SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ चाऽऽत्मनाऽनुसंवेदनमित्युक्तं ननु तच्च नैयायिकादीनामात्मनो गुणभूतेनैकार्थसमवायिना ज्ञानेन भवति तथा भवतामपि उतान्यथा ? उच्यते - जे आया से विन्नाया, जे विन्नाया से आया, जेण वियाणइ से आया, तं पडुच्च पडिसंखाए, एस आयावाइ समियाए परियाए वियाहि तिबेमि ॥ सू०१६६॥ भिन्नेन य आत्मा स विज्ञाता, यो विज्ञाता स आत्मा, येन विजानाति स आत्मा । तं ज्ञानपरिणामम् प्रतीत्य आत्माऽऽत्मना प्रतिसङ्ख्यायते - व्यपदिश्यते । एष ज्ञानाऽऽत्मनोरेकत्वस्याऽभ्युपगन्ता आत्मवादी स्यात् । तस्य च सम्यग्भावेन शमितया वा पर्यायः संयमानुष्ठानरूपो व्याख्यात इति ब्रवीमि ।।१६६|| ॥ अध्ययनं - ५ | उद्देशकः-६ ॥ अनन्तरं सम्यग्भावेन संयमानुष्ठानरूपः पर्यायो व्याख्यातः, इहापि स एव प्रतिपाद्यते अणाणाए एगे सोवट्ठाणा आणाए एगे निरुवट्ठाणा, एयं ते मा होउ, एयं कुसलस्स दंसणं, तद्दिट्ठीए तम्मुत्तीए तप्पुरक्कारे तस्सन्नी तन्निवेसणे ॥ सू० १६७॥ तीर्थकृत आचार्यस्य वा अनाज्ञया अनाज्ञायां वा प्रवर्तमाना एके दुर्गतिगामिनः सोपस्थानेन धर्मचरणाभासोद्यमेन वर्तन्ते इति सोपस्थानाः । आज्ञायाम् एके तु आलस्यादिना निरुपस्थानाः निरुद्यमाः । एतत् - कुमार्गानुष्ठानं सन्मार्गावसीदनं च ते मा भवतु । एतत् पूर्वोक्तं वक्ष्यमाणं च कुशलस्य तीर्थकृतो दर्शनम् । अतः सदा तद्दृष्ट्या तदा तीर्थकर आचार्य आगमो वा वाच्यः, तन्मुक्त्या, तत्पुरस्कारः तत्संज्ञी, तन्निवेशनः स्यात् || १६७ || स एवंभूतः किंगुणः स्यादित्याह - अभिभूय अदक्खु अणभिभूए पभू निरालंबणयाए जे महं अबहिमणे, पवाएण पवायं जाणिज्जा, सहसंमइयाए परवागरणेणं अन्नेसिं वा अंतिए सुच्चा ॥ सू० १६८॥ परिषहोपसर्गान् घातिचतुष्टयं वा अभिभूय अद्राक्षीत् तत्त्वम् उपसर्गैः परतीर्थिकैर्वा सोऽनभिभूतः प्रभुः समर्थो निरालम्बनतया 'जिनवरवचनमन्तरेण नास्ति शरणं क्वचिल्लोके' इति भावनया यो महान् अणिमाद्यैश्वर्यदर्शनादपि तीर्थकृद्वचनाद् अबहिर्मनाः सन् प्रवादेन-आचार्यपारम्पर्योपदेशेन सर्वज्ञवाक्येन वा प्रवादं सर्वज्ञोपदेशं श्री आचाराङ्गसूत्रम् (अक्षरगमनिका ) * ६२
SR No.022573
Book TitleAcharang Sutram Shrutskandh 01
Original Sutra AuthorN/A
AuthorKulchandrasuri
PublisherPorwad Jain Aradhana Bhavan Sangh
Publication Year1997
Total Pages126
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy