________________
यद्यद्गोगादिकमुपतापकारणमापद्यते तत्तदधिसहते यतो लाघविकम् आत्मानम् आगमयन् तपस्तस्य समन्वागतं भवति यावत् सम्यक्त्वमेव समत्वमेव वा समभिजानीयात् ॥२१६॥ ___इहैवाध्ययनेऽधस्ताद् उद्गमोत्पादनैषणा तथा ग्रहणैषणा प्रतिपादिता, अधुनाऽवशिष्टा ग्रातषणा प्रतिपायते -
से भिक्खू वा भिक्खुणी वा असणं वा (४) आहारेमाणे नो वामाओ हणुयाओ दाहिणं हणुयं संचारिजा आसाएमाणे, दाहिणाओ वामं हणुयं नो संचारिजा आसाएमाणे से अणासायमाणे लापवियं आगममाणे तवे से अभिसमन्नागए भवइ, जमेयं भगवया पवेइयं तमेवं अभिसमिचा सवओ सव्वत्ताए सम्मत्तमेव अ(सम)भिजाणिया ॥सू० २१७॥
स भिक्षुर्वा भिक्षुणी वा अशनं वा ४ आहारयन् न वामतो हनुतो दक्षिणं हनुं सञ्चारयेत् आस्वादयन्, दक्षिणतो हनुतो वामं हनुकं न सञ्चारयेद् आस्वादयन् । 'आढायमाणे' पाठान्तरमाश्रित्य आदरवानाहारे मूर्छितो गृद्धो न संञ्चारयेदिति । स कुतश्चिन्निमित्तात् सञ्चारयन्नपि अनास्वादयन् सञ्चारयेत्, यत आहारसम्बन्धिलाघवम् आगमयन् - आपादयन् तपस्तस्याऽभिसमन्वागतं भवति यदेतद् भगवता प्रवेदितं तदेतद् अभिसमेत्य सर्वतः सर्वात्मतया सम्यक्त्वमेव समत्वमेव वा समभिजानीयात् ॥२१७॥
आस्वादनिषेधेन चाऽन्तप्रान्ताऽऽहाराभ्युपगमोऽभिहितः तदाशितयाऽपचितमांसशोणितस्य जरदस्थिसंततेः क्रियावसीदत्कायचेष्टस्य शरीरपरित्यागबुद्धिः स्यादित्याह -
जस्स णं भिक्खुस्स एवं भवइ-से गिलामि च खलु अहं इममि समये इमं सरीरगं अणुपुब्वेण परिवहित्तए, से अणुपुब्वेणं आहारं संवट्टिजा, अणुपुब्वेणं आहारं संवट्टित्ता कसाए पयणुए किचा समाहियाचे फलगावयट्ठी उट्ठाय भिक्खू अभिनिव्वुडच्चे ॥सू० २१८॥ .. यस्य भिक्षोरेवं भवति-अथ ग्लायामि च खल्वहम्, अस्मिन् समये न शक्नोमि इदं शरीरकं आनुपूर्व्या यथेष्टकालाऽऽवश्यकादिक्रियाषु परिवोढुं व्यापारयितुं, स आनुपूर्व्या-चतुर्थषष्ठाऽऽम्लादिकेन आहारं संवर्तयेत्-संक्षिपेत् आनुपूर्व्या षष्ठाष्टमदशमद्वादशादिकेन आहारं संवर्त्य कषायान् प्रतनुकान् कृत्वा समाहितार्चः सम्यगाहिता - व्यवस्थिता अचा. शरीरं येन स नियमितकायव्यापार इत्यर्थः यद्वा अर्चा - लेश्या, सम्यगाहिता - जनिता लेश्या येन स अतिविशुद्धाध्यवसाय इत्यर्थः, यदिवा अर्चा -
९६
* श्री आचाराङ्गसूत्रम् (अक्षरगमनिका)