________________
अस्ति मे आत्मा औपपातिकः-जन्मान्तस्मामी, नास्ति मे आत्मा औपपातिकः, कोऽहमासम् ? को वा इतश्च्युत इह संसारे प्रेत्य जन्मान्तरे भविष्यामीति ॥३॥
तत्रेह ‘एवमेगेसिं णो णायं भवई' इत्यनेन केषाञ्चिदेव संज्ञानिषेधात् केषाञ्चित्तु भवतीत्युक्तं भवति,
तत्र विशिष्टसंज्ञा भवान्तरगामिन आत्मनः स्पष्टप्रतिपादने सोपयोगिनीति तत्कारणमाह
से जं पुण जाणेजा सह संमइयाए परवागरणेणं अण्णेसिं वा अंतिए सोचा तं जहा - पुरत्थिमाओ वा दिसाओ आगओ अहमंसि जाव अण्णयरी दिसाओ अणुदिसाओ वा आगओ अहमंसि, एवमेगेसिं जं णायं भवति - अस्थि मे आया उववाइए, जो इमाओ दिसाओ वा अणुदिसाओ वा अणुसंचरइ, सबाओ दिसाओ अणुदिसाओ, सोऽहं ॥४॥ ____स यत् पुनर्जानीयात् सह सन्मत्या स्वमत्या वा - अवधि-मनःपर्यायकेवलज्ञान-जातिस्मरण-भेदाच्चतुर्विधया वा, परव्याकरेणन तीर्थकृत्सर्वज्ञकथनेन, अन्येषां वा-तीर्थकरव्यतिरिक्तानाम् अतिशयज्ञानिनां वाऽन्तिके श्रुत्वा तद्यथा - पूर्वस्या वा दिश आगतोऽहमस्मि, यावत् अन्यतरस्या दिशोऽनुदिशो वाऽऽगतोहमस्मि, एवमेकेषां यद् ज्ञातं भवति - अस्ति मे आत्मा औपपातिकः जन्मान्तरगामी योऽमुष्या दिशोऽनुदिशः - मनुष्याश्चतुर्भेदास्तद्यथा - संमूर्छनजाः कर्मभूमिजा अकर्मभूमिजाः अन्तर्वीपजाश्चेति तथा तिर्यंचो दीन्द्रियास्त्रीन्द्रियाश्चतुरिद्रियाः पञ्चेन्द्रियाश्चेति चतुर्धा तथा कायाः पृथिव्यप्तेजोवायुश्चत्वारस्तथाऽग्रमूलस्कन्धपर्वबीजाश्चत्वार एव एते षोडश देवनारकप्रक्षेपादष्टादश भावदिशोऽनुदिशः तत आगतः अनुसंचरति ‘अनुसंसरइ 'अनुसंभरई इति पाठान्तरद्वयमाश्रित्य अनुसंस्मरति वा सोऽहमिति ॥४॥
यो हि ‘सोऽह'मित्यनेनाहङ्कारज्ञानेनात्मोल्लेखेन पूर्वादर्दिश आगतमात्मानमविच्छिन्नसंततिपतितं द्रव्यार्थतया नित्यं पर्यायार्थतया त्वनित्यं जानाति स परमार्थतः आत्मवादीति ।
से आयावादी लोयावादी कम्मावादी किरियावादी ॥५॥
स आत्मवादी लोकवादी लोकापाती वा - लोके आपतितुं शीलमस्येति वा कर्मवादी क्रियावादीति ॥५॥
साम्प्रतं पूर्वोक्तां क्रियामात्मपरिणतिरूपां त्रिकालसंस्पर्शिना मतिज्ञानेन दर्शयितुमाह
२
* श्री आचाराङ्गसूत्रम् (अक्षरगमनिका)