________________
भवति || ४ || साम्प्रतं भङ्गोपसंहारद्वारेण परमार्थमाविर्भावयन्नाह सम्यगिति निशङ्कं किञ्चिद्वस्तु मन्यमानस्य सम्यग् वाऽसम्यग् वा भावितं तथापि सम्यगेव भवति यतो यत्नेन तथारूपतयैवोत्प्रेक्षया भावितमिति ॥५॥ असम्यगिति किञ्चिद्वस्तु मन्यमानस्य सम्यग् वाऽसम्यग् वा भावितं तथापि असम्यगेव भवति उत्प्रेक्षयापि शङ्काकलुषितचित्तत्वात् ||६||
समियंति मन्नमाणस्स इत्याद्यन्यथा व्याख्याने - शमिनो भाव शमितेति मन्यमानस्योत्तरकालेऽपि शमिता एव भवति ॥ | १ || अन्यस्य तु शमितामपि मन्यमानस्य कषायोदयादशमितोपजायत इति 11211 अनया दिशोत्तरभङ्गेष्वपि सम्यगुपयुज्याऽऽयोज्यमिति ।
-
एवं पर्यालोचयन्नपरस्याप्युपदेशदानायालमिति, आह च उत्प्रेक्षमाणः पर्यालोचयन्ननुत्प्रेक्षमाणं ब्रुयाद्-यथा- उत्पेक्षस्व शमितया माध्यस्थ्येन । यदिवा उत्प्रेक्षमाणः संयमे उद्यच्छन् अनुत्प्रेक्षमाणं यथा उत्प्रेक्षस्व शमितया माध्यस्थ्येन । यदि वा उत्प्रेक्षमाणः संयमे उद्योगं कुरु शमितया । इत्येवं तत्र संयमे सन्धिः कर्मसन्ततिरुपो झोषितः क्षपितो भवति । तस्योत्थितस्य स्थितस्य गतिं समनुपश्यत । अत्रापि असंयमे बालभावे- इतरजनाचरिते आत्मानं सकलकल्याणास्पदम् नोपदर्शयेत्-बालानुष्ठानविधायी मा भूदित्यर्थः || १६४॥
-
शाक्यकापिलादिभावितो बालो बालभावमाचरति, वक्ति च नित्यत्वादमूर्तत्वाच्चात्मनः प्राणातिपात एव नास्ति, आकाशस्येव, इत्याद्यध्यवसायात्तद्धननादौ प्रवृत्तस्य तत्प्रतिषेधार्थमाह -
तुमंसि नाम सच्चेव जं हंतव्वंति मन्नसि तुमंसि नाम सच्चेव जं अज्जावेयव्वंति मन्नसि तुमंसि नाम सच्चेव जं परियावेयव्वंति मन्नसि, एवं जं परिधितव्वंति मन्नसि, जं उद्दवेयव्वंति मन्नसि, अंजू चेयपडिबुद्धजीवी, तम्हा न हंता नवि घायए, अणुसंवेयणमप्पाणेणं जं हंतव्वं नाभिपत्थए | सू० १६५ ॥
त्वमपि नाम स एव यं हन्तव्यमिति मन्यसे त्वमपि नाम स एव यं आज्ञापयितव्यमिति मन्यसे, त्वमपि नाम स एव यं परितापयितव्यमिति मन्यसे । एवं यं परिगृहीतव्यमिति मन्यसे यम् अपद्रावयितव्यमिति मन्यसे असौ त्वमेव । ऋजुः - साधुश्च एतत्-हन्तव्यघातकैकत्वं तस्य प्रतिबोधेन जीवितुं शीलमस्येति एतत्प्रतिबुद्धजीवी भवति । तस्मात् न हन्ता स्यात् नापि घातयेत् । अनुसंवेद्यमाऽऽत्मना इत्याकलय्य यत् किमपि हन्तव्यमिति नाभिप्रार्थयेत् ॥ १६५॥
-
६८ * श्री आचाराङ्गसूत्रम् ( अक्षरगमनिका)