________________
अभिसमेत्य सर्वतः सर्वात्मना सम्यक्त्वमेव समत्वमेव वा समभिजानीयात् । एवं तेषां महावीराणां चिररात्रं पूर्वाणि नाभेयादारभ्य शीतलं यावत् पूर्वसंख्यासद्भावात् पूर्वाणीत्युक्तं, तत आरतः श्रेयांसादारभ्य. वर्ष संख्याप्रवृत्तेवर्षाणीत्युक्तम् तत्र पूर्वस्य तु परिमाणं सप्तति कोटिलक्षाः षट्पञ्चाशत् च कोटिसहस्राः । तथा वर्षाणि रीयमाणानां द्रव्याणां भव्यानां. यदिवा द्रव्यं - संयमस्तद्वतां द्रव्यिकाणां पश्य अधिसहनम् । नागार्जुनीयास्तु “अचेले लाघवं आगममाणे" इति स्थाने पठन्ति - “एवं खलु से उवगरणलाघवियं तवं कम्मक्खयकारणं करेइ” एवं उक्तक्रमेण भावलाघवार्थमुपकरणलाघवं तपश्च करोतीति भावार्थः । ।।सू० १८२।।
एतचाधिसहमानानां यत्स्यात्तदाह -
आगयपन्नाणाणं किसा बाहवो भवंति पयणुए य मंससोणिए विस्सेणिं कटु परिन्नाय, एस तिण णे मुत्ते विरए वियाहिए त्ति बेमि ।।सू० १८३॥
आगतप्रज्ञानानां कृशा बाहवो बाधा वा-पीडा भवन्ति प्रतनुके च मांसशोणिते । संसारहेतुभूतां रागद्वेषकषायश्रेणी क्षान्त्यादिना विश्रेणी कृत्वा तथा परिज्ञाय - ज्ञात्वा समत्वभावनया कूरगडुप्रायमपि न हीलयति । एष तीर्णो मुक्तो विरतो व्याख्यात इति ब्रवीमि ॥ १८३ ॥
तं च तथाभूतं किमरतिरभिभवेत् उत नेत्याह -
विरयं भिक्खुं रीयंतं चिरराओ सियं अरइ तत्थ किं विधारए ?, संधेमाणे समुट्ठिए, जहा से दीवे असंदीणे, एवं से धम्मे आरियपदेसिए, ते अणवकंखमाणा पाणे अणइवाएमाणा दइया मेहाविणो पंडिया, एवं तेसिं भगवओ अणुट्ठाणे जहा से दियापोए एवं ते सिस्सा दिया य राओ य अणुपुबेण वाइय त्ति बेमि ॥सू० १८४॥
विरतं भिक्षु रीयमाणं - विहरन्तं चिररात्रं - प्रभूतं कालं संयमे उषितम् अरतिः तत्र - संयमे कि विधारयेत् - प्रतिस्खलयेत् ? ओमिति कर्मपरिणतेर्वैचित्र्यात्, यदिवा नैव विधारयेत् यत उत्तरोत्तरं संयमस्थानं गुणस्थानं धर्म वा संदधानः समुत्थितः । यथाऽसौ द्वीपः असन्दीनः . उदकाऽप्लाव्यो दीपो वा असन्दीनो - विवक्षितकालस्थायी परेषामपि अरतिविधारकः । एवमसौ धर्म आर्य प्रदेशितो भवति । धर्मिणश्च ते साधवोऽनवकाङ्क्षन्तो भोगान् प्राणिनोऽनतिपातयन्तो दयिता मेधाविनः
७८
* श्री आचारागसूत्रम् (अक्षरगमनिका)