________________
पुढो सत्थेहिं विट्टन्ति ॥२९॥
पृथक् पृथक् शस्त्रैर्विकुट्टन्ति-जीविताद् व्यपरोपयन्तीति ।
अधुनैषामागमासारत्वप्रतिपादनायाह-एत्थवि तेसिं नो निकरणाए ॥ ३०॥
एतस्मिन् स्वागमानुसारेणाभ्युपगमे सति आस्तां युक्तयस्तेषाम् आगमोऽपि न निकरणाय - निश्चयाय समर्थो भवतीति ॥ ३० ॥
तदेवं निर्बाधं जीवत्वं प्रतिपाद्य तत्प्रवृत्तिविनिवृत्तिविकल्पफलप्रदर्शनद्वारेणोपसंजिहीर्षुः सकलमुद्देशार्थमाह
एत्थ सत्थं समारंभमाणस्स इच्चेए आरंभा अपरिण्णाया भवंति, एत्थ सत्थं असमारंभमाणस्स इच्चेते आरंभा परिण्णाया भवंति, तं परिण्णाय मेहावी व सयं उदयसत्थं समारम्भेज्जा, नेवण्णेहिं उदयसत्थं समारंभावेज्जा, उदयसत्थं समारंभंतेऽवि अण्णे ण समणुजाणेज्जा, जस्सेते उदयसत्थसमारंभा परिण्णाया भवंति से हु मुणी परिण्णातकम्मे त्ति बेमि ॥३१॥
एतस्मिन् शस्त्रं समारभमाणस्य इत्येते आरम्भा अपरिज्ञाता भवन्ति, एतस्मिन् शस्त्रम् असमारभमाणस्य इत्येते आरम्भाः परिज्ञाता भवन्ति, तत् परिज्ञाय मेधावी नैव स्वयम् उदकशस्त्रं समारभेत, नैवान्यैरुदकशस्त्रं समारम्भयेत्, उदकशस्त्रं समारभमाणान् अपि अन्यान् न समनुजानीयात् यस्यैते उदकशस्त्र-समारम्भाः परिज्ञाता भवन्ति स खलु मुनिः परिज्ञातकर्मेति ब्रवीमि ॥३१॥
॥ अध्ययनं - १ उद्देशकः ४ ॥
इहानन्तरोद्देशके मुनित्वप्रतिपत्तये अप्कायः प्रतिपादितः तदधुना तदर्थमेव क्रमायाततेजस्कायप्रतिपादनायायमुद्देशकः समारभ्यते ।
से बेमि णेव सयं लोगं अब्भाइक्खेजा णेव अत्ताणं अब्भाइक्खेज्जा, जे लोयं अभाइक्ख से अत्ताणं अब्भाइक्खइ, जे अत्ताणं अब्भाइक्खइ से लोयं अब्भाइक्खइ ॥ ३२॥
सोऽहं ब्रवीमि - नैव स्वयम् अग्निलोकम् अभ्याचक्षीत, नैव आत्मानम् अभ्याचक्षीत, यः अग्निलोकम् अभ्याचष्टे स आत्मानम् अभ्याचष्टे, आत्मानम् अभ्याचष्टे सोऽग्निलोकम् अभ्याचष्ट इति ||३२||
* श्री आचाराङ्गसूत्रम् (अक्षरगमनिका)
१०