________________
मं
व्यवस्थाप्य
दोषः । आर्यवचनमेतत् । पूर्वं समयम् प्रत्येकं प्रश्नयिष्यामि - भो प्रवादुकाः ! कि वः सातं दुःखम् उत असातम् ? सम्यक् प्रतिपन्नान् तान् चापि एवं ब्रूयात् सर्वेषां प्राणिनां सर्वेषां भूतानां सर्वेषां जीवानां सर्वेषां सत्त्वानाम् असातम् अपरिनिर्वाणं महद्भयं दुःखमिति सर्वेऽपि प्राणिनो न हन्तव्या इति ब्रवीमि ॥१३४||
॥ अध्ययनं - ४ : उद्देशकः - ३ ॥
सर्वेऽपि प्राणिनो न हन्तव्या इत्यन्यतीर्थिकानामुपदेशो दत्तः । इहापि स एवोपदेशो विश्वस्य दीयते -
उहि णं बहिया य लोगं, से सव्वलोगंमि जे केइ विष्णू, अणुवीइ पास निक्खित्तदंडा, जे केइ सत्ता पलियं चयंति, नरा मुयचा धम्मविउत्ति अंजू, आरंभजं दुक्खमिणं ति णच्चा, एवमाहु संमत्तदंसिणो, ते सव्वे पावाइया दुक्खस्स कुसला परिण्णमुदाहरंति इय कम्मं परिण्णाय सव्वसो ॥१३५॥
-
-
उपेक्षस्व बहिर्व्यवस्थितं च पाषण्डिलोकं यतः स उपेक्षकः सर्वस्मिँल्लोके ये केचिद् विद्वांसस्तेभ्योऽग्रणीः स्यात् यद्वा ये केचन विद्वांसस्ते निक्षिप्तदण्डा इत्येतदनुविचिंत्य पश्य । निक्षिप्तदण्डा ये केचन सत्त्वाः पलितं कर्म त्यजन्ति, ये नरा मृतार्चा - मृता संस्काराभावादर्चा- शरीरं येषां ते निष्प्रतिकर्मशरीराः, 'यदि वा अर्चा- तेजः स क्रोधः स च कषायोपलक्षणार्थः ततः अकषायिणस्ते च धर्मविद इति ऋजवः आरम्भजं दुःखमिदमिति ज्ञात्वा एवमाहुः - पूर्वोक्तमाहुः समत्वदर्शिनः सम्यक्त्वदर्शिनः समस्तदर्शिनो वा यस्मात्ते सर्वेऽपि सर्वविदः प्रावादिकाः प्रकर्षेण मर्यादया वदनशीला दुःखस्य तदुपादानस्य कर्मणो वा कुशलाः परिज्ञां प्रत्याख्यानपरिज्ञामुदाहरन्ति । कथमुदाहरन्तीति चेदुच्यते इति
एवं कर्म परिज्ञाय सर्वश उदाहरन्तीति ॥ १३५ ॥
यदि नाम कर्मपरिज्ञामुदाहरन्ति ततः किं कार्यमित्याह -
-
-
इह आणाकंखी पंडिए अणिहे, एगमप्पाणं संपेहाए धुणे सरीरं, कसेहि अप्पाणं जरेहि अप्पाणं- जहा जुन्नाई कट्ठाई हव्ववाहो पमत्थइ । एवं अत्तसमाहिए अणिहे, विगिंच कोहं अविकंपमाणे ॥ १३६ ॥
५४
इह मौनीन्द्र प्रवचने आज्ञाकाङ्क्षी पण्डितः अस्निहः अनिहतो वा एकमात्मानं सम्प्रेक्ष्य धुनीयाच्छरीरकं किं च कृशं कुरु आत्मानं शरीरकं
-
* श्री आचाराङ्गसूत्रम् (अक्षरगमनिका)