SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ब्रवीसि त्वं, तद्यथा-घोरो धर्म उदीरितः - प्रतिपादित इत्येवमध्यवसायी भवांस्तमनुष्ठानत उपेक्षते । अनाज्ञया प्रवृत्त एष बालो विषण्णः कामभोगेषु, वितर्दः - हिंसकः संयमे वा प्रतिकूलो व्याख्यात इति ब्रवीमि-त्वं मेधावी धर्म जानीया इति ॥१८९॥ एतच्च वक्ष्यमाणं ब्रवीमीत्यत आह - किमणेण भो ! जणेण करिस्सामित्ति मन्नमाणे एवं एगे वइत्ता मायरं पियरं हिचा नायओ य परिग्गहं वीरायमाणा समुट्ठाए अविहिंसा सुब्बया दंता पस्स दीणे उप्पइए पडिवयमाणे वसट्टा कायरा जणा लूसगा भवंति, अहमेगेसिं सिलोए पावए भवइ, सें समणो भवित्ता विभंते २ पासहेगे समन्नागएहिं सह असमन्नागए नममाणेहिं अनममाणे विरएहिं अविरए दविएहिं. अदविए अभिसमिचा पंडिए मेहावी निट्ठियटे वीरे आगमेणं सया परक्कमिजासि त्ति बेमि ॥सू० १९०॥ किमनेन भो ! जनेन-मातृपितृपुत्रलत्रादिना करिष्यामि यदिवा समस्तं वाच्यं तथाहि - किमनेन भोजनेन करिष्यामीति मन्यमानः केनचिद् किमनया प्रव्रज्यया ? भुक्ष्व भोजनादिकमित्यभिहितः सन् ब्रवीति-भुक्तं मयानेकशस्तथापि तृप्ति भूत्, स्वजनश्च न रोगाद्यपनयनायाऽलम् । एवमुदित्वाऽपि एके हित्वा-त्यक्त्वा मातरं पितरं ज्ञातिकान् परिग्रहं च, वीरायमाणाः वीरमिवात्मानमाचरन्तः समुत्थाय अविहिंसाः सुव्रता दान्तास्तान् प्रश्य । नागार्जुनीयास्तु पठन्ति समणा भविस्सामो अणगारा अकिंचणा अपुत्ता अपसूया अविहिंसगा सुव्वया दंता परदत्तभोइणो पावं कम्मं न करेस्सामो समुट्ठाए सुगमत्वान्न संस्कृतेन लिख्यते । एवं समुत्थाय पूर्वम्, प्रश्चात् तान् पश्य दीनान् पूर्वमुत्पतितान् पश्चात् प्रतिपततः, यतो वशार्ताः कातरा जना लूषकाः - व्रतविध्वंसका भवन्ति । अथ एकेषां श्लोकः पापकः अयशःकीर्तिर्भवति, यथा-स श्रमणो भूत्वा विभ्रान्तो विभ्रान्तः । पश्य अथ एकान् समन्वागतैः उद्यतविहारिभिः सह असमन्वागतान्, नममानैः संयमानुष्ठानेन विनयवद्भिः सह अनममानान् विरतैः सह अविरतान्, द्रव्यैः - भव्यैः सह वसतोऽपि अद्रव्यान् । अभिसमेत्य ज्ञात्वैवम्भूतान् त्वं पण्डितो मेधावी निष्ठितार्थो-विषयसुखनिष्पिपासो वीर आगमेन सदा परिक्रामयेरिति ब्रवीमि ॥ १९० ॥ . . -.* 5. N ET श्री आचारागसूत्रम् (अक्षरगमनिका) * ८१
SR No.022573
Book TitleAcharang Sutram Shrutskandh 01
Original Sutra AuthorN/A
AuthorKulchandrasuri
PublisherPorwad Jain Aradhana Bhavan Sangh
Publication Year1997
Total Pages126
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy