SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ॥ अध्ययनं-८ : उद्देशकः-५ ॥ अनन्तरं वेहानसादिकमुपन्यस्तम्, इह तु ग्लानभावोपगतेन भिक्षुणा यत्कर्तव्यं तदाह - जे भिक्खू दोहिं वत्थेहिं परिखुसिए पायतईएहिं तस्स णं नो एवं भवइ तइयं वत्थं जाइस्सामि, से अणेसणिज्जाइं वत्थाई जाइजा जाव एवं खु तस्स भिक्खुस्स सामग्गिअं, अह पुण एवं जाणिज्जा-उवाइकंते खलु हेमन्ते गिम्हे पडिवण्णे, अहापरिजुन्नाइं वत्थाई परिदृविजा, अहापरिजुन्नाइं परिढवित्ता अदुवा संतरुत्तरे अदुवा ओमचेले अदुवा एगसाडे अदुवा अचेले लाघवियं आगममाणे तवे से अभिसमन्नागए भवइ जमेयं भगवया पवेइयं तमेव अभिसमिच्चा सबओ सव्वत्ताए सम्मत्तमेव समभिजाणिया, जस्स णं भिक्खुस्स एवं भवइ-पुट्ठो अबलो अहमंसि नालमहमंसि गिहतरसंकमणं भिक्खायरियं गमणाए, से एवं वयंतस्स परो अभिहडं असणं वा (४) आहटु दलइजा, से पुवामेव आलोइजा-आउसंतो ! नो खलु मे कप्पइ अभिहडं असणं वा (४) भुत्तए वा पायए वा अन्ने वा एयप्पगारे ॥सू० २१३॥ ____ यो नियमाजिनकल्पिकपरिहारविशुद्धिकयथालन्दिकप्रतिमाप्रतिपन्नानामन्यतमो भिक्षाभ्यां वस्त्राभ्यां पर्युषितः पात्रततीयाभ्यां तस्य नैवं भवति-यथा तृतीयं वस्त्रं याचिष्यामि । स यथैषणीयानि वस्त्राणि याचेत यावद एतत खलु तस्य भिक्षोः सामग्र्यम् । अथ पुनरेवं जानीयात्-अपक्रान्तः खलु हेमन्तो गीष्मः प्रतिपन्नः यथापरिजीर्णानि वस्त्राणि परिष्ठापयेत् यथापरिजीर्णानि वस्त्राणि परिष्ठाप्य, अथवा सान्तरोत्तरः, अथवा अवमचेलः, अथवा एकशाटकः, अथवा अचेलो भवति । लाघविकम् आगमयन तपस्तस्य अभिसमन्वागतं भवति । यदेतत् भगवता प्रवेदितं तदेव अभिसमेत्य सर्वतः सर्वात्मतया सम्यक्त्वमेव समत्वमेव वा समभिजानीयात् । यस्य भिक्षोरेवं भवति-वातादिरोगैः स्पृष्टोऽहं, अबलोऽहमस्मि, नालमहस्मि गृहान्तरसङ्कमणाय भिक्षाचर्यां गमनाय । अथ तस्मै वैवं वदते भिक्षवे परः गृहस्थादि अभिहृतम् अशनं वा ४ आहृत्य दद्यात् “केइ गाहावई उवसंकमित्तु बूया-आउसंतो ! समणा ! अहन्नं तव अट्ठाए असणं वा ४ अभिहडं दलामि से पुव्वामेव जाणेज्जा आउसंतो गाहावई ! जन्नं तमं मम अट्ठाए असणं वा ४ अभिहडं चेतेसि, णो य खलु मे कप्पइ एयप्पगारं असणं वा ४ भोत्तए वा पायए वा, अन्ने वा तहप्पगारे “इति पाठान्तरं श्री आचाराङ्गसूत्रम् (अक्षरगमनिका) * ९३
SR No.022573
Book TitleAcharang Sutram Shrutskandh 01
Original Sutra AuthorN/A
AuthorKulchandrasuri
PublisherPorwad Jain Aradhana Bhavan Sangh
Publication Year1997
Total Pages126
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy