस्य क्षणः - अवसर इति अन्वेषी । एष मार्ग आर्यैः प्रवेदित इति धर्मचरणाय उत्थितो न प्रमादयेत् ज्ञात्वा दुःखं
श्री आवाराणसूत्रम् (अक्षरगमनिका) *
५९