________________
न तान् गृह्णातीत्यर्थः । किञ्च जागरः असंयमनिद्रापगमात् वैराच्चोपरतश्चेति जागरवैरोपरतो वीरस्त्वमेवात्मानं परं च दुःखात् प्रमोक्ष्यसि । एतद्विपरीतश्च जरामृत्युवशोपनीतो नरः सततं मूढो धर्मं नाभिजानातीति ।।१०९।।
यतश्चैवम् अतः सर्वं जरामृत्युवशोपनीतं दृष्ट्वा किं कुर्यादित्याह
पासिय आउरपाणे अप्पमत्तो, परिव्वए मंता य मइमं, पास आरंभजं दुक्खमिणं ति णच्चा, माइ पमाइ पुण एइ गब्भं, उवेहमाणो सद्दरूवेसु उज्जू माराभिसंकी मरणा पमुच्चइ, अप्पमत्तो कामेहिं, उवरओ पावकम्मेहिं, वीरे आयगुत्ते खेयन्ने, जे पज्जवज्जायसत्यस्स खेयण्णे, से असत्थस्स, खेयण्णे जे असत्थस्स खेयण्णे से पज्जवज्जायसत्थस्स खेयण्णे, अकम्मस्स ववहारो न विज्जइ, कम्मुणा उवाही जायइ, कम्मं च पडिलेहाए ॥११०॥
..
भावजागर आतुरप्राणिनः शारीरमानसैर्दुःखैः किंकर्तव्यमूढान् दृष्ट्वा अप्रमत्तः परिव्रजेत् । अपि च- जाग्रतसुप्तगुणदोषान् मत्वा च मतिमन् ! पश्य भाव-सुप्तातुरान् तेषां आरम्भजं दुःखमिदमिति ज्ञात्वा निरारम्भो भूत्वाऽऽत्महिते जागृहि । मायी प्रमादी पुनरेति तिर्यक्षु गर्भम् । उपेक्षमाणो रागद्वेषौ शब्दरूपादिषु ऋजुः अनगारो माराभिशङ्की तत् करोति येन मरणात् प्रमुच्यते । अप्रमत्तः कामप्रमादे, उपरतः पापकर्मभ्यः, वीरो गुप्तात्मा खेदज्ञः, यः पर्यवजातशस्त्रस्य-शब्दादिविषयाणां पर्यवा विशेषास्तदुपादानाय यत् शस्त्रं प्राण्युपघातकार्यनुष्ठानं तस्य खेदज्ञः, यदि वा शब्दादिपर्यायेभ्यस्तज्जनितरागद्वेषपर्यायेभ्यो वा जातं यज्ज्ञानावरणीयादि कर्म तस्य यच्छस्त्रं तपः तस्य खेदज्ञः स अशस्त्रस्य संयमस्य खेदज्ञः, यः अशस्त्रस्य खेदज्ञः स पर्यवजातशस्त्रस्य खेदज्ञः । आश्रवनिरोधात् अकर्मणो व्यवहारो-नारकतिर्यग्नरामरादिरूपो न विद्यते I कर्मणा उपाधिर्जायते - मन्दमतिस्तीक्ष्णो वेत्यादि । कर्म च प्रत्युपेक्ष्य अकर्मतोपाये यतितव्यमिति ॥१०९॥
किंच -
-
-
कम्ममूलं च जं छणं, पडिलेहिय सव्वं समायाय दोहिं अंतेहिं अदिस्समाणे तं परिन्नाय मेहावी विइत्ता लोगं वंता लोगसन्नं से मेहावी परिक्कमिजासि त्ति बेमि ॥१११॥
कर्ममूलं च यत् क्षणं - हिंसनं तत् प्रत्युपेक्ष्य परित्यजेत् । 'कम्माहुय जं
श्री आचाराङ्गसूत्रम् (अक्षरगमनिका) * ४१