________________
आचार्याधिकारं परिसमाप्य विनेयवक्तव्यतामाह -
वितिगिच्छसमावन्नेणं अप्पाणेणं नो लहइ समाहिं, सिया वेगे अणुगछंति असिता वेगे अनुगच्छंति अणुगच्छमाणेहिं अणणुगच्छमाणे कहं न निबिजे ? ॥ सू० १६२॥
विचिकित्सां- फलं प्रति संदेहरूपां साधुजुगुप्सालक्षणां वा समापन्नो विचिकित्सासमापन्न आत्मा नो - लभते समाधिम् । सिताः पुत्रकलत्रादिभिरवबद्धाः वा एकेऽनुगच्छन्ति- आचार्योक्तं सम्यक्त्वादिकं प्रतिपद्यन्ते, असिताः-गृहवासविमुक्ता वा एकेऽनुगच्छन्ति । अनुगच्छद्भिः सह संवसन् तैर्वा चोद्यमानः अननुगच्छन् कथं न निर्विघेत ? ॥१६२॥
न निर्वेदं तपःसंयमयोर्गच्छेत् निर्विण्णश्चेदमपि भावयेत्, यथा-नाहं भव्यः स्यामित्यादि, एवं च निर्विण्णस्य आचार्या समाधिमाहुः यथा-कथ्यमानेऽपि बोधो न भवति तत्ज्ञानावरणीयविलसितम्, तत्र च श्रद्धानरूपं सम्यक्त्वमालम्बनमित्याह
तमेव सचं नीसंकं जं जिणेहिं पवेइयं ॥सू० १६३॥ तदेव सत्यं निशङ्कं यज्जिनैः प्रवेदितम् ।।१६३॥ सा पुनर्विचिकित्सा प्रविव्रजिषोर्भवत्यागमापरिकर्मितमतेः, तत्राप्येतत्पूर्वोक्तं भावयितव्यमित्याह -
सडिस्स णं समणुन्नस्स संपव्वयमाणस्स समियंति मन्नमाणस्स एगया समिया होइ १, समियंति मन्नमाणस्स एगया असमिया होइ २, असमियंति मन्नमाणस्स एगया समिया होइ ३, असमियंति मन्नमाणस्स एगया असमिया होइ ४, समियंति मन्नमाणस्स समिया वा असमिया वा समिआ होइ उवेहाए ५, असमियंति मन्नमाणस्स समिया वा असमिया वा असमिया होइ उवेहाए ६, उवेहमाणो अणुवेहमाणं बूया-उवेहाहि समियाए, इच्चेवं तत्थ संधी ज्झोसिओ भवइ, से उट्ठियस्स ठियस्स गई समणुपासह, इत्थवि बालभावे अप्पाणं नो उवदंसिज्जा ॥ सू० १६४॥
श्रद्धावतः समनुज्ञस्य सम्प्रव्रजतः सम्यगिति मन्यमानस्य एकदा-उत्तरकाले शङ्कादिरहिततया सम्यगेव भवति ॥१॥ कस्यचित्तु सम्यगिति मन्यमानस्यैकदा मिथ्यात्वांशोदयादितः असम्यग् भवति ॥२॥ कस्यचित्तु असम्यगिति मन्यमानस्यैकदा गुर्वाधुपदेशतः सम्यग् भवति ।।३।। असम्यगिति मन्यमानस्यैकदा-उत्तरकालेऽपि आगमापरिभावितमतेरसम्यगेव
-- - श्री आचारागसूत्रम् (अक्षरगमनिका) *
६७