________________
तथा, यदिवा कथमहमिङ्गितमरणप्रतिज्ञां निर्वहिष्ये इत्येवंरूपा कथा सा छिन्ना येन स तथा महापुरुषतया व्याकुलतारहित इत्यर्थः । आतीतार्थः अतीव इताः ज्ञाता अर्था येन सोऽयम् आतीतार्थः, यद्वा अतीता अतिक्रान्ता अर्थाः - प्रयोजनानि यस्य स तथा उपरतव्यापार इत्यर्थः, आदत्तार्थो वा, अनातीतः-आसमन्तादतीव इतो गतोऽनाद्यनन्ते संसारे आतीतः, न आतीतः अनातीतः, यदिवा अनादत्तः संसारो येन स तथा, त्यक्त्वा भिदुरं कायं, संविधूय विरुवरूपान् परीषहोपसर्गान्, अस्मिन - सर्वज्ञप्रणीताऽऽगमे विस्रम्भणतया भैरवमनुचीर्णवान् । तत्रापि ग्लानतयाऽऽहितेङ्गितमरणेऽपि तस्य कालपर्यायः । सोऽपि तत्र व्यन्तिकारक इत्यादि पूर्ववद् यावद् आनुगामिकमिति ब्रवीमि ॥२१९।।
॥ अध्ययनं-८ : उद्देशकः-७ ॥ अनन्तरमिङ्गिमरणमभिहितम् इहापि अभिग्रहाधिकारो वर्तते - जे भिक्खू अचेले परिखुसिए तस्स णं भिक्खुस्स एवं भवइ - चाएमि अहं तणफासं अहियासित्तए सीयफासं अहियासित्तए तेउफासं अहियासित्तए दंसमसगफासं अहियासित्तए एगयरे अन्नतरे विरूवरूवे फासे अहियासित्तए हिरिपडिच्छायणं चऽहं नो संचाएमि अहियासित्तए, एवं से कप्पेइ कडिबंधणं धारित्तए ।सू० २२०॥
यो भिक्षुरचेलः पर्युषितस्तस्य भिक्षोरेव भवति - शक्नोमि अहं तृणस्पर्शम् अध्यासयितुं, शीतस्पर्शम् अध्यासयितुं तेजः-स्पर्शम् अध्यासयितुं, दंशमशकस्पर्शम् अध्यासयितुम्, एकतरान् अन्यतरान् विरूपरूपान् स्पर्शान् अध्यासयितुं, ह्रीप्रतिच्छादनं ह्री - लज्जा तया गृप्तप्रदेशस्य प्रच्छादनं चाहं न शक्नोमि अध्यासयितुं, त्यक्तुं न शक्नोमीत्यर्थः, एवं प्रकृतिलज्जालुतया साधनविकृतिरूपतया वा तस्य कल्पते कटिबन्धनं-चोलपट्टकं धारयितुमिति ॥२२०॥
पुनरेतानि कारणानि न स्युस्ततोऽचेल एव पराक्रमेत । अचेलतया शीतादिस्पर्श सम्यगघिसहेतेति । एतत्प्रतिपादयितुमाह -
अदुवा तत्थ परक्कमंतं भुजो अचेलं तणफासा फुसन्ति सीयफासा फुसन्ति तेउफासा फुसन्ति दंसमसगफासा फुसन्ति एगयरे अन्नयरे विरूवरूवे फासे अहियासेइ, अचेले लापवियं आगममाणे जाव समभिजाणिया ॥सू० २२१॥
९८
* श्री आचाराङ्गसूत्रम् (अक्षरगमनिका)