________________
अत्येति-अतिक्रामति
लोकसंयोगं-असंयतलोकेन धनहिरण्यमातृपित्रादिना रागद्वेषादिना तत्कार्येण वाऽष्टप्रकारेण कर्मणा वा संयोगम् । एष लोगसंयोगातिक्रमः न्यायः- युक्तियुक्तत्वात् मोक्षमार्गः प्रोच्यते मोक्षप्रापकत्वाद् यदिवा एष त्यक्तलोकसंयोगः परम् आत्मानं च सदुपदेशात् मोक्षं नयतीति नायः छान्दसत्वादिति ॥१०१॥
स्यादेतत् - किंभूतोऽसावुपदेश इत्यत आह
-
जं दुक्खं पवेइयं इह माणवाणं तस्स दुक्खस्स कुसला परिन्नमुदाहरति, इइ कम्मं परिन्नाय सव्वसो जे अणण्णदंसी से अणण्णारामे, जे अणण्णारामे से अणण्णदंसी, जहा पुण्णस्स कत्थइ तहा तुच्छस्स कत्थइ, जहा तुच्छस्स कत्थइ तहा पुण्णस्स कत्थइ ॥१०२॥
यद् दुःखं प्रवेदितं तीर्थकृद्भिः इह-अस्मिन् संसारे मानवानां तस्य दुःखस्य कुशलाः स्वभाव - हेतु - फलरूपां परिज्ञाम् उदाहरन्ति- कथयन्ति । किञ्च - तद्दुःखं कर्मकृतमिति कर्म परिज्ञाय सर्वशः कर्माश्रवद्वारेषु न वर्तेत, अथवा सर्वशः परिज्ञाय कथयति, यदिवा सर्वशः आक्षेपण्या धर्मकथयेति । सा च किदृक् कथेत्याह यः अनन्यदर्शी - सम्यग्दृष्टिः सः अनन्यारामः मोक्षमार्गरतः । यः अनंन्यारामः सः अनन्यदर्शी । एवं सम्यक्त्वस्वरूपं कथयंश्चारक्तद्विष्टः कथयतीति दर्शयति- यथा पुण्यवतः कथ्यते तथा तुच्छस्य कथ्यते, यथा तुच्छस्य कथ्यते तथा पुण्यवतः कथ्यते निरीहत्वात् प्रत्युपकारनिरपेक्षः सन् यो यथा बुध्यते तस्य तथैव कथयतीति भावः ॥१०२॥
-
राज्ञश्च कथयता तदभिप्रायमनुवर्तमानेन कथनीयम्, अन्यथा कदाचिदसौ प्रद्वेषमुपगच्छेद् द्विष्टश्चैतद्विदध्यादिति आह च -
-
अवि य हणे अणाइयमाणे, इत्थंपि जाण सेयंति नत्थि, केयं पुरिसे कं च नए ! एस वीरे पसंसिए, जे बद्धे पडिमोयए, उड्ढं अहं तिरियं दिसासु, से सव्वओ सव्वपरिन्नाचारी, न लिप्पइ छणपएण वीरे से मेहावि अणुग्धायणखेयन्ने जे य बन्धमुक्खमन्नेसी कुसले पुण नो बद्धे नो मुक्के ॥१०३॥
पुरुषमविदित्वा
अपि च हन्यात् अनाद्रियमाणः । अत्रापि धर्मकथा - करणेऽपि श्रेयो नास्तीति जानीहि । स्यादेतत् कथं तर्हि धर्मकथा कार्येत्युच्यते - कोऽयं पुरुषः ? कं च देवताविशेषं नतः ? एवमालोच्य
३८ * श्री आचाराङ्गसूत्रम् ( अक्षरगमनिका )
-