________________
सुणोति, उड्ढं अहं पाइणं मुच्छमाणे रूवेसु मुच्छति, सेसेसु आवि ॥ ४२ ॥
ऊर्ध्वं वैमानिकानां अवाङ् - अधो-भवनपतीनां तिर्यग् प्राचीनादिषु दिक्षु विदिक्षु च व्यन्तर-ज्योतिष्कमनुष्यतिरश्चां पश्यन् रूपाणि पश्यति, श्रृण्वन् शब्दान् श्रृणोति । ऊर्ध्वमवाङ् प्राचीनादिषु मूर्च्छन् रुपेषु मूर्च्छति शब्देषु चापि ततोऽस्य बन्ध इति शेषः ||४२||
7
एवं विषयलोकमाख्याय विवक्षितमाह -
एस लोए वियाहिए एत्थ अगुत्ते अणाणा ॥ ४३ ॥
एष विषयलोको व्याख्यातः अत्राऽगुप्तः अनाज्ञायामिति ||४३||
एवं गुणश्च यत् कुर्यात्तदाह
पुणो पुणो गुणासाए वंकसमायारे ॥४४॥
पुनः पुनः शब्दादिगुणाऽऽस्वादको विषयलम्पटो वक्रसमाचारः असंयमानुष्ठायी भवतीति ॥४४॥
एवं चासौ नितरां जितः शब्दादिविषयसमास्वादनात् इदमाचरति
पत्तेऽगारमावसे ॥४५॥
प्रमत्तः अगारं - गृहम् आवसति ||४५||
अन्यतीर्थिकाः पुनः सर्वदा सर्वथाऽन्यथावादिनोऽन्यथाकारिण इति दर्शयितुमाह
जमाणा पुढो पास, अणगारा मोति एगे पवदमाणा जमिणं विरूरूवेहिं सत्थेहिं वणस्सइकम्मसमारंभेणं वणस्सइसत्थं समारंभमाणा अण्णे अणेगरूवे पाणे विहिंसंति, तत्थ खलु भगवया परिण्णा पवेदिता, इमस्स चेव जीवियस्स परिवंदणमाणण पूयणाए जाइमरणमोयणाए दुक्खपडिघायहेऊं से सयमेव वणस्सइसत्थं समारंभइ, अण्णेहिं वा वणस्सइसत्थं समारंभावेइ, अण्णे वा वणस्सइसत्थं समारंभमाणे समणुजाणइ, तं से अहियाए, तं से अबोहीए, से तं संबुज्झमाणे, आयाणीयं समुट्ठाए सोच्चा भगवओ अणगाराणं वा अंतिए इहमेगिसिं णायं भवति - एस खलु गंथे, एस खलु मोहे; एस खलु मारे, एस खलु णरये, इच्चत्थं गड्ढिए लोए, जमिणं विरूवरूवेहिं सत्थेहिं वणस्सइकम्मसमारंभेणं वणस्सइसत्थं समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसंति ॥४६॥
१४
* श्री आचाराङ्गसूत्रम् (अक्षरगमनिका)