________________
परिग्रहमूलं च शब्दादिपञ्चगुणानुगामिनः कामाः, तेषां चोच्छेदः असुकरो यत आह कामा दुरतिक्कमा, जीवियं दुप्पडिबूहगं, कामकामी खलु अयं पुरिसे, से सोयइ जूरइ तिप्पइ परितप्पइ ॥९३॥
कामा दुरतिक्रमाः, जीवितं संयमजीवितं वा दुष्प्रतिबृंहकं कामानुषक्तजनाऽन्तर्वर्तिना दुःखेन वृद्धिं नीयते, दुःखेन निष्कलङ्कसंयमः प्रतिपाल्यत इति, कामकामी कामाभिलाषी खलु अयं पुरुषः अविरतचेताः शोचति शोकमनुभवति शोचते वा प्रलपति वा, जूर्यते हृदयेन खिद्यते, तेपते मर्यादातो भ्रश्यति तथा शारीरमानसैर्दुःखैः परितप्यते पश्चातापं वा करोति ॥९३॥
-
कः पुनरेवं न शोचत इत्याह
आययचक्खू लोगविपस्सी लोगस्स अहो भागं जाणइ, उड्ढं भागं जाणइ, तिरियं भागं जाणइ, गड्ढिए लोए अणुपरियट्टमाणे, संधिं विइत्ता इह मच्चिएहिं, एस वीरे पसंसिए जे बद्धे पडिमोयए, जहा अंतो तहा बाहिं, जहा बाहिं तहा अंतो, अंतो अंतो पूइदेहंतराणि पासइ, पुढोवि सवंताई पंडिए पडिलेहाए ॥ ९४॥
-
ऐहिकामुष्मिकापायदर्शित्वात् आयतचक्षुः लोकविदर्शी लोकस्य अधोभागं जानाति, ऊर्ध्वभागं जानाति, तिर्यग्भागं जानाति, किंच - गृद्धो लोकोऽनुपरिवर्तमान इत्यपि जानाति, यदि वा गृद्धान् लोके -संसारे पश्येत्युपदेशः । मर्त्येषु एव-मनुष्येष्वेव सन्धिं ज्ञानादिकं भावसन्धि सम्पूर्णं विदित्वा यो विषयकषायादीन् परित्यजति एष वीरः प्रशंसितो यश्च बद्धान् प्रतिमोचयति, यथा अन्तः- भावबन्धनमष्टप्रकारकर्मनिगडनं विषयाभिष्वङ्गं वा तथा बहिर्बन्धुबन्धनं मोचयति । बहिर्यथा तथाऽन्तरपि । अन्तोऽन्तः पूतिदेहान्तराणि इह मांसमिह रुधिरमिह मेदो मज्जा चेत्येवमादि पश्यति पृथक पृथक् अपि स्रवन्ति, अपि शब्दात् कुष्ठाद्यवस्थायां यौगपद्येनापि स्रवन्तीति पण्डितः प्रत्युपेक्षेत | ॥९४॥ |
तदेवं पूतिदेहान्तराणि पश्यन् पृथगपि स्रवन्ति इति एवं प्रत्युपेक्ष्य किं कुर्यादित्याह -
से मइमं परिन्नाय मा यहु लालं पच्चासी, मा तेसु तिरिच्छमप्पाण-मावायए, कासंकासे खलु अयं पुरिसे, बहुमाई कडेण मूढे, पुणो तं करेइ लोहं, वेरं वड़्ढेइ अप्पणो, जमिणं परिकहिज्जइ इमस्स चेव पडिबूहणयाए, अमरायइ महासड्ढी अट्टमेयं तु पेहाए अपरिण्णा कंदइ ॥ ९५ ॥
-
३४
* श्री आचाराङ्गसूत्रम् (अक्षरगमनिका )