________________
यथापरिगृहितेन अशनेन वा ४ निर्जरामभिकाङ्ग्य साधर्मिकैः क्रियमाणं वैयावृत्यं स्वादयिष्यामि अभिलषिष्यामि, यो वाऽन्यः साधर्मिकोऽन्यस्य करोति तं चानुमोदयिष्यामि लाघविकम् आगमयन् यावत् सम्यक्त्वमेव समत्वमेव वा समभिजानीयादिति ॥२२२॥
तदेवमन्यतराभिग्रहवान् भिक्षुरचेलः सचेलो वा शरीरपीडायां सत्यामसत्यां वा आयुःशेषतामवगम्य उद्यतमरणं विदध्यादिति दर्शयितुमाह -
जस्स णं भिक्खुस्स एवं भवइ-से गिलामि खलु अहं इमम्मि समए इमं सरीरगं अणुपुबेणं परिवहित्तए, से अणुपुब्वेणं आहारं संवट्टिज्जा (२) कसाए पयणुए किच्चा समाहियच्चे फलगावयट्ठी उट्ठाय भिक्खू अभिनिबुडच्चे अणुपविसित्ता गामं वा नगरं वा जाव रायहाणिं वा तणाई जाइजा जाव सन्थरिजा, इत्थवि समए कायं च जोगं च ईरियं च पचक्खाइजा, तं सचं सच्चावाई ओए तिन्ने छिन्नकहकहे आईयढे अणाईए चिचाणं भेउरं कायं संविहुणिय विरूवसवे परीसहोवसग्गे अस्सि विस्संभणाए भेरवमणुचिन्ने तत्थवि तस्स कालपरियाए, सेवि तत्थ विअन्तिकारए, इच्चेयं विमोहाययणं हियं सुहं खमं निस्सेसं आणुगामियं तिबेमि ॥सू० २२३॥
यस्य भिक्षोरेवं भवति-अथ ग्लायामि च खल्वहम्, अस्मिन् समये न शक्नोमि इदं शरीरकमानुपूर्व्या परिवोढुं स आनुपूर्व्या आहारं संवर्तयेत् संक्षिपेत् । आनुपूर्व्या आहारं संवृत्य कषायान् प्रतनुकान् कृत्वा समाहितार्चः फलकावस्थायी फलकापदर्थी वाऽभ्युद्यतमरणार्थमुत्थाय भिक्षुरभिनिर्वत्तार्चः अनुप्रविश्य ग्रामं वा नगरं वा यावद् राजधानी वा तृणानि याचेत । याचित्वा यावत् संस्तरेत् । संस्तीर्य तणानि चाऽत्रापि समये संस्तारकमारुह्य सिद्धसमक्षं स्वतः पञ्चमहाव्रतारोपणं करोति । ततश्चतुर्विधमप्याहारं प्रत्याचष्टे । ततः पादपोगमनाय कायं च योगं च ईर्यां च प्रत्याचक्षीत । तत सत्यं सत्यवादी ओजस्तीर्ण छिन्नकथंकथ आतीतार्थ आदत्तार्थो वा अनातीत अनादत्तो वा त्यक्त्वा भिदुरं कायं, संविधूय विरूपरूपान् परीषहोपसर्गान्, अस्मिन्-सर्वज्ञप्रणीताऽऽगमे विस्रम्भणतया भैरवमनुचीर्णवान् । तत्रापि तस्य कालपर्यायः । सोऽपि तत्र व्यन्तिकारक इत्येतद् विमोहायतनं हितं सुखं क्षम निश्रेयसम् आनुगामिकमिति ब्रवीमि ॥२२३॥
*
१००
* श्री आचारागसूत्रम् (अक्षरगमनिका)