SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ अनभिक्रान्तं च खलु वयः सम्प्रेक्ष्य “आयळं संमं -समणुवासेज्जासि" इत्युत्तरेण सूत्रेण सम्वन्धः, आत्महितं कुर्यादित्यर्थः ॥७०॥ किमनतिक्रान्तवयसैवात्महितमनुष्ठेयमुतान्येनापीति ? परेणापि लब्धावसरेणात्महित-. मनुष्ठेयमित्येतद्दर्शयति - खणं जाणाहि पंडिए ॥७१॥ क्षणं - चारित्रावसरं जानीहि पण्डित ! ज्ञात्वा चाऽऽत्महितं कुर्यादित्युत्तरेण सूत्रेण सम्बन्धः ॥७१॥ किञ्च जाव सोयपरिण्णाणा अपरिहीणा, नेत्तपरिण्णाणा अपरिहीणा, घाणपरिणाणा अपरिहीणा, जीहपरिण्णाणा अपरिहीणा, फरिसपरिण्णाणा अपरिहीणा इचेएहिं विरूवरूवेहिं पण्णाणेहिं अपरिहीणेहिं, आयटं संमं समणुवासिज्जासि त्ति बेमि ॥७२॥ ___ यावत् श्रोत्रपरिज्ञानानि अपरिहीनानि, नेत्रपरिज्ञानानि अपरिहीनानि, घ्राणपरिज्ञानानि अपरिहीनानि, जिह्वापरिज्ञानानि अपरिहीनानि, स्पर्शपरिज्ञानानि अपरिहीनानि, इत्येतैः विरूपरूपैः प्रज्ञानैः अपरिहीनैः आत्मार्थं यदिवा आयतार्थं - अपर्यवसनाद् मोक्षार्थं यद्वा आयत्तार्थं - आयत्तत्वाद् मोक्षार्थं सम्यक् समनुवासयेत् - आत्मनि कुर्याः यदिवा रत्नत्रय्याऽऽत्मानं वासयेद् भावयेत् रञ्जयेदिति यावत् ॥७२।। अध्ययनं २ : उद्देशकः २ ॥ . संयमे वर्तमानस्य कदाचिदरतिः स्यात् तद्व्युदासार्थमाह- . . अरइं आउट्टे से मेहावी खणंसि मुक्के ॥७३॥ ....... अरतिं आवर्तेत - अपवर्तेत स मेधावी एवं क्षणे क्षणेन वा मुक्तो .. भरतवदिति ॥७३॥ .. ... ये पुनरनुपदेशवर्तिनः कण्डरीकायास्ते चतुर्गतिकसंसारान्तवर्तिनो दुःखसागरमधिवसन्तीत्याह - - अणाणाय पुट्ठावि एगे नियटृति, मंदा मोहेण पाउडा, अपरिग्गहा भविस्सामो समुट्ठाय लढे कामे अभिगाहइ, अणाणाए मुणिणो पडिलेहंति, इत्थ मोहे पुणो पुणो सन्ना नो हब्बोए नो पाराए ॥७॥ २४ * श्री आचाराङ्गसूत्रम् (अक्षरगमनिका)
SR No.022573
Book TitleAcharang Sutram Shrutskandh 01
Original Sutra AuthorN/A
AuthorKulchandrasuri
PublisherPorwad Jain Aradhana Bhavan Sangh
Publication Year1997
Total Pages126
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy