________________
य एकं जानाति स सर्वं जानाति, यः सर्वं जानाति स एक जानाति यतः अतीतानागतपर्यायिद्रव्यपरिज्ञानं समस्तवस्तुपरिज्ञानाविनाभावीति ॥१२३।।
तदेवं सर्वज्ञस्तीर्थकृत् सर्वज्ञश्च सम्भविनमेव सर्वसत्त्वोपकारिणमुपदेशं ददातीति दर्शयति -
सव्वओ पमत्तस्स भयं, सबओ अपभत्तस्स नत्थि भयं, जे एगं नामे से बहं नामे जे बहं नामे से एगं नामे, दुःखं लोगस्स जाणित्ता वंता लोगस्स संजोगं जंति धीरा महाजाणं, परेण परं जंति, नावकंखंति जीवियं ॥१२४॥
सर्वतः प्रमत्तस्य भयं, सर्वतोऽप्रमत्तस्य नास्ति भयम् । य एक क्रोधं नामयति - क्षपयति स बहून् - मानादीन् नामयति, यो बहून् नामयति स एकं नामयति । संयोगमूलं दुःखं लोकस्य ज्ञात्वा वान्त्वा च आत्मव्यतिरिक्तस्य पुत्रकलत्रादेः लोकस्य संयोगं यान्ति धीरा महायानं - ज्ञानादित्रयं मोक्षं वा, तद्यथा - परेण - संयमेन परं - स्वर्गादिकं प्राप्य पारंपर्येणाऽपवर्गमपि यान्ति । यदि वा चतुर्थगुणस्थानेन केवलिपर्यन्तमयोगं यद्वोत्तरोत्तरतेजोलेश्यामवाप्नुवन्ति । एते च नावकाङ्क्षन्ति जीवितम्- -- असंयमजीवितं दीर्घजीवितं वेति ॥१२४।।
यश्च क्षपणोयतः स किमेकक्षयादेवाऽपवर्तते उत नेत्याह -
एगं विगिंचमाणे पुढो विगिंचइ, पुढोवि एगं, सड्ढी आणाए मेहावी लोगं च आणाए अभिसमिचा अकुओभयं, अत्थि सत्थं परेण परं, नत्थि असत्थं परेण परं ॥१२५॥
एकम् अनन्तानुबन्धिनं क्रोधं क्षपयन् पृथग्-अन्यदपि दर्शनादिकं क्षपयति, पृथगपि क्षपयन् एकं क्षपयति । किंगुणः क्षपयतीत्याह - श्रद्धावान् आज्ञया यथोक्तानुष्ठानविधायी मेधावी नापरः । किं च - लोकं च आज्ञया अभिसमेत्य - ज्ञात्वा यथा अकुतोभयं - जीवलोकस्य न कुतश्चित् निमित्ताद् भयं भवति तथा विधेयम् । अस्ति शस्त्रं - असंयमः परेण परं यथाऽनन्तरसूत्रेण स्वयं वक्ष्यते । नास्ति अशस्त्रं- सप्तदशविधसंयमः परेण परमिति ||१२५॥
असंयमरूपं भावशस्त्रं कथं परं परं दुःखावहं भवतीत्याह - जे कोहदंसी से माणदंसी, जे माणदंसी से मायादंसी, जे मायादंसी से
४८
* श्री आचारागसूत्रम् (अक्षरगमनिका)