________________
अणु वा स्थूलं वा चित्तवद् वा अचित्तवद्वा, एतेषु-अल्पादिद्रव्येषु यदिवा परिग्रहवत्सु मुर्छा कुर्वन्तो व्रतिनोऽपि परिग्रहवन्तो भवन्ति । एतदेवपरिग्रहवत्वम् एकेषां महाभयं भवति । लोकवित्तं लोकवृत्तं वा-आहारादिचतुःसंज्ञात्मकं चोत्प्रेक्ष्य- ज्ञात्वा एतान् सङ्गान् अविजानतः - अकुर्वाणस्य महाभयं न भवतीति ।।१५०॥
किंच -
से सुपडिबद्धं सूवणीयंति नचा पुरिसा परमचक्खू विपरिक्कमा, एएसु चेव बंभचेरं त्ति बेमि, से सुयं च मे, अज्झत्थयं च मे, बंधपमुक्खो अज्झत्थेव, इत्थ विरए अणगारे दीहरायं तितिक्खए, पमत्ते बहिया पास, अप्पमत्तो परिवए, एवं मोणं सम्मं अणुवासिज्जासि त्ति बेमि ॥१५१॥ __तस्य-परिग्रहपरिहर्तुः सुप्रतिबद्धं सूपनीतं ज्ञानादि भवतीति ज्ञात्वा हे पुरुष ! परमचक्षुः - ज्ञानचक्षुर्मोक्षैकदृष्टिर्वा संयमे पराक्रमस्व । एतेषु - परिग्रहविरतेषु चैव ब्रह्मचर्यमिति ब्रवीमि । तत् श्रुतं च मया, तत् अध्यात्म - चेतसि व्यवस्थितं च मे, किं तत् ? बन्धप्रमोक्षः बन्ध सकाशात् प्रमोक्षः अध्यात्मन्येवेति अत्र - परिग्रहे विरतोऽनगारो दीर्घरात्रं - यावज्जीवम् तितिक्षते । प्रमत्तान् बहिः पश्य, दृष्टवा च अप्रमत्तः सन् परिव्रजेत् । एतन्मौनं - मुनिभावं सम्यग् अनुवासयेः - प्रतिपालयेरित्यर्थः । ब्रवीमीति पूर्ववत् ॥१५१॥
॥ अध्ययनं-५ : उद्देशकः-३ ॥ अनन्तरं मौनं सम्यगनुपालयेदित्युक्तं तचाऽपरिग्रहवत्वात् भवतीत्युच्यते -
आवंती केयावंती लोयंसि अपरिग्गहावंती, एएसु चेव अपरिग्गहावंती, सुचा वइ मेहावी पंडियाण निसामिया समियाए धम्मे आरिएहिं पवेइए जहित्थ मए संधी झोसिए, एवमन्नत्थ संधी दुजोसए भवइ, तम्हा बेमि नो निहणिज्ज वीपिं ॥१५२॥ ____ यावन्तः केचन लोके अपरिग्रहवन्तः ते यतयः । एतेषु-अल्पादि-द्रव्येषु यदिवा परिग्रहवत्स मर्छमकर्वन्तः चैव अपरिग्रहवन्तो भवन्ति । श्रुत्वा वाचं मेधावी तथा पण्डितानां तद्वचनं निशम्य त्यागादपरिग्रहो भवति । समतया शमितया वा धर्म आर्यैः प्रवेदितः । यथाऽत्र-मोक्षमार्गे मया सन्धिः
श्री आचारागसूत्रम् (अक्षरगमनिका) *
६१