________________
बालः प्रकुर्वमाणस्तेन दुःखेन मूढो विपर्यासमुपैति, - मोहेन गर्भमरणादिकम् एति । अत्र मोहे - मोहकार्ये गर्भमरणादिके पुनः पुनः पर्यटति ।।१४३।। __एवं संसारे दुखं प्रेक्ष्याऽत्र पुनः पुनर्न भवाम इति संशयतोऽपि मोक्षे तदुपाये संयमे वा प्रवृतिर्भवतीत्याह -
संसयं परिआणओ संसारे परिन्नाए भवइ, संसयं अपरियाणओ संसारे अपरिन्नाए भवइ ॥१४४॥
संशयम् अर्थानर्थगतं परिजानतः संसारः परिज्ञया अनर्थतया ज्ञातः परिहृतश्च भवति, संशयम् अपरिजानतः संसारः अपरिज्ञातः अपरिहतश्च भवति, अर्थानर्थसंशयस्य प्रवृत्तिनिवृत्त्यङ्गत्वादिति ॥१४४।।
___ कुतः पुनरेतन्निश्चीयते ? संसारपरिज्ञानकार्यविरत्युपलब्धेः । तत्र सर्वविरतिप्रतिष्ठां विरतिं निर्दिदिक्षुराह
जे छेए से सागारियं न सेवइ, कटु एवमविआणओ बिइआ मंदस्स बालया, लद्धा हुरत्था पडिलेहाए आगमित्ता आणविजा अणासेवणयाए त्ति बेमि ॥१४५॥ ___यश्छेकः स मैथुनं न सेवते, कृत्वा एवम्- अकार्यम् अविज्ञापयतो द्वितीया मन्दस्य बालता, नागार्जुनीयास्तु पठन्ति - ‘जे खलु विसए सेवई सेवित्ता वा नालोएइ परेण वा पुट्ठो निण्हवइ अहवा तं परं सएण वा दोसेण पाविट्ठयरेण वा दोसेण उवलिंपिज्जति, सुगमम् । यद्येवं ततः किं कुर्यात् ? आह-लब्धानप्यर्थान् चित्ताद्वहिः कुर्यात् । यदि वा तद्विपाकद्वारेण प्रत्युपेक्ष्य तत आगम्य-ज्ञात्वा 'मूलमेयमहम्मस्स महादोससमुस्सयं' इत्यादि परान् आज्ञापयेत् अनासेवनतयेति ब्रवीमि ॥१४५।। एतच वक्ष्यमाणं ब्रवीमीति तदाह -
पासह एगे रूवेसु गिद्धे परिणिजमाणे, इत्थ फासे पुणो पुणो, आवंती केयावंती लोयंसि आरंभजीवी, एएसु चेव आरंभजीवी, इत्थवि बाले परिपञ्चमाणे रमइ पावेहिं कम्मेहिं असरणे सरणंति मन्नमाणे, इहमेगेसिं एगचरिया भवइ, से बहुकोहे बहुमाणे बहुमाए बहुलोभे बहुरए बहुनडे बहुसढे बहुसंकप्पे आसवसत्ती पलिउच्छन्ने उठ्ठियवायं पवयमाणे, मा मे केइ अदक्खू अन्नायपमायदोसेणं, सययं मूढे धम्मं नाभिजाणइ, अट्टा पया माणव ! कम्मकोविया जे अणुवरया अविजाए पलिमुक्खमाहु आवट्टमेव अणुपरियटुंति त्ति बेमि ॥१४६॥
। ५८
*
श्री आचाराङ्गसूत्रम् (अक्षरगमनिका)