SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ विविक्तैस्त्यक्तैः सद्भिर्ग्रन्थैर्वा-अङ्गानङ्गप्रविष्टैरात्मानं भावयन् आयुःकालस्यमृत्युकालस्य पारगः पारगामी स्यात् एतन्मरणविधानकारी सिद्धिं त्रिविष्टपं वा प्राप्नुयादिति गतं भक्तपरिज्ञामरणं । साम्प्रतमिङ्गितमरणं श्लोकार्धादिनोच्यते - प्रगृहीततरकं प्रकर्षेण गृह्यते इति प्रगृहीततरकं चेदम्-इङ्गितमरण द्रविकस्य द्रव्यं संयमः स विद्यते यस्याऽसौ द्रविकस्तस्य संयमिनो विजानतः गीतार्थस्य जघन्यतो नवपूर्वविशारदस्य भवति ॥११॥ अयमपरो विधिरित्याह - अयं स अपरो धर्मः, ज्ञातपुत्रेण - वर्धमानस्वामिना स्वाहितः सुष्ट्रपलब्धः । आत्मवर्जं प्रतिचारम् अङ्गव्यापारं विजह्यात् त्रिधा त्रिधा । स्वयमेव चोद्वर्तनपरिवर्तनादिकं विधत्ते ॥१२॥ सर्वथा प्राणिसंरक्षणं पौनःपुन्येन विधेयमिति दर्शयितुमाह - हरितेषु न शयीत, स्थण्डिलं ज्ञात्वा शयीत । सबाह्याभ्यन्तरमुपधिं व्युत्सृज्याऽनाहारः सन् स्पृष्टः परीषहोपसर्गस्तत्र-संस्तारकेऽध्यासयेद् अधिसहेत ॥१३॥ इन्द्रियैग्ायन् शमितां साम्यं वाऽऽत्मनि आहरेद् व्यवस्थापयेन्नार्तध्यानोपगतो भूयादिति । सङ्कोचननिर्विण्णो हस्तादिकं प्रसारयन्नुपविशन् यथेङ्गितप्रदेशे वा सञ्चरन्नास्ते तथापि स अगीः अचलो यः समाहितः ॥१४।। भावाचलितश्चेङ्गितप्रदेशे चक्रमणादिकमपि कुर्यादिति एतद्दर्शयितुमाह अभिक्रामयेत् प्रतिक्रामयेत् सङ्कोचयेत् प्रसारयेत् । कायसाधारणार्थं, इत्थं च सक्रियोऽपि अचेतनो-निष्क्रिय एव यदिवा 'अत्रापि' इङ्गितमरणेऽचेतनवत् सर्वक्रियारहितो यथा पादपोगमने तथा सति सामर्थ्य तिष्ठेत् ॥१५॥ सामथ्यार्भावे चैतत् कुर्यात् परिक्रामेत् परिक्लान्तः सन, अथवा तिष्ठेद् यथायतः यथाप्रणिहितगात्रः, स्थानेन परिक्लान्तो निषीदेच्चाऽन्तशः ॥१६॥ किंच - आसीणेऽणेलिसं मरणं, इन्दियाणि समीरए । कोलावासं समासज्ज वितहं पाउरेसए ॥१७॥ जओ वजं समुष्पजे, न तत्थ अवलम्बए, तउ उक्कसे अप्पाणं, फासे तत्थऽहियासए ॥१८॥ अयं चाययतरे सिया, जो एवमणुपालए सबगायनिरोहेऽवि, ठाणाओ नवि उन्भमे ॥१९॥ अयं से उत्तमे धम्मे, पुवट्ठाणस्त पग्गहे । अचिरं पडिलेहित्ता, विहरे चिट्ठ माहणे ॥२०॥ आसीनः आश्रितः -अनीदृशं मरणम् इन्द्रियाणि समीरयेत् श्री आचारागसूत्रम् (अक्षरणमनिका) * १०३
SR No.022573
Book TitleAcharang Sutram Shrutskandh 01
Original Sutra AuthorN/A
AuthorKulchandrasuri
PublisherPorwad Jain Aradhana Bhavan Sangh
Publication Year1997
Total Pages126
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy