________________
पण्डिता भवन्ति, एवं तेषामपरिकर्मितमतीनां शिष्याणां भगवतो धर्मे-सम्यगनुत्थाने सति यथा द्विजपोतः पक्षिशिशुः द्विजेन पाल्यते, एवं ते शिष्या दिवा च रात्रौ चाचार्येणानुपूर्वेण वाचिताः- पाठिताः संसारोत्तरणसमर्था भवन्तीति ब्रवीमि ॥ १८४ ॥
॥ अध्ययनं - ६ : उद्देशकः -४ ॥
अनन्तरं शिष्यनिष्पादनमुक्तं निष्पादितानां चैके गौरवत्रिकसमन्विता यत्कुर्युस्तदाह -
एवं ते सिस्सा दिया य राओ य अणुपुव्वेण वाइया तेहिं महावीरेहिं पन्नाणमन्तेहिं तेसिमंतिए पन्नाणमुवलब्भ हिचा उवसमं फारुसियं समाइयंति, वसित्ता बंभचेरंसि आणं तं नोत्ति मन्नमाणा आधायं तु सुच्चा निसम्म, समणुन्ना जीविसामो एगे निक्खमंते असंभवंता विडज्झमाणा कामेहिं गिद्धा अज्झोववन्ना समाहिमाघायमजोसयंता सत्थारमेव फरुसं वयंति ॥ १८५ ॥
एवं ते शिष्या दिवा च रात्रो चाऽनुपूर्वेण वाचितास्तैर्महावीरैः प्रज्ञानवद्भिः । तेषामन्तिके प्रज्ञानमुपलभ्य हित्वा त्यक्त्वा उपशमं पारुष्यं - कठोरतां समाददति । उषित्वाऽपि ब्रह्मचर्ये आज्ञां तां नो इति मन्यमानाः सातागौरवात् शरीरबाकुशिकतामालम्बन्ते । पाठान्तरं वा 'हेच्चा उवसमं अहेगे फारुसियं समारुहंति' सुगमम् । “आशातनाबहुलानां दीर्घः संसार इति" आख्यातं तु श्रुत्वा निशम्य - अवबुध्य च समनोज्ञा उद्यतविहारिणो जीविष्याम इत्येके निष्क्रामन्ते । पुनर्मोहोदयाद् असम्भवन्तो विदह्यमानाः कामैः गृद्धा गौरवत्रिके, अध्युपपन्ना विषयेषु समाधिमाख्यातमजोषयन्तः असेवमाना नोद्यमानाः शास्तारमेव परुषं वदन्तीति ॥ १८५ ॥
न केवलं शास्तारं परुषं वदन्ति अपरानपि साधूनपवदेयुरित्येतदाह -
सीलमंता उवसंता संखाए रीयमाणा असीला अणुवयमाणस्स बिइया मंदस्स बालया ॥ सू० १८६॥
ये शीलवन्त उपशान्ताः संख्यया प्रज्ञया रीयमाणाः संयमे पराक्रममाणास्तान् प्रति 'एते अशीला' इति अनुवदतः पश्चाद्वदतो द्वितीया मन्दस्य पार्श्वस्थादेर्बालता, तथाहि एकं तावत् स्वचारित्रापगमः पुनरपरानुद्यतविहारिणोऽपवदत इत्येषा द्वितीया बालता-बालभाव इति ॥ १८६ |
-श्री आचाराङ्गसूत्रम् (अक्षरगमनिका ) * ७९