________________
अथैके धर्ममादाय आदानप्रभृतिषु - ज्ञानादिषु प्रणिहिताश्चरेयुः, यदिवा धर्ममादाय आदानप्रभृति सुप्रणितिहिताश्चरेयुः कामेषु स्वजनेषु चाऽप्रलीयमाना धर्मचरणे दृढाः । किं च सर्वां गृद्धिं परिज्ञाय परित्यजेत् । गृद्धिपरित्यागेन एष संयमे प्रणतः प्रह्वः सन महामुनिर्भवति । अतिगत्य सर्वतः सङ्गं भावयेत, तथाहि- न ममास्तीत्येवम् एकोऽहमस्मिन् संसारे । यतमानोऽत्र-मौनीन्द्रप्रवचने विरतोऽनगारः सर्वतो मुण्डो रीयमाणो यः अचेलः पर्युषितः-अन्तप्रान्तभोजी अवमोदरिकायां संतिष्ठते । स कदाचिद् आक्रुष्टो वा हतो वा लुञ्चितो वा पलितं भो कोलिक इत्यादिकं पूर्वाचरितं जुगुप्सितं प्रकथ्य अथवा प्रकथ्य अतथ्यैः चौरस्त्वमित्यादिकैः शब्दैः स्पर्शेश्च कदर्थ्यते, तदा स्वकृतादृष्टफलमेतदिति संख्याय ज्ञात्वा एकतरान् अनुकुलान् अन्यतरान् प्रतिकुलान् उदीर्णान् अभिज्ञाय तितिक्षमाणः परिव्रजेत । ये च हीरूपाः याचनाऽचेलत्वादयः ये च अहीमनसः अलज्जाकारिणः यदिवा ये च हारिणो ये च अहारिण एतान् द्विरुपान् परीषहान् सम्यक् ज्ञात्वा यदिवा 'जक्खाइढे अयं पुरिसे' इत्यादि संख्याय तितिक्षमाणः परिव्रजेदिति ॥१८०॥
किंच
चिच्चा सवं विसुत्तियं फासे समियदंसणे, एए भो णगिणा वुत्ता जे लोगंसि अणागमण-धम्मिणो आणाए मामगं धम्मं एस उत्तरवाए इह माणवाणं वियाहिए, इत्थोवरए तं झोसमाणे आयाणिजं परिन्नाय परियाएण विगिंचइ, इह एगेसिं एगचरिया होइ तत्थियरा इयरेहिं कुलेहिं सुद्धेसणाए सब्बेसणाए से मेहावी परिब्बए सुभि अदुवा दुभि अदुवा तत्थ भेरवा पाणापाणे किलेसंति, ते फासे पुट्ठो धीरे अहियासिज्जासि त्ति बेमि ॥सू० १८१ ॥
त्यक्त्वा सर्वां विश्रोतसिकां स्पृशेत्-अधिसहेत समितदर्शनः - सम्यग्दृष्टिः । एते भो ! निर्ग्रन्था नग्नाः भावनग्ना उक्ता ये लोके अनागमनधर्माणः आरोपितप्रतिज्ञाभारवाहित्वात् न पुर्नगृहं प्रत्यागमनेप्सव इति । आज्ञया मामकं धर्मं सम्यगनुपालयेदिति तीर्थकर एवाह, यदिवा धर्मानुष्ठाय्येवमाह- धर्म एवैको मामकः अन्यत्सर्वं तु पारक्यमिति तमाज्ञया सम्यक्करोमीति यत एषः अनन्तरोक्त उत्तरवादः उत्कृष्टवाद इह मानवानां व्याख्यातः । अत्र कर्मधूननोपाये संयम उपरतस्तत्-कर्म झोषयन्-क्षपयन् धर्मं चरेत् । आदानीयं-कर्म परिज्ञाय पर्यायेण-श्रामण्येन विवेचयति ।
७६
* श्री आचाराङ्गसूत्रम् (अक्षरगमनिका)