SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ आसेवित्ता एतं(व) अटै इच्चेवेगे समुट्ठिया, तम्हा तं बिइयं नो सेवे, निस्सारं पासिय नाणी, उववायं चवणं णचा अणणं चर माहणे से न छणे न छणावए छणंतं नाणुजाणइ, निबिंद नंदि, अरए पयासु, अणोमदंसी निसणे पावेहिं कम्मेहिं ॥११५॥ आसेव्य एवम् -' अनन्तरोक्तम् अर्थ-वधपरिग्रहतापादिकम् इत्येव .. लोभेच्छाप्रतिपूरणायैव एके भरतादयः समुत्थिताः सिद्धाश्च । यस्मात् कृतप्रतिज्ञस्तस्मात् - विषयसुखमसंयम वा द्वितीयं - पुनः नासेवेत ज्ञानी निस्सारं दृष्टवा । उपपातं च्यवनं च ज्ञात्वा अनन्यं - ज्ञानादित्रिकं चर माहण ! स न क्षणुयात्-हन्याह् न क्षाणयेत् क्षणुवन्तं नानुजानीयात् । निर्विन्दस्व विषयजनितां नन्दिम् अरक्तः प्रजासु - स्त्रीषु । अनवमदर्शी - रत्नत्रयीदर्शी निषण्णः - निर्विण्णः पापेभ्यः कर्मभ्य इति ।।११५॥ किंच कोहाइमाणं हणिया य वीरे, लोमस्स पासे निरयं महंतं ॥ तम्हा य वीरे विरए वहाओ, छिदिज सोयं लहुभूयगामी ॥१॥ गंथं परिण्णाय इहऽज्ज ! धीरे, सोयं परिणाय चरिज दंते ॥ उम्मच लद्धं इह माणवेहि, नो पाणिणं पाणे समारभिजासि ॥२॥ त्ति बेमि क्रोधादिमानं हन्यात् च वीरः लोभस्य स्थितिं विपाकं च पश्य नरकं महान्तम् । तस्मात् च वीरो विरतो वधात, छिन्द्यात् शोकं श्रोतो वा विषयाभिष्वङ्गरूपं लघुभूतगामी-लघुभूतो मोक्षः संयमो वा तद्गामी ॥१॥ ग्रन्थं परिज्ञाय इह अद्य आर्य ! वा धीरः सन् श्रोतः विषयाभिष्वङ्गं परिज्ञाय चरेद् दान्तः । श्रुतिश्रद्धासंयमवीर्यरूपम् उन्मज्जनं लब्ध्वा इह मानुष्येषु, न प्राणिनां प्राणान् समारभेथा इति ब्रवीमि ॥ ॥ इति द्वितीय उद्देशकः ।। ॥ अध्ययनं-३ : उद्देशकः-३ ॥ प्राणिनां प्राणान् न समारभेथा इत्यनन्तरोक्तम् । इह तु तदेव चारित्रं सन्धिरित्युच्यते । संधिं लोयस्स जाणित्ता, आयओ बहिया पास, तम्हा न हंता, न वि घायए, जमिणं अन्नमन्नवितिगिच्छाए पडिलेहाए न करेइ पावं कम्मं, किं तत्थ मुणी कारणं सिया ? ॥११६॥ सन्धि - कर्मविवरूपं चारित्रावसरं । लोकस्य लोके वा ज्ञात्वा न प्रमादः श्रेयान् । आत्मनो यत् सुखप्रियत्वमसुखाप्रियत्वं तत् बहिः पश्य । तस्मात् न ४४ * श्री आचाराङ्गसत्रम (अक्षरगमनिका)
SR No.022573
Book TitleAcharang Sutram Shrutskandh 01
Original Sutra AuthorN/A
AuthorKulchandrasuri
PublisherPorwad Jain Aradhana Bhavan Sangh
Publication Year1997
Total Pages126
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy