________________
ब्रूयात्, तथा-भवतां सर्वत्र सम्मतं पापं, मम तु. नैतद् । तदेव- एतत् पापानुष्ठानम् उपातिक्रम्य अतिलय व्यवस्थितोऽहमतो एष मम विवेको व्याख्यातः । जीवाजीवादिपरिज्ञाने सम्यगनुष्ठाने च सति भवति धर्मो ग्रामेऽथवाऽरण्ये, विवेकाभावे नैव ग्रामे नैव अरण्ये । अतस्तं धर्ममाजानीत प्रवेदितं माहणेण-भगवता मतिमता-केवलिना । किम्भूतो धर्म इत्याहयामास्त्रयः । यामा व्रतविशेषाः प्राणातिपातमृषावाद-परिग्रहविरतिरिति, अदत्तादानमैथुनयोः परिग्रह एवान्तर्भावात् त्रयग्रहणं, यदिवा यामा वयोविशेषास्तद्यथा-अष्टवर्षादात्रिंशतः प्रथमस्तत उर्ध्वमाषष्टेः द्वितीयः, तत उर्ध्व तृतीय इति अति बालवृद्धयोगुंदासः, यदिवा यम्यते-उपरम्यते संसारभ्रमणादेभिरितिं यामाः - ज्ञानदर्शनचारित्राणीति उदाहृता येषु इमे आर्याः सम्बुध्यमानाः समुत्थिताः, ये निर्वृताः पापेषु कर्मसु अनिदानास्ते व्याख्याताः - प्रतिपादिता इति ॥१९७||
क्व च पुनः पापकर्मसु अनिदाना इत्यत आह - .
उड़े अहं तिरियं दिसासु सवओ सव्वावंति च णं पाडियकं जीवेहिं कम्मसम्मारम्भे णं तं परिन्नाय मेहावी नेव सयं एएहिं काएहिं दंडं समारंभिजा, नेवन्ने एएहिं काएहिं दंडं समारंभाविजा, नेवन्ने एएहि कायेहिं दंडं समारंभंतेऽवि समणुजाणेजा नेवऽन्ने एएहिं काएहिं दंड समारभंति तेसि पि वयं लज्जामो तं परिन्नाय मेहावी तं वा दंडं अन्नं वा नो दंडभी दंडं समारंभिज्जासि त्ति बेमि ॥सू० १९८॥
उर्ध्वमधस्तिर्यग्दिक्षु सर्वतः सर्वासु च प्रत्येकं जीवेषु यः कर्मसमारम्भः जीवानुदिश्य य उपमर्दरूपः क्रियासमारम्भस्तम् परिज्ञाय मेधावी नैव स्वयमेतेषु कायेषु दण्डं समारभेत । न चापरेण समारम्भयेत् । नैवाऽन्यान् एतेषु कायेषु दण्डं समारभमाणानपि समनुजानीयात् । ये चान्ये एतेषु कायेषु दण्डं समारभन्ते तैरपि वयं लज्जामः इति कृताध्यवसायो महतेऽनाय कर्मसमारम्भस्तं परिज्ञाय मेधावी तं वा दण्डमन्यं वा नो दण्डभीः - दण्डभीरुदण्डं समारभेथा इति ब्रवीमि ॥१९८।।
॥ अध्ययनं-८ : उद्देशकः-२ ॥ दण्डभीरुता चाऽकल्पनीयपरित्यागमृते न सम्पूर्णतामियाद् अकल्पनीयपरित्यागार्थमुपदिश्यते -
अतः
८६
* श्री आचाराङ्गसूत्रम् (अक्षरगमनिका)