________________
अकरिस्सं चाऽहं, कारवेसुं चऽहं करओ आवि समुणुन्ने भविस्सामि ॥६॥
अकार्षं चाहं, अचीकरमहं, कुर्वतश्चापि समनुज्ञो भविष्यामि । सूचनात् सूत्रमिति न्यायेन भूत-वर्तमान-भविष्यत्कालाऽपेक्षया कृत- कारिताऽनुमतिभिः नव विकल्पाः संभवन्ति । ते च मनोवाक्- कायैश्चिन्त्यमानाः सप्तविंशतिर्भेदा भवन्तीति ॥६॥
अथ किमेतावत्य एव क्रियाः उतान्या अपि सन्तीति, एता एवेत्याह - एयावंति सव्वावंति लोगंसि कम्मसमारंभा परिजाणियव्वा भवंति ॥७॥ एतावन्तः सर्वेऽपि लोके कर्मसमारम्भाः परिज्ञातव्या भवन्तीति ।।७।। यस्तावदात्मकर्मादिवादी स दिगादिभ्रमणान्मोक्ष्यते, इतरस्य तु विपाकान् दर्शयितुमाह -
अपरिण्णायकम्मे खलु अयं पुरिसे जो इमाओ दिसाओ अणुदिसाओ अणुसंचरइ सम्बाओ दिसाओ सवाओ अणुदिसाओ साहेति ॥८॥
अपरिज्ञातकर्मा खल्वयं पुरुषो य इमा दिशोऽनुदिशोऽनुसञ्चरति, सर्वा दिशः सर्वाश्चानुदिशः सहैति - स्वकृतेन कर्मणा सहानुसञ्चरतीति ।।८।।
स यदाप्नोति तदर्शयति - अणेगरूवाओ जोणीओ संघेइ, विरूवरूवे फासे पडिसंवेदेइ ॥९॥
अनेकरूपा योनीः सन्धयति-संघट्टयति, 'संधावइति पाठान्तरमाश्रित्य सन्धावति . पौनःपुन्येन गच्छति । तत्र विरूपरूपान् . बीभत्साऽमनोज्ञस्वरूपान् स्पर्शान् प्रतिसंवेदयति - अनुभवतीति ॥९॥
ययेवं तत किमित्यत आह - तत्थ खलु भगवता परिण्णा पवेइआ ॥१०॥
तत्र सावधक्रियासु खलु भगवता परिज्ञा ज्ञप्रत्याख्यानरूपा प्रवेदितेति ॥१०॥
अथ किमर्थमसौ सावयक्रियासु प्रवर्तत इत्याह -
इमस्स चेव जीवियस्य परिवंदणमाणणपूयणाए जाईमरणमोयणाए दुक्खपडिघायहेउं ॥११॥
. श्री आचारागसूत्रम् (अक्षरगमनिका) *
३