________________
भवति - एस खलु गंथे, एस खलु मोहे, एस खलु मारे, एस खलु णरए, इचत्थं गढिए लोए जमिणं विरूवरूवेहिं सत्येहिं अगणिकम्मसमारंभमाणे अण्णे अगरूवे पाणे विहिंसइ ॥ ३७ ॥
एते लज्जमानाः संयमानुष्ठानपराः पृथक् २ पश्य । अथवा तान् लज्जमानान् पश्य ये अनगाराः स्म इत्येके प्रवदमाना यदिदं विरूपरूपैः शस्त्रैः अग्निकर्मसमारम्भेण अग्निशस्त्रं समारभमाणोऽन्यान् अनेकरूपान प्राणान् प्राणिनो विहिनस्ति ।
-
तत्र खलु भगवता परिज्ञा प्रवेदिता, अस्य चैव जीवितस्य परिवन्दन-मानन-पूजनाय जातिमरणमोचनाय दुःखप्रतिघातहेतुं च स स्वयमेव अग्निशस्त्रं समारभते, अन्यैर्वा अग्निशस्त्रं समारम्भयति, अन्यान् वा अग्निशस्त्रं समारम्भमाणान् समनुजानीते, तत् तस्य अहिताय, तत् तस्य अबोधये, स तत् संबुध्यमानः आदानीयं सम्यग्दर्शनादि समुत्थाय आदाय श्रुत्वा भगवतः अनगाराणां वाऽन्तिके, इहैकेषां ज्ञातं भवति एष खलु ग्रन्थः, एष खलु मोह:, एस खलु मारः, एष खलु नरकः, इत्येवमर्थं गृद्धो लोको यदिदं विरूपरूपैः शस्त्रैः अग्निकर्मसमारभमाणः अन्यान् अनेकरूपान् प्राणान् प्राणिनो विहिनस्ति ॥३७॥
कथं पुनरग्निसमारम्भप्रवृत्तो नानाविधान् प्राणिनो विहिनस्तीति दर्शयितुमाह
से बेमि-संति पाणा पुढवीनिस्सिया, तणणिस्सिया, पत्तणिस्सिया, कट्ठनिस्सिया, गोमयणिस्सिया, कयवरणिस्सिया, संति संपातिमा पाणा, आहच्च संपयंति, अगणि च खलु पुट्ठा एगे संघायमावज्जंति, जे तत्थ संघायमावज्रंति ते तत्थ परियावज्रंति जे तत्थ परियावज्जंति ते तत्थ उद्दायंति ॥ ३८॥
-
-
सोऽहं ब्रवीमि सन्ति प्राणाः प्राणिनः पृथिवीनिश्रिताः, तृणनिश्रिताः, पत्रनिश्रिताः, काष्ठनिश्रिताः, गोमयनिश्रिताः, कचवरनिश्रिताः, सन्ति सम्पातिनः प्राणिनस्त आहत्य - उपेत्य सम्पतन्ति, अग्निं च खलु स्पृष्टा एके संघातमापद्यन्ते, ये तत्र संघातं - गात्रसंकोचम् आपद्यन्ते, ते तत्र पर्यापद्यन्ते, मूर्च्छामापद्यन्ते, ये तत्र पर्यापद्यन्ते ते तत्र अपद्रावन्ति प्राणान् मुञ्चन्तीत्यर्थः ॥३८॥
१२
तदेवं प्रभूतसत्त्वोपमर्दनकरमग्न्यारम्भं विज्ञाय मनोवाक्कायैः कृतकारितानुमतिभिश्च तत्परिहारः कार्य इति दर्शयितुमाह
-
* श्री आचाराङ्गसूत्रम् (अक्षरगमनिका)