________________
अणुवीइ भिक्खू धम्ममाइक्खमाणे नो अत्ताणं आसाइजा नो परं आसाइजा नो अन्नाइं पाणाई भूयाइं जीवाइं सत्ताइं आसाइजा से अणासायए अणासायमाणे वज्झमाणाणं पाणाणं भूयाणं जीवाणं सत्ताणं जहा से दीवे असंदीणे एवं से भवइ सरणं महामुणी, एवं से उट्ठिए ठियप्पा अणिहे अचले चले अबहिल्लेसे परिब्बए संक्खाय पेसलं धम्मं दिट्ठिमं परिनिबुडे, तम्हां संगति पासह गंथेहिं गढिया नरा विसन्ना कामकंता तम्हा लहाओ नो परिवित्तसिज्जा, जस्सिमे आरंभा सबओ सबप्पयाए सुपरिन्नाया भवंति जेसिमे लूसिणो नो परिवित्तसंति, से वंता कोहं च माणं य मायं च लोभं च एस तुट्टे वियाहिए त्ति बेमि ॥सू० १९२॥
अनुविचिन्त्य भिक्षुर्धर्ममाचक्षाणो नाऽऽत्मानं आशातयेत् न परं शुश्रुषुमाशातयेद्, नान्यान् प्राणिनो भूतान् जीवान् सत्त्वान् आशातयेत् । स स्वतोऽनाशातकः परैरनाशातयन् वध्यमानानां प्राणिनां भूतानां जीवानां सत्त्वानां पीडा न स्यात् तथा धर्मं कथयेत् । यथाऽसौ द्वीपोऽसन्दीनो भवति एवं स भवति शरणं महामुनिः । एवं स उत्थितः स्थितात्मा, अस्निहोऽचलः परीषहोपसर्गः, चलः अनियतविहारित्वात्, अबहिर्लेश्यः परिव्रजेत् । संख्याय - ज्ञात्वा पेशलं धर्मं दृष्टिमान् परिनिर्वृत्तस्तस्मात्, यस्मात् विपरीतदर्शनो मिथ्यादृष्टि: सङ्गवान्न निर्वाति तस्मादिति सम्बन्धः । यदिवा दृष्टिमान् परिनिर्वृत्तस्तस्मात् सङ्गात्, संग एवानिर्वाणकारणमिति ज्ञात्वा । सङ्गं सङ्गविपाकं वेति पश्यत, तथाहि - ग्रन्थैर्ग्रथिता नरा विषण्णाः कामाक्रान्ता न निर्वान्ति । तस्मात् रूक्षात्- निसङ्गात्मकात् संयमात् न परिवित्रसेत् यस्य इमे आरम्भाः सर्वतः सर्वात्मना सुपरिज्ञाता भवन्ति येषु आरम्भेषु इमै लूषिणो-हिंसका न परिवित्रसन्ति । स- महामुनिर्वान्त्वा क्रोधं च मानं च मायां च लोभं च मोहनीयं त्रोटयतीति एष तुट्टो-संसार-संसृतेरपसृतो व्याख्यात इति ब्रवीमि ॥१९२।।
यदि वैतद्वक्ष्यमाणमित्याह -
कायस्स वियाघाए एस संगामसीसे वियाहिए से हु पारंगमे मुणी, अविहम्ममाणे फलगावयट्ठी कालोवणिए कंखिज्ज कालं जाव सरीरभेउ त्ति बेमि ॥सू० १९३॥
कायस्य व्याघातः शरीरविनाश एष संग्रामशीर्षमिव व्याख्यातः ।
श्री आचारागसूत्रम् (अक्षरगमनिका) *
८३