________________
चान्येनाहृतम् ॥३॥ तथाऽपर आहृत्य प्रतिज्ञाम् तद्यथा-नान्वीक्षिष्ये आहारादिकमपरनिमित्तम् अन्येनाहृतं च न स्वादयिष्यामि ४ एवं स यथाकीर्तितमेव धर्मं समभिजानन् शान्तो श्रान्तो वा विरतः सुसमाहृतलेश्यो ग्लानभावाऽऽपन्नोऽपि प्रतिज्ञालोपमकुर्वाणः शरीरपरित्यागाय भक्तप्रत्याख्यानं कुर्यात् । तत्राऽपि-भक्तपरिज्ञायामपि तस्य कालपर्यायः - गुण एव यथा कालपर्यायमरणे । स तत्र-ग्लानतयाऽनशनविधाने व्यन्तिकारकः विशेषेण अन्तक्रियाकारकः कर्मक्षयविधायीति । एतद् विमोहायतनं विगतमोहानामायतनम्-आश्रयो हितं सुखं क्षमं निश्रेयसम् आनुगामिकमिति ब्रवीमि तथा वाच्यं चात्र लाघविकम् आत्मानम् आगमयन् तपस्तस्य समन्वागतं भवतीति ॥२१४।।
॥ अध्ययनं-८ : उद्देशकः-६ ॥ अनन्तरं भिक्षोः साभिग्रहस्य ग्लानतया भक्तप्रत्याख्यानमुक्तम्, इहापि अभिग्रहविशेषाधिकारो वर्तते, तयथा -
जे भिक्खू एगेण वत्थेण परिखुसिए पायबिईएण, तस्स णं नो एवं भवइ-बिईयं वत्थं जाइस्सामि, से अहेसणिज्जं वत्थं जाइजा अहापरिग्गहियं वत्थं धारिता जाव गिम्हे पडिवन्ने अहापरिजुन्नं वत्थं परिढविज्जा (२) अदुवा एगसाडे अदुवा अचेले लाघवियं आगममाणे जाव सम्मत्तमेव समभिजाणिया ॥सू० २१५॥
यो भिक्षुरेकेण वस्त्रेण पर्युषितः पात्रद्वितीयेन तस्य नैवं भवति-द्वितीयं वस्त्रं याचिष्यामि स यथैषणीयं वस्त्र याचेत, यथापरिगृहीतं वस्त्रं धारयेत् तावद् ग्रीष्मः प्रतिपन्नः । यथापरिजीर्णवस्त्रं परिष्ठापयेत्, परिष्ठाप्य अवमचेलः अथवा एकशाटः अथवा अचेलो लाघविकं आगमयन् यावत् सम्यक्त्वमेव समत्वमेव वा समभिजानीयात् ॥२१५॥
तस्य च भिक्षोः परिकर्मितमतेलघुकर्मतया एकत्वाध्यवसायः स्यादिति दर्शयितुमाह -
जस्स णं भिक्खस्स एवं भवइ- एगे अहमंसि, न मे अस्थि कोइ, न याहमवि कस्सवि, एवं से एगागिणमेव अप्पाणं समभिजाणिज्जा, लापवियं आगममाणे तवे से अभिसमन्नागए भवइ जाव समभिजाणिया ॥सू० २१६॥
यस्य भिक्षोरेवे भवति-एकोऽहमस्मि, न मेऽस्ति कश्चित्, न चाहमपि कस्यचित्, एवमसौ एकाकिनमेवाऽऽत्मानं समभिजानीयात् । एवं संदधानो
श्री आचारागसूत्रम् (अक्षरगमनिका) *
९५