________________
कर्म वा, तथा जरीकुरु आत्मानं शरीरकं यथा जीर्णानि काष्ठानि हव्यवाहः अग्निः प्रमथ्नाति । एवम् आत्मसमाहितः अस्निहः परित्यज्य क्रोधं अविकम्पमानश्च संस्तपोग्निना कर्मकाष्ठं दहेदिति ॥१३६॥
किं विगणय्यैतत्कुर्यादित्याह -
इमं निरुद्धाउयं संपेहाए, दुक्खं च जाण अदु आगमेस्सं, पुढो फासाई च फासे, लोयं च पास विफंदमाणं, जे निव्वुडा पावेहिं कम्मेहिं अणियाणा ते वियाहिया, तम्हा अतिविज्जो नो पडिसंजलिज्जासि त्ति बेमि ॥१३७॥
-
इदं मनुष्यत्वं निरुद्धायुष्कं परिगलितायुष्कं सम्प्रेक्ष्य क्रोधादिना दन्दह्यमानस्य यद् दुःखं तच्च जानीहि, अथवा तजनितकर्मविपाकाऽऽपादितम् आगमिष्यद् दुःखं जानीहि, पृथक् पृथक् दुःखान् स्पर्शान् च स्पृशेत् । लोकं च पश्य विस्पन्दमानं धावन्तमितश्चेतश्च, ये निर्वृताः विषयकषायाग्न्युपशमात् शीतीभूताः पापेषु कर्मसु अनिदानास्ते व्याख्याताः । तस्मात् अतिविद्यः सन् त्वं क्रोधाग्निना नो प्रतिसञ्चलेरिति ब्रवीमि ॥१३७॥
-
-
॥ अध्ययनं - - ४ : उद्देशकः-४ ॥
यः शीतीभूतः संवृताश्रवः स तपसा शरीरकमापीडयेत् प्रपीडयेदित्याह
आवीलए पवीलए निप्पीलए जहित्ता पुव्वसंजोगं हिच्चा उवसमं, तम्हा अविमणे वीरे, सारए समिए सहिए सया जए, दुरणुचरो मग्गो वीराणं अनियट्टगामीणं, विगिंच मंससोणियं, एस पुरिसे दविए वीरे, आयाणिजे वियाहिए, जे धुणाइ समुस्सयं वसित्ता बंभचेरंसि ॥१३८॥
-
आपीडयेत् प्रपीडयेत् निष्पीडयेत् तपसा शरीरकं त्यक्त्वा पूर्वसंयोगं धनधान्यादिपुत्रकलत्रादिकृतं यदिवा असंयमसंयोगं हित्वा प्रतिपद्य उपशमम् । यस्मात् कर्मक्षयायऽसंयमपरित्यागः तस्मात् अविमना वीरः । ततः संयमानुष्ठाने स्वारतः सुष्ठु आजीवनं रतः समितो ज्ञानादिना सहितः सदा यतेत । यतो दुरनुचरो मार्गो वीराणां अनिवर्तगामिनाम् अनिवर्तो मोक्षस्तत्र गमनशीलानाम् । तस्मात् विवेचय ह्रासं नय मांसशोणितं दर्पकारीति । एष तपस्वी पुरुषो द्रविकः - संयमी वीर आदानीयो व्याख्यातो यो धुनाति समुच्छ्रयं शरीरं कर्मोपचयं वा उषित्वा ब्रह्मचर्य इति ॥१३८||
उषित्वाऽपि बह्मचर्ये पुनर्मोहोदयात् प्रमत्तो भवतीत्याह -
-श्री आचाराङ्गसूत्रम् (अक्षरगमनिका ) *
-
५५
-