________________
निःसरन्तम् आत्मानमेवम् अभिनिगृह्य - अवरुध्यैव एवम् अवधारणे दुःखात् प्रमोक्ष्यसि । पुरुष ! सत्यमेव - संयमम् आगमं वा समभिजानीहि यतः सत्यस्य आज्ञया स उपस्थितः सन् मेधावी मारं संसारं तरति । किञ्च-ज्ञानादिना हितेन वा सहितो धर्ममादाय श्रेयः समनुपश्यतीति ।।११९।।
उक्तोऽप्रमत्तः तद्गुणाश्च तद्विपर्ययमाह -
दुहओ जीविअस्स परिवंदणमाणणपूयणाए जंसि एगे पमायंति ॥१२०॥
द्विधा - रागद्वेषप्रकारद्वयेनाऽऽत्मपरनिमित्तमैहिकामुष्मिकार्थं वा हतो द्विर्हतो दुर्हतो वा जीवितस्य परिवन्दन - मानन-पूजनाय कर्मोपचिनोति । किं यस्मिन् परिवन्दनादिनिमित्ते एके प्रमाद्यन्ति न ते आत्मने हिता इति ।। १२० ।।
च
एतद्विपरीतं त्वाह
-
-
सहिओ दुक्खमत्ताए पुट्ठो नो जंझाए, पासिमं दविए लोकालोकपवंचाओ मुच्चइत्ति बेमि ॥१२१॥
सहितो ज्ञानादिना हितेन वा दुःखमात्रया स्पृष्टः सन् नो झञ्झत् व्याकुलितमतिर्भवेत् । पश्य इमम्, द्रविकः साधुः लोकालोकप्रपञ्चाद् मुच्यते इति ब्रवीमि ॥ १२१ ॥ ॥ इति तृतीय उद्देशकः ।।
॥ अध्ययनं - ३ : उद्देशकः -४ ॥
-
-
लोकालोकप्रपञ्चाद् मोक्षोऽस्य कषायवमनाद् भवति तदधुना प्रतिपाद्यते -
सेवंता कोहं च माणं च मायं च लोभं च, एयं पासगस्स दंसणं उवरयसत्थस्स पलियंतकरस्स, आयाणं सगडब्भि ॥ १२२ ॥
श्री आचाराङ्गसूत्रम् (अक्षरगमनिका ) * ४७
स वमिता वमिष्यति वा क्रोधं च मानं च मायां च लोभं च एतत् कषायवमनं पश्यकस्य दर्शनम् उपरतशस्त्रस्य असंयमादुपरतस्य, कर्मणां संसारस्य वा पर्यंतकरस्य, तथाहि आदानम् आश्रवद्वारं निषेध्य स्वकृतभिद् भवति - स्वोपात्तं कर्म भिनत्तीति ॥ १२२॥
यथावस्थितैकपदार्थज्ञानं च न सर्वज्ञतामन्तरेणेति दर्शयितुमाह
जे एगं जाणइ से सव्वं जाणइ, जे सव्वं जाणइ से एगं जाणइ ॥ १२३॥