________________
ते तत्र पर्यापद्यन्ते - मूळमापद्यन्ते, ये तत्र पर्यापद्यन्ते ते तत्र अपद्रावन्ति प्राणान् मुञ्चतीत्यर्थः । अत्र शस्त्रं समारभमाणस्य इत्येते आरम्भा अपरिज्ञाता भवन्ति, अत्र शस्त्रं असमारभमाणस्य इत्येते आरम्भाः परिज्ञाता भवन्ति, तत् परिज्ञाय मेधावी नैव स्वयं वायूशस्त्रं समारभेत, नैव अन्यैर्वायुशस्त्रं समारम्भयेत्, नैव अन्यान् वायुशस्त्रं समारभमाणान् समनुजानीयात् । यस्यैते वायुशस्त्रसमारम्भाः परिज्ञाता भवन्ति स खलु मुनिः परिज्ञातकर्मेति ब्रवीमि ॥६०॥ ___ सम्प्रति षड्जीवनिकायविषयवधकारिणामपायदिदयिषया तन्निवृत्तिकारिणां च सम्पूर्णमुनिभावप्रदर्शनाय सूत्राणि प्रकथ्यन्ते -
एत्थंपि जाणे उवादीयमाणा, जे आयारे ण रमंति, आरंभमाणा विणयं वयंति, छंदोवणीया अज्झोववण्णा, आरंभसत्ता पकरंति संगं ॥६१॥
एतस्मिन्नपि - वायुकाये, अपिशब्दात् पृथिव्यादिषु च जानीहि आरम्भमाणान् कर्मणा उपादीयमानान् ये ज्ञानाचारादिषु न रमन्ते । के ते ? आरम्भमाणा अपि विनयं - कर्माष्टकविनयात् संयमं वदन्ति शाक्यादयः । किं पुनः कारणं ? छन्दसा उन्मार्गम् उपनीता विषयेषु च अध्युपपन्नाः, अत एव आरम्भसक्ताः प्रकुर्वन्ति सङ्गम् अष्टविधं कर्म विषयसङ्गं वेति ॥६१।।
अथ यो निवृत्तस्तदारभ्भात् स किंविशिष्टो भवतीत्यत आह
से वसुमं समण्णागयपण्णाणेणं अप्पाणेणं अकरणिजं पावं कम्मं णो अण्णेसिं तं परिण्णाय मेहावी णेव सयं छज्जीवनिकायसत्थं समारंभेजा, णेवऽण्णेहिं छज्जीवनिकायसत्थं समारंभावेजा, णेवऽण्णे छज्जीवनिकायसत्थं समारंभंते समणुजाणेजा, जस्सेते छज्जीवीनिकायसत्थसमारंभा परिण्णाया भवंति से हु मुणी परिण्णायकम्मे त्ति बेमि ॥२॥
स भाववसुमान् - संयमवान् सर्वसमन्वागतप्रज्ञानेन आत्मना अकरणीयं पापं कर्म न अन्वेषयेत् - कुर्यात, तत् परिज्ञाय मेधावी नैव स्वयं षड्जीवनिकायशस्त्रं समारभेत, नैवाऽन्यैः षड्जीवनिकायशस्त्रं समारभयेत्, नैवाऽन्यान् षड्जीवनिकायशस्त्रं समारभमाणान् समनुजानीयात् । यस्यैते षड्जीवनिकायसमारम्भाः परिज्ञाता भवन्ति स खलु मुनिः परिज्ञातकर्मेति ब्रवीमि ।।६२।।
॥ इति सप्तमोद्देशकः ॥१-७॥ इति प्रथममध्ययनम् ॥१॥
२०
* श्री आचारागसूत्रम् (अक्षरगमनिका)