________________
सद्बोधोपेता असंयमनिद्राऽपगमात् जाग्रति-हिताहितप्राप्तिपरिहारं कुर्वत इति ।।१०६।। .. ये तु सुप्तास्तेऽज्ञानोदयाद् भवन्ति, अज्ञानं च महादुःखं, दुःखं च जन्तूनामहितायेति दर्शयति -
लोयंसि जाण अहियाय दुक्खं, समयं लोगस्स जाणित्ता, इत्थ सत्थोवरए, जस्सिमे सद्दा य रूवा य रसा य गंधा य फासा य अभिसमन्नागया भवंति ॥१०७॥
लोके- षड्जीवनिकाये जानीहि अहिताय दुःखं, समयम्- आचारं महामोहमोहितमतेर्लोकस्य, यदिवा समतां जन्तुसमूहे लोके ज्ञात्वा, अत्रषट्कायलोके शस्त्रोपरतो भवेदथवा धर्मजागरेण जागृहि वा । य उपरत स मुनिः, आह च- यस्य मुनेः इमे शब्दाश्च रूपाश्च रसाश्च गन्धाश्च स्पर्शाश्च अभिसमन्वागताः इष्टानिष्टेषु रागद्वेषाऽकरणतया ज्ञाता भवन्ति स लोकं जानातीति ॥१०७॥
एवं शब्दादीनिह-लोके परत्र च दुःखस्वभावानवगम्य यः परित्येजेदसौ कं गुणमवाप्नुयादित्याह -
से आयवं नाणवं वेयवं धंमवं बंभवं पन्नाणेहिं परियाणइ लोयं, मुणीति वुच्चे, धम्मविऊ, उज्जू, आवट्टसोए संगमभिजाणइ ॥१०८॥
स आत्मवान् ज्ञानवान् वेदवान् - आगमवान् धर्मवान् ब्रह्मवान्योगिशर्मवान् अष्टादशधा वा ब्रह्मवान् से “आयवी नाणवी" इत्यादि पाठान्तरमाश्रित्य स आत्मविद् ज्ञानविद् वेदविद् धर्मविद् ब्रह्मवित् प्रज्ञानैः परिजानाति लोकं मुनिरिति उच्येत । किञ्च- स धर्मविद् ऋजुः आवर्तश्रोतसोः - आवर्तः संसारः श्रोतः - विषयाभिलाषस्तयोः संगं- रागद्वेषाभ्यां सम्बन्धम् अभिजानाति । तत्संगं चानर्थरूपं ज्ञात्वा परिहरतीति ॥ १०७।।
सुप्तजाग्रतां दोषगुणज्ञाता कं गुणमवाप्नुयादित्याह -
सीउसिणचाई से निग्गंथे अरइरइसहे, फरुसयं नो वेएइ, जागरे वेरोवरए वीरे एवं दुक्खा पमुक्खसि, जरामचुवसोवणिए नरे सययं मूढे धम्म नाभिजाणइ ॥१०९॥ ____ शीतोष्णत्यागी-शीतोष्णरूपौ परीषहावतिसहमानः स निर्ग्रन्थः अरतिरतिसहः परुषतां - परीषहोपसर्गाणां कर्कशतां नो वेत्ति, पीडाकारित्वेन
४०
* श्री आचारागसूत्रम् (अक्षरगमनिका)