________________
अनाज्ञया
अनुपदेशेन स्त्र्यादिपरीषहोपसर्गेः स्पृष्टा एके निवर्तन्तेऽपि मन्दा मोहेन प्रावृत्ताः । अपरिग्रहा भविष्यामः अन्त्यव्रतोपादानात् शेषाण्यपि ग्राह्याणि स्वैरिण्या बुद्ध्या, इति समुत्थाय लब्धान् कामान् अभिगाहन्ते, अनाज्ञया मुनयः वेषविडम्बिनः कामोपायान् प्रत्युपेक्षन्ते, अत्र भावमोहे पुनः पुनः सन्नाः निमग्ना न हि अर्वाचे - आरातीयतीरदेश्याय गृहवाससौख्यायेत्यर्थः, न च पाराय-संयमाय, वान्तभोगाभिलाषितया यथोक्तसंयमाभावेन तत्क्रियाया विफलत्वात् । उभयभ्रष्टो न गृहस्थो नापि प्रव्रजित इत्यर्थः ॥७४॥
-
-
ये पुनप्रशस्तरतिनिवृत्ताः प्रशस्तरतिमधिशयानास्ते किंभूता भवन्तीत्याह
विमुत्ता खलु ते जना ये जना पारगामिणो, लोभमलोभेण दुगुंछमाणे लद्धे कामे नाभिगाइ ॥ ७५ ॥
विमुच्यमाना विमुक्ताः खलु ते जना ये जनाः पारगामिनः संयमानुष्ठायिनः कथमित्याह लोभमलोभेन जुगुप्समानो - निन्दन् परिहरन् वा लब्धान् कामान् नाभिगाहत इति ॥ ७५ ॥
तदेवं कुतश्चिनिमित्तात् सहापि लोभादिना निष्क्रम्य पुनर्लोभादिपरित्यागः कार्यः, अन्यस्तु लोभं विनापि प्रव्रज्यां प्रतिपद्यत इति दर्शयति -
विणावि लोभं निक्खम्म एस अकम्मे जाणइ पासइ पडिलेहाए नावकखइ, एस अणगारिति पञ्चइ अहो य सओ परितप्यमाणे कालाकालसमुट्ठाई संजोगट्ठी अट्ठालोभी आलूंपे सहक्कारे विणिविट्ठचित्ते, इत्थ सत्थे पुणो पुणो से आयबले, से नाइबले से सयणबले, से मित्तबले से पिच्चबले, से देवबले, से रायबले, से चोरबले, से अतिहिबले से किविणबले, से समणबले इचेएहिं विरूवरूवेहिं कज्जेहिं दंडसमायाणं संपेहाए भया कज्जइ, पावमुक्खुत्ति मन्नमाणे अदुवा आसंसा ॥ ७६ ॥ -
भरतराजवत् विनापि लोभं निष्क्रम्य एषः अकर्मा जानाति पश्यति, 'विणइत्तु लोभं' पाठान्तरमाश्रित्य विनीय लोभमित्यर्थ । अन्यच्च प्रत्युपेक्षणया - पर्यालोचनया विषयादि नावकाङ्क्षति एषः अनगार इति प्रोच्यते । गृद्धो लोकस्तु अहश्च रात्रिं च परितप्यमानः कालाकालसमुत्थायी संयोगार्थीअर्थाऽऽलोभी आलुम्पः सहसाकारो विनिविष्टचित्तो विनिविष्टचेष्टो वा, अत्र शस्त्रे पुनः पुनः प्रवर्तते । तद् आत्मबलं मे भावीतिकृत्वा इत्यस्य
श्री आचासङ्गसूत्रम् (अक्षरगमनिका ) * २५