________________
नित्तेहिं पलिच्छिन्नेहिं आयाणसोयगड्ढिए बाले, अव्वोच्छिन्नबंधणे अणभिक्कंतसंजोए तमंसि अवियाणओ आणाए लंभो नत्थि त्ति बेमि ॥१३९॥
नेत्रादीन्द्रियैः परिच्छिन्नैः यथास्वं विषयग्रहणं प्रति निरुद्धैः आदानं कर्म तस्य श्रोतांसि इन्द्रियविषया मिथ्यात्वादि वा तेषु गृद्धः आदानश्रोतोगृद्धः स्याद् बालः । एवम्भूतो यश्च अव्यवच्छिन्नबन्धनः अनभिक्रान्तसंयोगस्तस्य विषयलाम्पट्ये मोहात्मके वा तमसि वर्तमानस्य अविजानत आज्ञाया लाभः बोधिलाभो नास्तीति ब्रवीमि ॥१३९॥
-
-
एतदेवाह -
जस्स नत्थि पुरा पच्छा मज्झे तस्स कुओ सिया ?, से हु पन्नाणमंते बुद्धे आरंभोवरए संममेयंति पासह, जेण बंधं वहं घोरं परियावं च दारुणं पलिछिंदिय बाहिरगं च सोयं, निक्कंमदंसी इह मच्चिएहिं, कम्माणं सफलं दद्रुण तओ निजाइ वेवी ॥१४०॥
1
यस्य बोधिलाभः अतिक्रान्तसुखस्मरणं वा नास्ति पुरा, पश्चादपि न भावी, मध्ये- वर्तमानकाले तस्य कुतः स्यात् ? स हि यस्मान्निवृत्तभोगाभिलाषः तस्मात् प्रज्ञानवान् बुद्ध आरम्भोपरतः एतच्चारम्भोपरमणं सम्यगेतत् सम्यक्त्वमेतद्वेत्येवं पश्यत । येन कारणेन सावद्यारम्भप्रवृत्तो बन्धं वधं घोरं परितापं च दारुणमवाप्नोति, तेन कारणेन परिच्छिन्द्य- अपनीय बाह्यं च धनधान्यादिरूपं हिंसादिरूपं वा च शब्दादान्तरं च रागद्वेषात्मकं विषयपिपासाऽऽख्यं वा स्रोतः स निष्कर्मदर्शी - मोक्षदर्शी भवेद् इह मर्त्येषु कर्मणां सफलत्वं दृष्ट्वा ततः कर्मोपादानाद् आस्रवाद्वा निर्याति वेदविद् - आगमवेत्तेति || १४०||
५६
-
न केवलस्य ममैवायमभिप्रायः, सर्वेषां तीर्थकराणामयमाशय इति दर्शयितुमाह -
जे खलु भो ! वीरा ते समिया सहिया सया जया संघडदंसिणो आओवरया अहातहं लोयं उवेहमाणा पाइणं पडिणं दाहिणं उइणं इय सच्चसि परि (चिए) चिट्ठिसु, साहिस्सामो नाणं वीराणं समियाणं सहियाणं सयाजयाणं संघडदंसीणं आओवरयाणं अहातहं लोयं समुवेहमाणाणं किमत्थि उबाही ?, पासगस्स न विजइ नत्थि त्ति बेमि ॥ १४१ ॥
ये खलु भो ! संघटदर्शिनः पूर्वापरविस्तरदर्शिनो निरन्तरदर्शिनो वा
* श्री आचाराङ्गसूत्रम् (अक्षरगमनिका)