SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ अपरे तु पुनर्वीर्यान्तरायोदयात् स्वतोऽबसीदन्तोऽप्यपरसाधुप्रशंसासमन्विता यथावस्थिताचारगोचरमावेदयेयुरित्येतद्दर्शयितुमाह - - नियट्टमाणा वेगे आयरगोयरमाइक्खंति, नाणभट्ठा दंसणलूसिणो ।सू० १८७॥ संयमाद् लिङ्गाद्वा निवर्तमाना अनिवर्तमाना वा एके आचारगोचरमाचक्षते, न पुनर्यथा ज्ञानभ्रष्टा दर्शनलूषिणः सम्यग्दर्शनविध्वंसिनः स्वतो विनष्टा अपरानपि शङ्कोत्पादनेन सन्मार्गाच्यावयन्तीति ।।१८७।। अपरे पुनर्बाह्यक्रियोपेता अप्यात्मानं नाशयन्तीत्याह - नममाणा वेगे जीवियं विप्परिणामंति पुट्ठा वेगे नियटृति जीवियस्सेव कारणा, निक्खंतंपि तेसिं दुन्निक्खंतं भवइ, बालवयणिज्जा हु ते नरा, पुणो पुणो जाइं पकम्पिति अहे संभवंता विद्दायमाणा अहमंसीति विउक्कसे उदासीणे फरुसं वयंति, पलियं पकथे अदुवा पकथे अतहेहि, तं वा मेहावी जाणिज्जा धम्मं ॥सू० १८८॥ ____नमन्तोऽपि द्रव्यतो श्रुतज्ञानार्थम् एकं संयमजीवितं विपरिणामयन्ति अपनयन्ति । परीषहैः स्पृष्टा वा एके निवर्तन्ते संयमाल्लिङ्गाद्वा असंयमजीवितस्यैव कारणात् । निष्क्रान्तमपि तेषां दुनिष्क्रान्तं भवति यतो बालवचनीयाः प्राकृतपुरुषाणामपि गाः खलु ते नरा इति । किञ्च पुनः पुनर्जाति प्रकल्पयन्ति । अधः अधः संयमस्थानेषु संभवन्तः - वर्तमाना अपि विद्वस्यमानाः विद्वांसो वयमिति मन्यमाना अहमस्मीति व्यत्कर्षेयः । उदासीनानपि-मध्यस्थान् स्खलितचोदनोद्यतान् परुषं वदन्ति । कथमिति चेत, पूर्वाचरितं पलितं त्वं तृणहारोऽसीत्यादिकं प्रकथयेत् अथवा प्रकथयेदतथ्यैः कुण्टमुण्टादिभिर्गुणैर्मुखविकारादिभिर्वा । उपसंहरन्नाह - तद् वाच्यमवाच्यं वा तं वा धर्मं मेधावी जानीयादिति ।।१८८।। सोऽसभ्यवादप्रवृत्तो बालो गुर्वादिना यथानुशास्यते तथा दर्शयितुमाह - अहम्मट्ठी तुमंसि नाम बाले आरंभट्ठी अणुवयमाणे हण पाणे घायमाणे हणओ यावि समणुजाणमाणे, घोरे धम्मे, उदीरिए उवेहइ णं अणाणाए एस विसन्ने वियद्दे वियाहिए त्ति बेमि ॥सू० १८९॥ ___ अधर्मार्थी त्वमसि नाम बालो यत आरम्भार्थी यतः अनुवदन, तद्यथा-जहि प्राणिनोऽपरैरेवं घातयन हनतश्चापि समनुजानन् किंच - एवं ८० * श्री आचारागसूत्रम् (अक्षरगमनिका)
SR No.022573
Book TitleAcharang Sutram Shrutskandh 01
Original Sutra AuthorN/A
AuthorKulchandrasuri
PublisherPorwad Jain Aradhana Bhavan Sangh
Publication Year1997
Total Pages126
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy