________________
द्वितीयमपि परित्यजतीति एकशाटक अथवा आत्यन्तिकशीताभावे तदपि परित्यजतीति अचेलो भवतीति ॥ २०९॥
किमर्थमसावेकैकं वस्त्रं परित्यजेदित्याह -
लाघवियं आगममाणे, तवे से अभिसमन्नागए भवइ ॥ सू० २१०॥
लाघवं विद्यते यस्याऽसौ लाघविकस्तं लाघविकम् आत्मानम् आगमयन्-आपादयन् तपस्तस्य अभिसमन्वागतम् आसेवितं भवतीति ।। २१०।। एतच्च भगवता प्रवेदितमिति दर्शयितुमाह -
जमेयं भगवया पवेइयं तमेव अभिसमिचा सव्वओ सव्वत्ताए सम्मत्तमेव समभिज्जाणिज्जा | सू० २११॥
यदेतत् भगवता प्रवेदितं तदेव अभिसमेत्य सर्वतः सर्वात्मतया सम्यक्त्वमेव समत्वं वा सचेलाऽचेलावस्थयोस्तुल्यतां वा समभिजानीयात् आसेवेतेति ॥ २११॥
यः पुनरल्पसत्त्वतया भगवदुपदिष्टं नैव सम्यग् जानीयात् स एतद् अध्यवसायी स्यादित्याह - जस्स णं भिक्खुस्स एवं भवइ पुट्ठो खलु अहमंसि नालमहमंसि सीयफासं अहियासित्तए, से वसुमं सव्वसमन्नागयपन्नाणेणं अप्पाणेणं केइ अकरणयाए आउट्टे तवस्सिणो हु तं सेयं जमेगे विहमाइए तत्थावि तस्स कालपरियाए, सेऽवि तत्थ विअंतिकारए इच्चेयं विमोहायतणं हियं सुहं खमं निस्सेसं आगामि त्ति बेमि || सू० २१२॥
-
यस्य भिक्षोरेव भवति स्पृष्टः खल्वहमस्मि परीषहोपसर्गेः, नालमहमस्मि द्रव्यभावभेदभिन्नमन्यतरं शीतस्पर्शम् अधिसोढुम् स वसुमान्- संयमी सर्वसमन्वागतप्रज्ञानेनाऽऽत्मना कश्चित् तच्चिकित्साम् अकरणतया आवृत्तः व्यवस्थितः, तपस्विनो हि तत् श्रेयो यदेको वेहानसादिकः आत्मोद्बन्धनाय विहायोगमनादिकं अभ्युपगच्छति, तत्रापि - वेहानसादिमरणेऽपि कालपर्यायः- गुण एव यथा कालपर्यायमरणे कालपर्यायेण भक्तपरिज्ञादिमरणे । सोऽपि तत्र वेहानसादिमरणे व्यन्तिकारकः - विशेषेण अन्तक्रियाकारकः, इत्येतद् वेहानसादिमरणं विमोहायतनं - विगतमोहानामाऽऽयतनम्-आश्रयः हितं सुखं निश्रेयसं आनुगामिकमिति ब्रवीमि ॥२१२॥
तस्य
✿✿
९२ * श्री आचाराङ्गसूत्रम् (अक्षरगमनिका)