________________
स स्वयमेव उदकशस्त्रं समारभते, अन्यैर्वा उदकशस्त्रं समारम्भयति, अन्यान् उदकशस्त्रं समारभमाणान् समनुजानीते । तत्तस्य अहिताय, तत्तस्य अबोधये । स तत् संबुध्यमान आदानीयं सम्यग्दर्शनादि समुत्थाय आदाय श्रुत्वा च भगवतः अनगाराणामन्तिके इहैकेषां ज्ञातं भवति एष खलु मोहः, एस खलु मारः, एष खलु नरकः, इत्यर्थं गुद्धो लोको यदिदं विरूपरूपैः शस्त्रैः उदककर्मसमारम्भेण उदकशस्त्रं समारभमाण उदकनिश्रितान् अन्यान् अनेकरूपान् प्राणान् प्राणिनो विहिनस्ति । सोऽहं ब्रवीमि सन्ति प्राणाःप्राणिन उदकनिश्रिता जीवा अनेक इति ||२४||
-
शाक्यादयस्तूदकश्रितानेव द्वीन्द्रियादीन् जीवानिच्छन्ति नोदकमित्येतदेव दर्शयति - इहं च खलु भो ! अणगाराणं उदयजीवा वियाहिया ॥ २५ ॥
इह जैनेन्द्रप्रवचने खलु भो ! अनगाराणाम् उदकजीवा व्याख्याता इति ॥ २५ ॥
-
अतो यद्बाह्यशस्त्रसम्पर्कात् अचित्तं भवति तत् साधुपरिभोगाय कल्पते, किं पुनस्तच्छस्त्रमित्यत आह
सत्थं चेत्थ अणुवीइ पास पुढो सत्थं पवेइयं ॥ २६ ॥
शस्त्रं चैतस्मिन् अनुविचिन्त्य पश्य पृथक् २ शस्त्रं प्रवेदितम् । 'पुढोऽपासं प्रवेदितमिति पाठान्तरमाश्रित्य - एवं शस्त्रेण परिणामितमुदकग्रहणमपाशं निर्दोषं प्रवेदितमिति ।
एवं तावत् साधूनामचित्तपयसा परिभोगः प्रतिपादितः । ये पुनः शाक्यादयोऽकायोपभोगप्रवृत्तास्ते नियमत एवाप्कायं विहिंसन्ति, तदाश्रितांश्चान्यानिति तत्र न केवलं प्राणातिपातापत्तिरेव तेषां किमन्यदित्यत आह
अदुवा अदिन्नादाणं ॥ २७॥
अथवा अदत्तादानम् अप्कायजीवादत्तत्वादिति ॥२७॥ साम्प्रतमेतद्दोषद्वयं स्वसिद्धान्ताभ्युपगमद्वारेण परः परिहारायाहकप्पइ णे कप्पइ णे पाउं, अदुवा विभूसाए ॥२८॥
कल्पते नः कल्पते नः पातुं, अथवा विभूषायै इति ||२८||
एवं ते परिफल्गुवचसः परिव्राजकादयो निजसिद्धान्तोपन्यासेन मुग्धमतीन्विमोह्य किं कुर्वन्तीत्याह
श्री. आचाराङ्गसूत्रम् (अक्षरगमनिका ) * ९