________________
महावीरा विपरिक्कमति पासह एगे अवसीयमाणे अणत्तपन्ने से बेमि, से जहावि (सेवि) कुंभे हरए विणिविट्ठचित्ते पच्छन्नपलासे उम्मग्गं से नो लहइ भंजगा इव संनिवेसं नो चयंति, एवं (अवि) एमे अणेगरूवेहिं कुलेहिं जाया रूवेहिं सत्ता कलुणं थणंति, नियाणओ ते न लभंति मुक्खं, अह पास तेहिं कुलेहिं आयत्ताए जाया ॥१७३॥ __ स्वर्गापवर्गयोः संसारस्य च कारणानि अवबुध्यमान इह मानेवषु धर्ममाख्याति स- तीर्थकृद्गणधरादिः नरो, यस्य इमा जातयः एकेन्द्रियादयः सर्वतः सुप्रत्युपेक्षिता भवन्ति । आख्याति स ज्ञानं - मत्यादि पञ्चधा यदिवा सकलसंशयापनयनेनाऽऽत्मनः अनीदृशम् । स कीर्तियति तेषां समुत्थितानां निक्षिप्तदण्डानां समाहितानां प्रज्ञानवतामिह मुक्तिमार्गम् । एवमप्येके महावीरा विपराक्रमन्ते-संयमसङ्ग्रामशिरसि । एतद्विपर्ययमाह पश्यत एकान् अवसीदतोऽनात्मप्रज्ञान् । कुत एतदित्यारेकायां सोऽहं ब्रवीमि दृष्टान्तद्वारेण तद्यथा च कूर्मो हृदे विनिविष्टचित्तः पलाशप्रच्छन्न - शैवालप्रच्छन उन्मार्ग - विवरम् उन्मज्यं वाऽसौ न लभते । दृष्टान्तान्तरमाह- भञ्जगाः- वृक्षा इव शीताधुपद्रवान् सहमाना अपि सन्निवेशं- स्थानं न त्यजन्ति । एवमप्येकेऽनेकरूपेषु कुलेषु जाता रूपेषु - शब्दादिविषयेषु सक्ताः करुणं स्तनन्ति - हा ! हा ! इत्यादिदीनमाक्रोशन्ति । निदानं - कर्म ततस्ते न लभन्ते मोक्षम् । अथ पश्य तेषु कुलेषु आत्मत्वाय आत्मीयकर्मानुभवाय जाता इति ।।१७३॥
इमां चाऽवस्थामनुभवन्तीत्याह -
गंडी अहवा कोढी, रायंसी अवमारियं । काणियं झिमियं चेव, कुणियं खुज्जियं तहा ॥१॥ उदरिं च पास मूयं च, सूणीयं च गिलासणिं । वेवई पीढसप्पिं च, सिलिवयं मुहमेहणिं ॥२॥ सोलस एए रोगा, अक्खाया अणुपुब्बसो। अह णं फुसंति आयंका, फासा य असमंजसा ॥३॥ मरणं तेसिं संपेहाए उववायं चवणं च नच्चा, परियागं च संपेहाए ॥
गण्डी अथवा कुष्ठी राजांसी - राजयक्ष्माग्रस्तः क्षयी, अपस्मारितां, काण्यं, जाड्यं-पक्षाघातः, कुणित्वं, कुब्जित्वं तथा ॥१॥
उदरिणं-जलोदरिणं च पश्य मूकं च शूनत्वं - शोफवत्त्वं च ग्रासणी-भस्मकं, वेपकत्वं, पीठसर्पित्वं काष्ठपाणिं च श्लीपदं मधुमेहनित्वम् ।।२।।
७२
* श्री आचारागसूत्रम् (अक्षरगमनिका)