________________
वा प्रज्वालयितुं वा कायमातापयितुं वा प्रतापयितुं वा । अन्येषां वा वचनान्ममैतत्कर्तुं न कल्पते, यदिवाऽग्निसमारम्भायाऽन्यो वा वक्तुं न कल्पते ममेति । स्यात् कदाचित् तस्यैवं वदतः साधोः परः गृहपतिः अग्निकायमुज्वालय्य प्रज्वालय्य कायमातापयेत् प्रतापयेद्वा तं गृहपतिं च भिक्षुः प्रत्युपेक्ष्याऽवगम्य आज्ञापयेत्- प्रतिबोधयेद् अनासेवनया यथैतद् ममायुक्तमासेवितुमिति ब्रवीमि ॥२०७।।
॥ अध्ययन-८ : उद्देशकः-४ ॥ एष एव शीतस्पर्शाधिकारः परित्राणं च वस्त्रं, तस्योपायाऽऽसेवनं प्रतिपाद्यते -
जे भिक्खू तिहिं वत्थेहिं परिखुसिए पायचउत्थेहिं तस्स णं नो एवं भवइ चउत्थं वत्थं जाइस्सामि, से अहेसणिजाई वत्थाई जाइजा अहापरिग्गहियाई वत्थाई धारिजा, नो धोइज्जा (नो रइजा) नो धोयरत्ताई वत्थाई धारिजा, अपलिओवमाणे (अपलिउंचमाणे) गामंतरेसु ओमचेलिए, एयं खु वत्थधारिस्स सामग्गियं ॥सू० २०८॥ ___ यः स्थविरकल्पिकः प्रतिमाप्रतिपन्नो जिनकल्पिको वा भिक्षु त्रिभिर्वस्त्रैः पर्युषितः पात्रचतुर्थेस्तस्य नैवं भवति चतुर्थं वस्त्रं याचिष्यामि । वस्त्रत्रयाऽभावे स यथैषणीयानि वस्त्राणि याचेत, यथा परिगृहीतानि च वस्त्राणि धारयेत्, नो धावेत्, न च धौतरक्तानि वस्त्राणि धारयेत् । अन्तप्रान्तत्वात् तानि अपरिगोपयन् ग्रामान्तरेषु अवमचेलिको व्रजेत् । एतत् खलु वस्त्रधारिणः सामग्र्यमिति ॥२०८॥
शीतापगमे तान्यपि वस्त्राणि त्याज्यान्येतदर्शयितुमाह -
अह पुण एवं जाणिज्जा-उवाइकंते खलु हेमंते गिम्हे पडिवन्ने अहापरिजुन्नाई क्याइं परिविजा, अदुवा संतरुत्तरे अदुवा ओमचेले अदुवा एगसाडे अदुवा अचेले ॥सू० २०९॥ ____ अथ पुनरेवं जानीयात्-अपक्रान्तः खलु हेमन्तो ग्रीष्मः प्रतिपन्नस्ततो यथापरिजीर्णानि वस्त्राणि परिष्ठापयेत् अथवा क्षेत्रकालपुरुषगुणाद् भवेत् शीतं ततः आत्मपरितुलनार्थं शीतपरीक्षार्थं च सान्तरोत्तरः सान्तरम् उत्तरं-प्रावरणं यस्य स तथा, क्वचित्पावृणोति क्वचित् पार्श्ववर्ति बिभर्तीत्यर्थः, शीताशङ्कया नाद्यापि परित्यजति, अथवा अवमचेलः . एककल्पपरित्यागात् द्विकल्पधारीत्यर्थः अथवा शनैः शनैः शीतापगमे
श्री आचारागसूत्रम् (अक्षरगमनिका) *
९१