SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ • एष श्रोतृविवेचको वीरः प्रशंसितः, यो बद्धानां प्रतिमोचकः । कुतो व्यवस्थितान् जन्तून मोचयतीत्याह . ऊर्ध्वं ज्योतिष्कादीन् अधो भवनपत्यादीन्, तिर्यक्षु च दिक्षु मनुष्यादीनिति । किञ्च स सर्वतः सर्वपरिज्ञाचारी- सर्वचारित्री न लिप्यते क्षणपदेन- हिंसाऽऽस्पदेन वीरः । किञ्च - स मेधावी अणोद्घातनखेदज्ञः - कर्मोद्घातननिपुणः । यश्च बन्धप्रमोक्षान्वेषी स कुशलः - केवली छद्मस्थो वा पुनर्नो बद्धो गृहस्थ इव न च मुक्तो भवस्थत्वादिति ॥१०३।। ___ एवंभूतश्च कुशलः केवली छद्मस्थो वा यदाचीर्णवानाचरति वा तदपरेणावि मुमुक्षुणा विधेयमिति दर्शयति - से जंच आरंभे जं च नारभे, अणारद्धं च न आरभे, छणं छणं परिणाय लोगसन्नं च सब्बसो ॥१०४॥ स यच्च संयमानुष्ठानमारभते यच्च संसारकारणं नाऽऽरभते, तदारब्धव्यमनारब्धव्यं च, अनारब्धं- अनाचीर्णं च नाऽऽरभेत, क्षणं क्षणं - प्रत्येकं हिंसास्थानं परिज्ञाय परिहरेत् यदिवा प्रत्येकम् अवसरं परिज्ञाय तदनुरुपमाचरेदिति । किंञ्च- लोकसंज्ञां - विषयसुखेच्छां परिग्रहसंज्ञां वा सर्वशः परिहरेदिति ॥१०४॥ एवंविधस्य सत्पथव्यवस्थितस्य यद्भवति तद्दर्शयति - उद्देसो पासगस्स नत्थि, बाले पुणे निहे कामसमणुन्ने, असमियदुक्खे दुक्खी दुक्खाणमेव आवर्ल्ड अणुपरियट्टइ त्ति बेमि ॥१०५॥ उद्देशः-नारकादिव्यपदेशः पश्यकस्य-परमार्थदृशो नास्ति । बालः पुनः निहः स्निहो वा पूर्ववत् कामसमनोज्ञः अशमितदुःखो दुःखी दुःखानामेवाऽऽवर्तमनुपरिवर्तत इति ब्रवीमि ॥१०४।। ॥ ३ : शीतोष्णीयाध्ययनं- उद्देशकः-१ ॥ अनन्तरसूत्रे दुःखी दुःखानामेवावर्तमनुपरिवर्तत इत्युक्तं, तदिहापि भावसुप्ता अज्ञानिनो दुःखीनो दुःखानामेवावर्तमनुपरिवर्तन्त इत्याह - सुत्ता अमुणी सया मुणिणो जागरंति ॥१०६॥ अज्ञानमोहनिद्रया सुप्ता अमुनयः मिथ्यादृष्टयः, सदा मुनयः श्री आचारागसूत्रम् (अक्षरगमनिका) * ३९
SR No.022573
Book TitleAcharang Sutram Shrutskandh 01
Original Sutra AuthorN/A
AuthorKulchandrasuri
PublisherPorwad Jain Aradhana Bhavan Sangh
Publication Year1997
Total Pages126
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy