________________
॥ अध्ययनं-६ : उद्देशकः-५ ॥ " अनन्तरं सदागमेन पराक्रमयेतेत्युक्तम् । इह तु गौरवत्रिका प्रतिबद्धस्य पराक्रममाणस्य परीषहोपसर्गाः स्युस्तान् अधिसहेत यदिवा धर्ममाचक्षीतेति प्रतिपादनायाह - .
से गिहेसु वा गिहतरेसु वा गामेसु वा गामंतरेसु वा नगरेसु वा नगरंतरेसु वा जणवयेसु वा जणवयंतरेसु वा गामनगरंतरे वा गामजणवयंतरे वा नगरजणवयंतरे वा संतेगइआ जणा लूसगा भवंति अदुवा फासा फुसंति ते फासे पुढे वीरो (धीरो) अहियासए, ओए समियदंसणे, दयं लोगस्स जाणित्ता पाइणं पडीणं दाहिणं उदीणं आइक्खे, विभए किट्टे वेयवि, से उठ्ठिएसु वा अणुट्ठिएसु वा सुस्सस्समाणेसु पवेयए संतिं विरइं उवसमं निव्वाणं सोयं अज्जवियं मद्दवियं लाघवियं अणइवत्तियं सव्वेसिं पाणाणं सबेसि भूयाणं सम्बेसिं सत्ताणं सबेसि जीवाणं अणुवीइ भिक्खू धम्ममाइक्खिजा ॥सू० १९१॥
तस्य साधोर्गृहेषु वा गृहान्तरेषु वा ग्रामेषु वा ग्रामान्तरेषु वा नगरेषु वा नगरान्तरेषु वा जनपदेषु वा जनपदान्तरेषु वा ग्रामनगरान्तरे वा ग्रामजनपदान्तरे वा नगरजनपदान्तरे वा विहरतः सन्ति लोके जना ये लुषका उपसर्गविधायकाः भवन्ति, अथवा स्पर्शाः दुःखविशेषाः स्पृशन्ति । तान स्पर्शान् स्पृष्टो वीरो धीरो वाऽधिसहेत । ओजः - एको रागादिरहितः समितदर्शनः - सम्यग्दृष्टि समदृष्टिर्वा दयां लोकस्य ज्ञात्वा प्राचीनं प्रतीचीनं दक्षिणं उदीचीनं जीवानां गत्यादिरूपां भावदिशं यदिवा सर्वत्र दिक्षु विदिक्षु दयां कुर्वन धर्ममाचक्षीत । धर्ममाचक्षाणो द्रव्यक्षेत्रकालभावभेदं - धर्म विभजेत् यदिवा कोऽयं पुरुषः कं वा नंत इत्यादिकं विभजेत् तथा व्रतानुष्ठानफलं स्वर्गापवर्ग कीर्तयेद् वेदवित्-आगमविद् । नागार्जुनीयास्तु पठन्ति - “जे खलु समणे बहुस्सुए बज्झागमे आहरणहेउकुसले धम्मकहालद्धिसंपन्ने खेत्तं कालं पुरिसं समासज्ज केऽयं पुरिसे कं वा दरिसणमभिसंपन्ने ? एवं गुणजाइए पभू धम्मस्स आघवित्तए" इति कण्ठ्यम् । स - स्वपरसमयज्ञः उत्थितेषु वा- यतिषु, अनुत्थितेषु वा श्रावकेषु शुश्रुषमाणेषु प्रवेदयेत् शान्तिम्- अहिंसां विरतिम् उपशमं निर्वाणं शौचम् आर्जवं मार्दवं लाघवम् अनतिपत्य-अनतिक्रम्य आगमाऽभिहितम् । केषां कथयति ? सर्वेषां प्राणिनां सर्वेषां भूतानां सर्वेषां सत्त्वानां सर्वेषां जीवानामनुविचिन्त्य-स्वपरोपकाराय भिक्षुर्धर्ममाचक्षीत ॥ १९१ ॥
यथा च धर्म कथयेत्तथाऽऽह -
८२
* श्री आचारागसूत्रम् (अक्षरगमनिका)