________________
सर्वत्रानुवृत्तिः तद् ज्ञातिबलं तद् मित्रबलं तत् प्रेत्यबलं तद् देवबलं तद् राजबलं, तत् चोरबलं, तद् अतिथिबलं, तत् कृपणबलं, तत् श्रमणबलं मे भावीतिकृत्वैतैर्विरूपरूपैः कार्यैर्दण्डसमादानं सत्त्वोपघातं क्रियते । अन्यथा तदात्मबलादिकं मे न भावीति संप्रेक्षया आलोचनया भयात् क्रियते । पापमोक्ष इत्यपि मन्यमानः अथवाऽऽशंसया अप्राप्तप्रापणाभिलाषयापि सत्त्वोपघातकारिणीक्रियासु प्रवर्तत इति ॥ ७६ ॥
तदेवं ज्ञात्वा किं कर्तव्यमित्याह -
तं परिणाय मेहावी नेव सयं एएहिं कज्जेहिं दंडं समारंभिज्जा, णेव अन्नं एएहिं कजेहिं दंडं समारंभाविज्जा, एएहिं कज्जेहिं दंडं समारंभंतंपि अन्नं न समणुजाणिज्जा, एस मग्गे आरिएहिं पवेइए, जहेत्थ कुसले नोवलिंपिज्जासित्ति बेमि ॥७७॥ ॥ इति द्वितीय उद्देशकः ॥ २-२ ॥
तत् परिज्ञाय मेधावी नैव स्वयं एतैः कार्यैर्दण्डं समारभेत, नैव अन्यम् एतैः कार्येर्दण्डं समारम्भयेत्, एतैः कार्यैर्दण्डं समारभमाणम् अन्यं न समनुजानीत एष मार्ग आर्यैः तीर्थकृद्भिः प्रवेदितः, यथाऽत्र आत्मबलोपधानादिकेषु कार्येषु समुपस्थितेषु सत्सु दण्डसमादानं परिहरन् तजनितकर्मणा त्वं कुशलो नोपलिम्पयेरिति ब्रवीमि ॥७७॥
॥ अध्ययनं - २ उद्देशकः-३ ॥
-
भणितः कषायविषयात्मको भावलेपः अत्रापि कषाया वर्ण्यन्ते
से असई उच्चागोए असई नीआगोए, नो हीणे नो अइरित्ते नोऽपीहए, इय संखाय को गोयावाइ को माणावाइ ? कंसि वा एगे गिज्झा, तम्हा नो हरिसे नो कुप्पे, भूएहिं जाण पडिलेह सायं ॥ ७८ ॥
२६
-
स असकृद् उच्चैर्गोत्रे उत्पन्नः असकृद् नीचैर्गोत्रे उत्पन्नः, तदेवं न मानो विधेयो नापि दीनता, उच्चावच्चयोर्गोत्रयोर्बन्धाऽध्यवसायस्थानकण्डकानि तुल्यानीति, उच्चैर्गोत्रकण्डकार्थतयाऽसुभृत् न हीनो नातिरिक्तः । नागार्जुनीयास्तु पठन्ति एगमेगे खलु जीवे अइअद्धाए असई उच्चागोए असई नीआगोए - कंडगट्ट्याए नो हीनो नो अइरित्त उक्तार्थ एव, एवं सति किमपि मदस्थानं न ईहेताऽपि न स्पृहयेदपि । एवमसकदुच्चावच्चस्थानोत्पादादिकं संख्याय - ज्ञात्वा को गोत्रवादी भवेत् ? तथोच्चैर्गोत्रनिमित्तं
* श्री आचाराङ्गसूत्रम् ( अक्षरगमनिका )