________________
एव एकदा निजकाः पूर्वं परिवदन्ति परिभवन्ति निन्दन्ति वा स वा तान् निजकान् पश्चात् परिवदेत् - निन्देत् नालं ते तव त्राणाय वा शरणाय वा, त्वमपि तेषां नालं त्राणाय वा शरणाय वा ज्ञात्वा दुःखं प्रत्येकं सातं सुखं वा । न केवलं स्वजना दुःखकारणं, किन्तु भोगा अपि तदाह - भोगा मे वा इति अनुशोचयन्ति । ईदृक्षश्चाध्यवसायो न सर्वेषां सनत्कुमारादीनाम्, अपितु इहैकेषां मानवानां ब्रह्मदत्तादीनां भवति ॥ ८३ ॥
अपि च - भोगानां प्रधानं कारणमर्थोऽतस्तत्स्वरूपमेव निर्दिदिक्षुराह
तिविहेण जाऽवि से तत्थ मत्ता भवइ अप्पा वा बहुगा वा, से तत्थ गढिए चिट्ठइ भोयणाए, तओ से एगया विपरिसिट्ठ संभूयं महोबगरणं भवइ, तंपि से एगया दायाया विभयंति, अदत्तहारो वा से हरति, रायाणो वा से विलुंपति नस्सइ वा से, विणस्सइ वा से, अगारदाहेण वा से डज्झइ, इय से परस्स अट्ठाए कूराणि कम्माणि बाले पकुव्वमाणे तेण दुक्खेण मूढे विप्परयासमुवे ॥८४॥
त्रिविधेन सचिताचित्तमिश्रभेदेन याऽपि तस्य
आरम्भिणः तत्र
आरम्भे मात्रा अर्थमात्रा भवति अल्पा वा बहुका वा स आरम्भी तत्र गृद्धस्तिष्ठति भोजनाय भोगाय वा भविष्यतीति मन्यमानः, ततः तस्यैकदा विपरिशिष्टं सम्भूतं महोपकरणं भवति तदपि स्वोपभोगायोपार्जितमपि तस्यैकदा दायादा विभजन्ते अदत्तहारो दस्युर्वा तस्य हरति, राजानो वा तस्य विलुम्पन्ति, नश्यति वा तस्य, विनश्यति वा तस्य, अगारदाहेन वा तस्य दह्यते, एवं स परस्मै अर्थाय क्रूराणि कर्माणि बालः प्रकुर्वाणस्तेन दुःखेन मूढो विपर्यासमुपैति ॥ ८५॥
-
-
-
-
-
* श्री आचाराङ्गसूत्रम् (अक्षरगमनिका )
-
तदेवं दुःखविपाकान् भोगान् प्रतिपाद्य यत् कर्तव्यं तदुपदिशतीत्याह
आसं च छन्दं च विगिंच धीरे !, तुमं चेव तं सल्लमाहट्टु जेण सिया तेण नो सिया, इणमेव नावबुज्झति जे जणा मोहपाउडा, थीभि लोए पव्वहिए, ते भो ! वयंति एयाई आययणाई से दुक्खाए मोहाए माराए नरगाए नरगतिरिक्खाए, सययं मूढे धम्मं नाभिजाणइ, उआहु वीरे, अप्पमाओ महामोहे, अलं कुसलस्स पमाएणं, संतिमरणं संपेहाए भेउरधम्मं संपेहाए नालं पास अलं ते एहिं ॥ ८५ ॥