________________
अस्य चैव जीवितस्य परिवन्दन - मानन - पूजनाय जातिमरणमोचनाय दुःखप्रतिघातहेतुं चेति ॥११॥
एतावन्त एव च क्रियाविशेषा इति दर्शयितुमाह -
एयावंति सव्वावंति लोगंसि कम्मसमारंभा परिजाणियव्वा भवंति ॥१२॥ एतावन्तः सर्वस्मिन् लोके कर्मसमारम्भा ज्ञपरिज्ञया परिज्ञातव्याः प्रत्याख्यानपरिज्ञया च प्रत्याख्यातव्या भवन्तीति ॥१२॥
एवं सामान्येन जीवास्तित्वं प्रसाध्य तदुपमर्दकारिणां च क्रियाविशेषाणां बन्धहेतुत्वं प्रदर्योपसंहारद्वारेण विरतिं प्रतिपादयन्नाह
जस्सेते लोगंसि कम्मसमारंभा परिण्णाया भवंति से हु मुणी परिण्णायकम्मे ॥१३॥ त्ति बेमि ॥
-
यस्य एते लोके कर्मसमारम्भाः परिज्ञाता भवन्ति स एव मुनिः परिज्ञातकर्मेति ब्रवीमि ॥१३॥
॥ शस्त्रपरिज्ञाध्ययने द्वीतियोद्देशकः ॥
प्रथमोद्देशके सामान्येन जीवास्तित्वं प्रसाधितम्, इदानीं तस्यैवैकेन्द्रियादि पृथिव्याद्यस्तित्वं प्रतिपादयिषयाऽऽह -
अट्टे लोए परिजुणे दुस्संबोहे अविजाणए अस्सि लोएं पव्चहिए तत्थ तत्व पुढो पास आतुरा अस्सि परितावेंति ॥१४॥
आर्तो लोकः परिद्यूनः निस्सारः प्रशस्तभावहीनो यावत् दुःसम्बोधः अविज्ञायकः । अस्मिल्लोके प्रव्यथिते सति तत्र तत्र कृष्यादौ पृथक् २ पश्य आतुरा अस्मिन् पृथिवीकायलोके विषयभूते पृथिवीकायं परितापयन्तीति ||१४||
ननु चैकदेवताविशेषावस्थिता पृथिवीति शक्यं प्रतिपत्तुं न पुनरसंख्येयजीवसङ्घातरूपेत्येतत् परिहर्तुकाम आह
-
संति पाणा पुढो सिया, लज्रमाणा पुढो पास अणगारा मोत्ति एगे पवयमाणा जमिणं विरूवरूवेहिं सत्येहिं पुढविकम्मसमारंभेणं पुढविसत्वं समारंभेमाणा अणेगरूवे पाणे विहिंसइ ॥ १५ ॥
-
`सम्बद्धा इत्यर्थः ।
सन्ति प्राणाः-प्राणिनः पृथक् २ श्रिताः सिता वा एते लज्जमानाः संयमानुष्ठानपराः पृथक् पृथक् पश्य । अथवा तान् शाक्यादीन् लज्जमानान् पश्य ये अनगाराः स्म इत्येके प्रवदमाना यदिदं
४ * श्री आचाराङ्गसूत्रम् ( अक्षरगमनिका)
-